धर्मDharmic Data

कर्णपर्व · Karna Parva

अध्याय 37

  1. [स] वर्तमाने तदा युद्धे कषत्रियाणां निमज्जने गाण्डीवस्य महान घॊषः शुश्रुवे युधि मारिष ॥ 1 ॥

  2. संशप्तकानां कदनम अकरॊद यत्र पाण्डवः कॊसलानां तथा राजन नारायण बलस्य च ॥ 2 ॥

  3. संशप्तकास तु समरे शरवृष्टिं समन्ततः अपातयन पार्थ मूर्ध्नि जय गृद्धाः परमन्यवः ॥ 3 ॥

  4. तां वृष्टिं सहसा राजंस तरसा धारयन परभुः वयगाहत रणे पार्थॊ विनिघ्नन रथिनां वरः ॥ 4 ॥

  5. निगृह्य तु रथानीकं कङ्कपत्रैः शिलाशितैः आससाद रणे पार्थः सुशर्माणं महारथम ॥ 5 ॥

  6. स तस्य शरवर्षाणि ववर्ष रथिनां वरः तथा संशप्तकाश चैव पार्थस्य समरे सथिताः ॥ 6 ॥

  7. सुशर्मा तु ततः पार्थां विद्ध्वा नवभिर आशुगैः जनार्दनं तरिभिर बाणैर अभ्यहन दक्षिणे भुजे ततॊ ऽपरेण भल्लेन केतुं विव्याध मारिष ॥ 7 ॥

  8. स वानरवरॊ राजन विश्वकर्म कृतॊ महान ननाद सुमहान नादं भीषयन वै ननर्द च ॥ 8 ॥

  9. कपेस तु निनदं शरुत्वा संत्रस्ता तव वाहिनी भयं विपुलम आदाय निश्चेष्टा समपद्यत ॥ 9 ॥

  10. ततः सा शुशुभे सेना निश्चेष्टावस्थिता नृप नानापुष्पसमाकीर्णं यथा चैत्ररथं वनम ॥ 10 ॥

  11. परतिलभ्य ततः संज्ञां यॊधास ते कुरुसत्तम अर्जुनं सिषिचुर बाणैः पर्वतं जलदा इव परिवव्रुस तदा सर्वे पाण्डवस्य महारथम ॥ 11 ॥

  12. ते हयान रथचक्रे च रथेषाश चापि भारत निगृह्य बलवत तूर्णं सिंहनादम अथानदन ॥ 12 ॥

  13. अपरे जगृहुश चैव केशवस्य महाभुजौ पार्थम अन्ये महाराज रथस्थं जगृहुर मुदा ॥ 13 ॥

  14. केशवस तु तदा बाहू विधुन्वन रणमूर्धनि पातयाम आस तान सर्वान दुष्टहस्तीव हस्तिनः ॥ 14 ॥

  15. ततः करुद्धॊ रणे पार्थः संवृतस तैर महारथैः निगृहीतं रथं दृष्ट्वा केशवं चाप्य अभिद्रुतम रथारूढांश च सुबहून पदातींश चाप्य अपातयत ॥ 15 ॥

  16. आसन्नांश च ततॊ यॊधाञ शरैर आसन्न यॊधिभिः चयावयाम आस समरे केशवं चेदम अब्रवीत ॥ 16 ॥

  17. पश्य कृष्ण महाबाहॊ संशप्तक गणान मया कुर्वाणान दारुणं कर्म वध्यमानान सहस्रशः ॥ 17 ॥

  18. रथबन्धम इदं घॊरं पृथिव्यां नास्ति कश चन यः सहेत पुमाँल लॊके मद अन्यॊ यदुपुंगव ॥ 18 ॥

  19. इत्य एवम उक्त्वा बीभत्सुर देवदत्तम अथाधमत पाञ्चजन्यं च कृष्णॊ ऽपि पूरयन्न इव रॊदसी ॥ 19 ॥

  20. तं तु शङ्खस्वनं शरुत्वा संशप्तक वरूथिनी संचचाल महाराज वित्रस्ता चाभवद भृषम ॥ 20 ॥

