[स] विदार्य कर्णस तां सेनां धर्मराजम उपाद्रवत रथहस्त्यश्वपत्तीनां सहस्रैः परिवारितः ॥ 1 ॥
नानायुध सहस्राणि परेषितान्य अरिभिर वृषः छित्त्वा बाणशतैर उग्रैस तान विध्यद असंभ्रमः ॥ 2 ॥
निचकर्त शिरांस्य एषां बाहून ऊरूंश च सर्वशः ते हता वसुधां पेतुर भग्नाश चान्ये विदुद्रुवुः ॥ 3 ॥
दरविडान्ध्र निषादास तु पुनः सात्यकिचॊदिताः अभ्यर्दयञ जिघांसन्तः पत्तयः कर्णम आहवे ॥ 4 ॥
ते विबाहु शिरस तराणाः परहताः कर्ण सायकैः पेतुः पृथिव्यां युगपच छिन्नं शालवनं यथा ॥ 5 ॥
एवं यॊधशतान्य आजौ सहस्राण्य अयुतानि च हतानीयुर महीं देहैर यशसापूरयन दिशः ॥ 6 ॥
अथ वैकर्तनं कर्णं रणे करुद्धम इवान्तकम रुरुधुः पाण्डुपाञ्चाला वयाधिं मन्त्रौषधैर इव ॥ 7 ॥
स तान परमृद्याभ्यपतत पुनर एव युधिष्ठिरम मन्त्रौषधिक्रियातीतॊ वयाधिर इत्य उल्बणॊ यथा ॥ 8 ॥
स राजगृद्धिभी रुद्धः पाण्डुपाञ्चाल केकयैः नाशकत तान अतिक्रान्तुं मृत्युर बरह्मविदॊ यथा ॥ 9 ॥
ततॊ युधिष्ठिरः कर्णम अदूरस्थं निवारितम अब्रवीत परवीरघ्नः करॊधसंरक्तलॊचनः ॥ 10 ॥
कर्ण कर्ण वृथा दृष्टे सूतपुत्र वचः शृणु सदा सपर्धसि संग्रामे फल्गुनेन यशस्विना तथास्मान बाधसे नित्यं धार्तराष्ट्र मते सथितः ॥ 11 ॥
यद बलं यच च ते वीर्यं परद्वेषॊ यश च पाण्डुषु तत सर्वं दर्शयस्वाद्य पौरुषं महद आस्थितः युद्धश्रद्धां स ते ऽदयाहं विनेष्यामि महाहवे ॥ 12 ॥
एवम उक्त्वा महाराज कर्णं पाण्डुसुतस तदा सुवर्णपुङ्खैर दशभिर विव्याधायॊ मयैः शितैः ॥ 13 ॥
तं सूतपुत्रॊ नवभिः परत्यविध्यद अरिंदमः वत्सदन्तैर महेष्वासः परहसन्न इव भारत ॥ 14 ॥
ततः कषुराभ्यां पाञ्चाल्यौ चक्ररक्षौ महात्मनः जघान समरे शूरः शरैः संनतपर्वभिः ॥ 15 ॥
ताव उभौ धर्मराजस्य परवीरौ परिपार्श्वतः रथाभ्याशे चकाशेते चन्द्रस्येव पुनर वसू ॥ 16 ॥
युधिष्ठिरः पुनः कर्णम अविध्यत तरिंशता शरैः सुषेणं सत्यसेनं च तरिभिस तरिभिर अताडयत ॥ 17 ॥
शल्यं नवत्या विव्याध तरिसप्तत्या च सूतजम तांश चास्य गॊप्तॄन विव्याध तरिभिस तरिभिर अजिह्मगैः ॥ 18 ॥
ततः परहस्याधिरथिर विधुन्वानः स कार्मुकम भित्त्वा भल्लेन राजानं विद्ध्वा षष्ट्यानदन मुदा ॥ 19 ॥
ततः परवीराः पाण्डूनाम अभ्यधावन युधिष्ठिरम सूतपुत्रात परीप्सन्तः कर्णम अभ्यर्दयञ शरैः ॥ 20 ॥
सात्यकिश चेकितानश च युयुत्सुः पाण्ड्य एव च धृष्टद्युम्नः शिखण्डी च दरौपदेयाः परभद्रकाः ॥ 21 ॥
यमौ च भीमसेनश च शिशुपालस्य चात्मजः कारूषा मत्स्यशेषाश च केकयाः काशिकॊसलाः एते च तवरिता वीरा वसुषेणम अवारयन ॥ 22 ॥
जनमेजयश च पाञ्चाल्यः कर्णं विव्याध सायकैः वराहकर्णैर नाराचैर नालीकैर निशितैः शरैः वत्सदन्तैर विपाठैश च कषुरप्रैश चटका मुखैः ॥ 23 ॥
