[धृ] सुदुष्करम इदं कर्मकृतं भीमेन संजय येन कर्णॊ महाबाहू रथॊपस्थे निपातितः ॥ 1 ॥
कर्णॊ हय एकॊ रणे हन्ता सृञ्जयान पाण्डवैः सह इति दुर्यॊधनः सूत पराब्रवीन मां मुहुर मुहुः ॥ 2 ॥
पराजितं तु राधेयं दृष्ट्वा भीमेन संयुगे ततः परं किम अकरॊत पुत्रॊ दुर्यॊधनॊ मम ॥ 3 ॥
[स] विभ्रान्तं परेक्ष्य राधेयं सूतपुत्रं महाहवे महत्या सेनया राजन सॊदर्यान समभाषत ॥ 4 ॥
शीघ्रं गच्छत भद्रं वॊ राधेयं परिरक्षत भीमसेनभयागाधे मज्जन्तं वयसनार्णवे ॥ 5 ॥
ते तु राज्ञः समादिष्टा भीमसेनजिघांसवः अभ्यवर्तन्त संक्रुद्धाः पतंगा इव पावकम ॥ 6 ॥
शरुतायुर दुर्धरः कराथॊ विवित्सुर विकटः समः निषङ्गी कवची पाशी तथा नन्दॊपनन्दकौ ॥ 7 ॥
दुष्प्रधर्षः सुबाहुश च वातवेगसुवर्चसौ धनुर गराहॊ दुर्मदश च तथा सत्त्वसमः सहः ॥ 8 ॥
एते रथैः परिवृता वीर्यवन्तॊ महाबलाः भीमसेनं समासाद्य समन्तात पर्यवारयन ते वयमुञ्चञ शरव्रातान नाना लिङ्गान समन्ततः ॥ 9 ॥
स तैर अभ्यर्द्यमानस तु भीमसेनॊ महाबलः तेषाम आपततां कषिप्रं सुतानां ते नराधिप रथैः पञ्चाशता सार्धं पञ्चाशन नयहनद रथान ॥ 10 ॥
विवित्सॊस तु ततः करुद्धॊ भल्लेनापाहरच छिरः सकुण्डल शिरस तराणं पूर्णचन्द्रॊपमं तदा भीमेन च महाराज स पपात हतॊ भुवि ॥ 11 ॥
तं दृष्ट्वा निहतं शूरं भरातरः सर्वतः परभॊ अब्भ्यद्रवन्त समरे भीमं भीमपराक्रमम ॥ 12 ॥
ततॊ ऽपराभ्यां भल्लाभ्यां पुत्रयॊस ते महाहवे जहार समरे पराणान भीमॊ भीमपराक्रमः ॥ 13 ॥
तौ धराम अन्वपद्येतां वातरुग्णाव इव दरुमौ विकटश च समश चॊभौ देवगर्भसमौ नृप ॥ 14 ॥
ततस तु तवरितॊ भीमः कराथं निन्ये यमक्षयम नाराचेन सुतीक्ष्णेन स हतॊ नयपतद भुवि ॥ 15 ॥
हाहाकारस ततस तीव्रः संबभूव जनेश्वर वध्यमानेषु ते राजंस तदा पुत्रेषु धन्विषु ॥ 16 ॥
तेषां संलुलिते सैन्ये भीमसेनॊ महाबलः नन्दॊपनन्दौ समरे परापयद यमसादनम ॥ 17 ॥
ततस ते पराद्रवन भीताः पुत्रास ते विह्वली कृताः भीमसेनं रणे दृष्ट्वा कालान्तकयमॊपमम ॥ 18 ॥
पुत्रांस ते निहतान दृष्ट्वा सूतपुत्रॊ महामनाः हंसवर्णान हयान भूयः पराहिणॊद यत्र पाण्डवः ॥ 19 ॥
ते परेषिता महाराज मद्रराजेन वाजिनः भीमसेनरथं पराप्य समसज्जन्त वेगिताः ॥ 20 ॥
स संनिपातस तुमुलॊ घॊररूपॊ विशां पते आसीद रौद्रॊ महाराज कर्ण पाण्डवयॊर मृधे ॥ 21 ॥
दृष्ट्वा मम महाराज तौ समेतौ महारथौ आसीद बुद्धिः कथं नूनम एतद अद्य भविष्यति ॥ 22 ॥
ततॊ मुहूर्ताद राजेन्द्र नातिकृच्छ्राद धसन्न इव विरथं भीमकर्माणं भीमं कर्णश चकार ह ॥ 23 ॥
विरथॊ भरतश्रेष्ठः परहसन्न अनिलॊपमः गदाहस्तॊ महाबाहुर अपतत सयन्दनॊत्तमात ॥ 24 ॥
नागान सप्तशतान राजान्न ईष दन्तान परहारिणः वयधमत सहसा भीमः करुद्ध रूपाः परंतपः ॥ 25 ॥
दन्तवेष्टेषु नेत्रेषु कम्भेषु स कटेषु च मर्मस्व अपि च मर्मज्ञॊ निनदन वयधमद भृशम ॥ 26 ॥
ततस ते पराद्रवन भीताः परतीपं परहिताः पुनः महामात्रैस तम आवव्रुर मेघा इव दिवाकरम ॥ 27 ॥
तान स सप्तशतान नागान सारॊहायुध केतनान भूमिष्ठॊ गदया जघ्ने शरन मेघान इवानिलः ॥ 28 ॥
ततः सुबल पुत्रस्य नागान अतिबलान पुनः पॊथयाम आस कौन्तेयॊ दवापञ्चाशतम आहवे ॥ 29 ॥
तथा रथशतं साग्रं पत्तींश च शतशॊ ऽपरान नयहनत पाण्डवॊ युद्धे तापयंस तव वाहिनीम ॥ 30 ॥
परताप्यमानं सूर्येण भीमेन च महात्मना तव सैन्यं संच्चुकॊच चर्म वह्नि गतं यथा ॥ 31 ॥