  21. पदबन्धं ततश चक्रे पाण्डवः परवीरहा नागम अस्त्रं महाराज संप्रॊदीर्य मुहुर मुहुः ॥ 21 ॥

  22. यान उद्दिश्य रणे पार्थः पदबन्धं चकार ह ते बद्धाः पदबन्धेन पाण्डवेन महात्मना निश्चेष्टा अभवन राजन्न अश्मसारमया इव ॥ 22 ॥

  23. निश्चेष्टांस तु ततॊ यॊधान अवधीत पाण्डुनन्दनः यथेन्दुः समरे दैत्यांस तारकस्य वधे पुरा ॥ 23 ॥

  24. ते वध्यमानाः समरे मुमुचुस तं रथॊत्तमम आयुधानि च सर्वाणि विस्रष्टुम उपचक्रमुः ॥ 24 ॥

  25. ततः सुशर्मा राजेन्द्र गृहीतां वीक्ष्य वाहिनीम सौपर्णम अस्त्रं तवरितः परादुश्चक्रे महारथः ॥ 25 ॥

  26. ततः सुपर्णाः संपेतुर भक्षयन्तॊ भुजंगमान ते वै विदुद्रुवुर नागा दृष्ट्वा तान खचरान नृप ॥ 26 ॥

  27. बभौ बलं तद विमुक्तं पदबन्धाद विशां पते मेघवृन्दाद यथा मुक्तॊ भास्करस तापयन परजाः ॥ 27 ॥

  28. विप्रमुक्तास तु ते यॊधाः फल्गुनस्य रथं परति ससृजुर बाणसंघांश च शस्त्रसंघांश च मारिष ॥ 28 ॥

  29. तां महास्त्र मयीं वृष्टिं संछिद्य शरवृष्टिभिः वयवातिष्ठत ततॊ यॊधान वासविः परवीरहा ॥ 29 ॥

  30. सुशर्मा तु ततॊ राजन बाणेनानत पर्वणा अर्जुनं हृदये विद्ध्वा विव्याधान्यैस तरिभिः शरैः स गाढविद्धॊ वयथितॊ रथॊपस्थ उपाविशत ॥ 30 ॥

  31. परतिलभ्य ततः संज्ञां शवेताश्वः कृष्णसारथिः ऐन्द्रम अस्त्रम अमेयात्मा परादुश्चक्रे तवरान्वितः ततॊ बाणसहस्राणि समुत्पन्नानि मारिष ॥ 31 ॥

  32. सर्वदिक्षु वयदृश्यन्त सूदयन्तॊ नृप दविपान हयान रथांश च समरे शस्त्रैः शतसहस्रशः ॥ 32 ॥

  33. वध्यमाने ततः सैन्ये विपुला भीः समाविशत संशप्तक गणानां च गॊपालानां च भारत न हि कश चित पुमांस तत्र यॊ ऽरजुनं परत्ययुध्यत ॥ 33 ॥

  34. पश्यतां तत्र वीराणाम अहन्यत महद बलम हन्यमानम अपश्यंश च निश्चेष्टाः सम पराक्रमे ॥ 34 ॥

  35. अयुतं तत्र यॊधानां हत्वा पाण्डुसुतॊ रणे वयभ्राजत रणे राजन विधूमॊ ऽगनिर इव जवलन ॥ 35 ॥

  36. चतुर्दशसहस्राणि यानि शिष्टानि भारत रथानाम अयुतं चैव तरिसाहस्राश च दन्तिनः ॥ 36 ॥

  37. ततः संशप्तका भूयः परिवव्रुर धनंजयम मर्तव्यम इति निश्चित्य जयं वापि निवर्तनम ॥ 37 ॥

  38. तत्र युद्धं महद धयासीत तावकानां विशां पते शूरेण बलिना सार्धं पाण्डवेन किरीटिना ॥ 38 ॥

Reach this point to mark the section finished.

Continue to अध्याय 38

Previous: अध्याय 36