नानाप्रहरणैश चॊग्रै रथहस्त्यश्वसादिनः सर्वतॊ ऽभयाद्रवन कर्णं परिवार्य जिघांसया ॥ 24 ॥
स पाण्डवानां परवरैः सर्वतः समभिद्रुतः उदैरयद बराह्मम अस्त्रं शरैः संपूरयन दिशः ॥ 25 ॥
तथा शरमहाज्वालॊ वीर्यॊष्मा कर्ण पावकः निर्दहन पाण्डव वनं चारु पर्यचरद रणे ॥ 26 ॥
स संवार्य महास्त्राणि महेष्वासॊ महात्मनाम परहस्य पुरुषेन्द्रस्य शरैश चिच्छेद कार्मुकम ॥ 27 ॥
तथ संधाय नवतिं निमेषान नतपर्वणाम बिभेद कवचं राज्ञॊ रणे कर्णः शितैः शरैः ॥ 28 ॥
तद वर्म हेमविकृतं रराज निपतत तदा सविद्युदभ्रं सवितुः शिष्टं वातहतं यथा ॥ 29 ॥
तद अङ्गं पुरुषेन्द्रस्य भरष्टवर्म वयरॊचत रत्नैर अलंकृतं दिव्यैर वयभ्रं निशि यथा नभः ॥ 30 ॥
स विवर्मा शरैः पार्थॊ रुधिरेण समुक्षितः करुद्धः सर्वायसीं शक्तिं चिक्षेपाधिरथिं परति ॥ 31 ॥
तां जवलन्तीम इवाकाशे शरैश चिच्छेद सप्तभिः सा छिन्ना भूमिम अपतन महेष्वासस्य सायकैः ॥ 32 ॥
ततॊ बाह्वॊर ललाटे च हृदि चैव युधिष्ठिरः चतुर्भिस तॊमरैः कर्णं ताडयित्वा मुदानदत ॥ 33 ॥
उद्भिन्न रुधिरः कर्णः करुद्धः सर्प इव शवसन धवजं चिच्छेद भल्लेन तरिभिर विव्याध पाण्डवम इषुधी चास्य चिच्छेद रथं च तिलशॊ ऽचछिनत ॥ 34 ॥
एवं पार्थॊ वयपायात स निहतप्रार्ष्टि सारथिः अशक्नुवन परमुखतः सथातुं कर्णस्य दुर्मनाः ॥ 35 ॥
तम अभिद्रुत्य राधेयः सकन्धं संस्पृश्य पाणिना अब्रवीत परहसन राजन कुत्सयन्न इव पाण्डवम ॥ 36 ॥
कथं नाम कुले जातः कषत्रधर्मे वयवस्थितः परजह्यात समरे शत्रून पराणान रक्षन महाहवे ॥ 37 ॥
न भवान कषत्रधर्मेषु कुशलॊ ऽसीति मे मतिः बराह्मे बले भवान युक्तः सवाध्याये यज्ञकर्मणि ॥ 38 ॥
मां सम युध्यस्व कौन्तेय मा च वीरान समासदः मा चैनान अप्रियं बरूहि मा च वरज महारणम ॥ 39 ॥
एवम उक्त्वा ततः पार्थं विसृज्य च महाबलः नयहनत पाण्डवीं सेनां वज्रहस्त इवासुरीम ततः परायाद दरुतं राजन वरीडन्न इव जनेश्वरः ॥ 40 ॥
अथ परयान्तं राजानम अन्वयुस ते तदाच्युतम चेदिपाण्डव पाञ्चालाः सात्यकिश च महारथ दरौपदेयास तथा शूरा माद्रीपुत्रौ च पाण्डवौ ॥ 41 ॥
ततॊ युधिष्ठिरानीकं दृष्ट्वा कर्णः पराङ्मुखम कुरुभिः सहितॊ वीरैः पृष्ठगैः पृष्ठम अन्वयात ॥ 42 ॥
शङ्खभेरी निनादैश च कार्मुकाणां च निस्वनैः बभूव धार्तराष्ट्राणां सिंहनाद रवस तदा ॥ 43 ॥
युधिष्ठिरस तु कौरव्य रथम आरुह्य सत्वरः शरुतकीर्तेर महाराज दृष्टवान कर्ण विक्रमम ॥ 44 ॥
काल्यमानं बलं दृष्ट्वा धर्मराजॊ युधिष्ठिरः तान यॊधान अब्रवीत करुद्धॊ हतैनं वै सहस्रशः ॥ 45 ॥
ततॊ राज्ञाभ्यनुज्ञाताः पाण्डवानां महारथाः भीमसेनमुखाः सर्वे पुत्रांस ते परत्युपाद्रवन ॥ 46 ॥
अभवत तुमुलः शब्दॊ यॊधानां तत्र भारत हस्त्यश्वरथपत्तीनां शस्त्राणां च ततस ततः ॥ 47 ॥