ते भीम भयसंत्रस्तास तावका भरतर्षभ विहाय समरे भीमं दुद्रुवुर वै दिशॊ दश ॥ 32 ॥
रथाः पञ्चशताश चान्ये हरादिनश चर्म वर्मिणः भीमम अभ्यद्रवंस तूर्णं शरपूगैः समन्ततः ॥ 33 ॥
तान ससूत रथान सर्वान सपताका धवजायुधान पॊथयाम आस गदया भीमॊ विष्णुर इवासुरान ॥ 34 ॥
ततः शकुनिनिर्दिष्टाः सादिनः शूर संमताः तरिसाहस्रा ययुर भीमं शक्त्यृष्टि परासपाणयः ॥ 35 ॥
तान परत्युद्गम्य यवनान अश्वारॊहान वरारिहा विचरन विविधान मार्गान घातयाम आस पॊथयन ॥ 36 ॥
तेषाम आसीन महाञ शब्दस ताडितानां च सार्वशः असिभिश छिद्यमानानां नडानाम इव भारत ॥ 37 ॥
एवं सुबल पुत्रस्य तरिसाहस्रान हयॊत्तमान हत्वान्यं रथम आस्थाय करुद्धॊ राधेयम अभ्ययात ॥ 38 ॥
कर्णॊ ऽपि समरे राजन धर्मपुत्रम अरिंदमम शरैः परच्छादयाम आस सारथिं चाप्य अपातयत ॥ 39 ॥
ततः संम्प्रद्रुतं संख्ये रथं दृष्ट्वा महारथः अन्वधावत किरन बाणैः कङ्कपत्रैर अजिह्मगैः ॥ 40 ॥
राजानम अभि धावन्तं शरैर आवृत्य रॊदसी करुद्धः परच्छादयाम आस शरजालेन मारुतिः ॥ 41 ॥
संनिवृत्तस ततस तूर्णं राधेयः शत्रुकर्शनः भीमं परच्छादयाम आस समन्तान निशितैः शरैः ॥ 42 ॥
भीमसेनरथव्यग्रं कर्णं भारत सात्यकिः अभ्यर्दयद अमेयात्मा पार्ष्णिग्रहणकारणात अभ्यवर्तत कर्णस तम अर्दितॊ ऽपि शरैर भृशम ॥ 43 ॥
ताव अन्यॊन्यं समासाद्य वृषाभौ सर्वधन्विनाम विसृजन्तौ शरांश चित्रान विभ्राजेतां मनस्विनौ ॥ 44 ॥
ताभ्यां वियति राजेन्द्र विततं भीमदर्शनम करौञ्चपृष्ठारुणं रौद्रं बाणजालं वयदृश्यत ॥ 45 ॥
नैव सूर्यप्रभां खं वा न दिशः परदिशः कुतः पराज्ञासिष्म वयं ताभ्यां शरैर मुक्तैः सहस्रशः ॥ 46 ॥
मध्याह्ने तपतॊ राजन भास्करस्य महाप्रभाः हृताः सर्वाः शरौघैस तैः कर्णम आधवयॊस तदा ॥ 47 ॥
सौबलं कृतवर्माणं दरौणिम आधिरथिं कृपम संसक्तान पाण्डवैर दृष्ट्वा निवृत्ताः कुरवः पुनः ॥ 48 ॥
तेषाम आपततां शब्दस तीव्र आसीद विशां पते उद्धूतानां यथा वृष्ट्या सागराणां भयावहः ॥ 49 ॥
ते सेने भृशसंविग्ने दृष्ट्वान्यॊन्यं महारणे हर्षेण महता युक्ते परिगृह्य परस्परम ॥ 50 ॥
ततः परववृते युद्धं मध्यं पराप्ते दिवाकरे यादृशं न कदाचिद धि दृष्टपूर्वं न च शरुतम ॥ 51 ॥
बलौघस तु समासाद्य बलौघं सहसा रणे उपासर्पत वेगेन जलौघ इव सागरम ॥ 52 ॥
आसीन निनादः सुमहान बलौघानां परस्परम गर्जतां सागरौघाणां यथा सयान निस्वनॊ महान ॥ 53 ॥
ते तु सेने समासाद्य वेगवत्यौ परस्परम एकीभावम अनुप्राप्ते नद्याव इव समागमे ॥ 54 ॥
ततः परववृते युद्धं घॊररूपं विशां पते कुरूणां पाण्डवानां च लिप्सतां सुमहद यशः ॥ 55 ॥
कुरूणां गर्जतां तत्र अविच्छेद कृता गिरः शरूयन्ते विविधा राजन नामान्य उद्दिश्य भारत ॥ 56 ॥
यस्य यद धि रणे नयङ्गं पितृतॊ मातृतॊ ऽपि वा कर्मतः शीलतॊ वापि स तच छरावयते युधि ॥ 57 ॥
तान दृष्ट्वा समरे शूरांस तर्जयानान परस्परम अब्भवन मे मती राजन्न एषाम अस्तीति जीवितम ॥ 58 ॥
तेषां दृष्ट्वा तु करुद्धानां वपूंष्य अमिततेजसाम अभवन मे भयं तीव्रं कथम एतद भविष्यति ॥ 59 ॥
ततस ते पाण्डवा राजन कौरवाश च महारथाः ततक्षुः सायकैस तीक्ष्णैर निघ्नन्तॊ हि परस्परम ॥ 60 ॥
कर्णपर्व · Karna Parva
अध्याय 35
Reach this point to mark the section finished.
Continue to अध्याय 36