[] कषत्रियास ते महाराज परस्परवधैषिणः अन्यॊन्यं समरे जघ्नुः कृतवैराः परस्परम ॥ 1 ॥
रथौघाश च हयौघाश च नरौघाश च समन्ततः गजौघाश च महाराज संसक्ताः सम परस्परम ॥ 2 ॥
गदानां परिघाणां च कणपानां च सर्पताम परासानां भिण्डिपालानां भुशुण्डीनां च सर्वशः ॥ 3 ॥
संपातं चान्वपश्याम संग्रामे भृशदारुणे शलभा इव संपेतुः समन्ताच छरवृष्टयः ॥ 4 ॥
नागा नागान समासाद्य वयधमन्त परस्परम हया हयांश च समरे रथिनॊ रथिनस तथा पत्तयः पत्तिसंघैश च हयसंघैर हयास तथा ॥ 5 ॥
पत्तयॊ रथमातङ्गान रथा हस्त्यश्वम एव च नागाश च समरे तर्यङ्गं ममृदुः शीघ्रगा नृप ॥ 6 ॥
पततां तत्र शूराणां करॊशतां च परस्परम घॊरम आयॊधनं जज्ञे पशूनां वैशसं यथा ॥ 7 ॥
रुधिरेण समास्तीर्णा भाति भारत मेदिनी शक्र गॊप गणाकीर्णा परावृषीव यथा धरा ॥ 8 ॥
यथा वा वाससी शुक्ले महारजन रञ्जिते बिभृत्याद युवतिः शयामा तद्वद आसीद वसुंधरा मांसशॊणितचित्रेव शातकौम्भमयीव च ॥ 9 ॥
छिन्नानां चॊत्तमाङ्गानां बाहूनां चॊरुभिः सह कुण्डलानां परविद्धानां भूषणानां च भारत ॥ 10 ॥
निष्काणाम अधिसूत्राणां शरीराणां च धन्विनाम वर्मणां सपताकानां संघास तत्रापतन भुवि ॥ 11 ॥
गजान गजाः समासाद्य विषाणाग्रैर अदारयन विषाणाभिहतास ते च भराजन्ते दविरदा यथा ॥ 12 ॥
रुधिरेणावसिक्ताङ्गा गैरिकप्रस्रवा इव यथा भराजन्ति सयन्दन्तः पर्वता धातुमण्डिताः ॥ 13 ॥
तॊमरान गजिभिर मुक्तान परतीपान आस्थितान बहून हस्तैर विचेरुस ते नागा बभञ्जुश चापरे तथा ॥ 14 ॥
नाराचैश छिन्नवर्माणॊ भराजन्ते सम गजॊत्तमाः हिमागमे महाराज वयभ्रा इव महीधराः ॥ 15 ॥
शरैः कनकपुङ्खैस तु चिता रेजुर गजॊत्तमाः उल्काभिः संप्रदीप्ताग्राः पर्वता इव मारिष ॥ 16 ॥
केच चिद अभ्याहता नागा नागैर नगनिभा भुवि निपेतुः समरे तस्मिन पक्षवन्त इवाद्रयः ॥ 17 ॥
अपरे पराद्रवन नागाः शल्यार्ता वरणपीडिताः परतिमानैश च कुम्भैश च पेतुर उर्व्यां महाहवे ॥ 18 ॥
निषेदुः सिंहवच चान्ये नदन्तॊ भैरवान रवान मम्लुश च बहवॊ राजंश चुकूजुश चापरे तथा ॥ 19 ॥
हयाश च निहता बाकैः सवर्णभाण्ड परिच्छदाः निषेदुश चैव मम्लुश च बभ्रमुश च दिशॊ दश ॥ 20 ॥
अपरे कृष्यमाणाश च विवेष्टन्तॊ महीतले भावान बहुविधांश चक्रुस ताडिताः शरतॊमरैः ॥ 21 ॥
नरास तु निहता भूमौ कूजन्तस तत्र मारिष दृष्ट्वा च बान्धवान अन्ये पितॄन अन्ये पितामहान ॥ 22 ॥
धावमानान परांश चैव दृष्ट्वान्ये तत्र भारत गॊत्र नामानि खयातानि शशंसुर इतरेतरम ॥ 23 ॥
तेषां छिन्ना महाराज भुजाः कनकभूषणाः उद्वेष्टन्ते विवेष्टन्ते पतन्ते चॊत्पतन्ति च ॥ 24 ॥
निपतन्ति तथा भूमौ सफुरन्ति च सहस्रशः वेगांश चान्ये रणे चक्रुः सफुरन्त इव पन्नगाः ॥ 25 ॥
ते भुजा भॊगि भॊगाभाश चन्दनाक्ता विशां पते लॊहितार्द्रा भृशं रेजुस तपनीयध्वजा इव ॥ 26 ॥
वर्तमाने तथा घॊरे संकुले सर्वतॊदिशम अविज्ञाताः सम युध्यन्ते विनिघ्नन्तः परस्परम ॥ 27 ॥
भौमेन रजसा कीर्णे शस्त्रसंपात संकुले नैव सवे न परे राजन वयज्ञायन्त तमॊवृते ॥ 28 ॥
तथा तद अभवद युद्धं घॊररूपं भयानकम शॊणितॊदा महानद्यः परसस्रुस तत्र चासकृत ॥ 29 ॥
शीर्ष पाषाण संछन्नाः केशशैवलशाद्वलाः अस्थि संघातसंकीर्णा धनुः शरवरॊत्तमाः ॥ 30 ॥
मांसकर्दम पङ्काश च शॊणितौघाः सुदारुणाः नदीः परवर्तयाम आसुर यम राष्ट्रविवर्धनीः ॥ 31 ॥
ता नद्यॊ घॊररूपाश च नयन्त्यॊ यमसादनम अवगाढा मज्जयन्त्यः कषत्रस्याजनयन भयम ॥ 32 ॥
करव्यादानां नरव्याघ्र नर्दतां तत्र तत्र ह घॊरम आयॊधनं जज्ञे परेतराजपुरॊपमम ॥ 33 ॥
उत्थितान्य अगणेयानि कबन्धानि समन्ततः नृत्यन्ति वै भूतगणाः संतृप्ता मांसशॊणितैः ॥ 34 ॥
पीत्वा च शॊणितं तत्र वसां पीत्वा च भारत मेदॊ मज्जा वसा तृप्तास तृप्ता मांसस्य चैव हि धावमानाश च दृश्यन्ते काकगृध्रबलास तथा ॥ 35 ॥
शूरास ते समरे राजन भयं तयक्त्वा सुदुस्त्यजम यॊधव्रतसमाख्याताश चक्रुः कर्माण्य अभीतवत ॥ 36 ॥
शरशक्तिसमाकीर्णे करव्यादगणसंकुले वयचरन्त गणैः शूराः खयापयन्तः सवपौरुषम ॥ 37 ॥
अन्यॊन्यं शरावयन्ति सम नामगॊत्राणि भारत पितृनामानि च रणे गॊत्र नामानि चाभितः ॥ 38 ॥
शरावयन्तॊ हि बहवस तत्र यॊधा विशां पते अन्यॊन्यम अवमृद्नन्तः शक्तितॊमरपट्टिशैः ॥ 39 ॥
वर्तमाने तदा युद्धे घॊररूपे सुदारुणे वयषीदत कौरवी सेना भिन्ना नौर इव सागरे ॥ 40 ॥
कर्णपर्व · Karna Parva
अध्याय 36
Reach this point to mark the section finished.
Continue to अध्याय 37