उत्तिष्ठत परहरत परैताभिपततेति च इति बरुवाणा अन्यॊन्यं जघ्नुर यॊधा रणाजिरे ॥ 48 ॥
अभ्रच छायेव तत्रासीच छरवृष्टिभिर अम्बरे समावृत्तैर नरवरैर निघ्नद्भिर इतरेतरम ॥ 49 ॥
विपताका धवजच छत्रा वयश्व सूतायुधा रणे वयङ्गाङ्गावयवाः पेतुः कषितौ कषीणा हतेश्वराः ॥ 50 ॥
परवराणीव शैलानां शिखराणि दविपॊत्तमाः सारॊहा निहताः पेतुर वज्रभिन्ना इवाद्रयः ॥ 51 ॥
छिन्नभिन्न विपर्यस्तैर वर्मालंकार विग्रहैः सारॊहास तुरगाः पेतुर हतवीराः सहस्रशः ॥ 52 ॥
विप्र विद्धायुधाङ्गाश च दविरदाश्वरथैर हताः परतिवीरैश च संमर्दे पत्तिसंघाः सहस्रशः ॥ 53 ॥
विशालायतताम्राक्षैः पद्मेन्दु सदृशाननैः शिरॊभिर युद्धशौण्डानां सर्वतः संस्तृता मही ॥ 54 ॥
तथा तु वितते वयॊम्नि निस्वनं शुश्रुवुर जनाः विमानैर अप्सरः संघैर गीतवादित्रनिस्वनैः ॥ 55 ॥
हतान कृत्तान अभिमुखान वीरान वीरैः सहस्रशः आरॊप्यारॊप्य गच्छन्ति विमानेष्व अप्सरॊगणाः ॥ 56 ॥
तद दृष्ट्वा महद आश्चर्यं परत्यक्षं सवर्गलिप्सया परहृष्टमनसः शूराः कषिप्रं जग्मुः परस्परम ॥ 57 ॥
रथिनॊ रथिभिः सार्धं चित्रं युयुधुर आहवे पत्तयः पत्तिभिर नागा नागैः सह हयैर हयाः ॥ 58 ॥
एवं परवृत्ते संग्रामे गजवाजिजनक्षये सैन्ये च रजसा वयाप्ते सवे सवाञ जघ्नुः परे परान ॥ 59 ॥
कचाकचि बभौ युद्धं दन्ता दन्ति नखा नखि मुष्टियुद्धं नियुद्धं च देहपाप्म विनाशनम ॥ 60 ॥
तथा वर्तति संग्रामे गजवाजिजनक्षये नराश्वगजदेहेभ्यः परसृता लॊहितापगा नराश्वगजदेहान सा वयुवाह पतितान बहून ॥ 61 ॥
नराश्वगजसंबाधे नराश्वगजसादिनाम लॊहितॊदा महाघॊरा नदी लॊहितकर्दमा नराश्वगजदेहान सा वहन्ती भीरु भीषणी ॥ 62 ॥
तस्याः परमपारं च वरजन्ति विजयैषिणः गाधेन च पलवन्तश च निमज्ज्यॊन्मज्ज्य चापरे ॥ 63 ॥
ते तु लॊहितदिग्धाङ्गा रक्तवर्मायुधाम्बराः सस्नुस तस्याम पपुश चासृन मम्लुश च भरतर्षभ ॥ 64 ॥
रथान अश्वान नरान नागान आयुधाभरणानि च वसनान्य अथ वर्माणि हन्यमानान हतान अपि भूमिं खं दयां दिशश चैव परायः पश्याम लॊहितम ॥ 65 ॥
लॊहितस्य तु गन्धेन सपर्शेन च रसेन च रूपेण चातिरिक्तेन शब्देन च विसर्पता विषादः सुमहान आसीत परायः सैन्यस्य भारत ॥ 66 ॥
तत तु विप्रहतं सैन्यं भीमसेनमुखैस तव भूयः समाद्रवन वीराः सात्यकिप्रमुखा रथाः ॥ 67 ॥
तेषाम आपततां वेगम अविषह्य महात्मनाम पुत्राणां ते महत सैन्यम आसीद राजन पराङ्मुखम ॥ 68 ॥
तत परकीर्णरथाश्वेभं नरवाजि समाकुलम विध्वस्तचर्म कवचं परविद्धायुध कार्मुकम ॥ 69 ॥
वयद्रवत तावकं सैन्यं लॊड्यमानं समन्ततः सिंहार्दितं महारण्ये यथा गजकुलं तथा ॥ 70 ॥
कर्णपर्व · Karna Parva
अध्याय 33
Reach this point to mark the section finished.
Continue to अध्याय 34