धर्मDharmic Data

कर्णपर्व · Karna Parva

अध्याय 32

  1. [धृ] तथा वयूढेष्व अनीकेषु संसक्तेषु च संजय संशप्तकान कथं पार्थॊ गतः कर्णश च पाण्डवान ॥ 1 ॥

  2. एतद विस्तरतॊ युद्धं परब्रूहि कुशलॊ हय असि न हि तृप्यामि वीराणां शृण्वानॊ विक्रमान रणे ॥ 2 ॥

  3. [स] तत सथाने समवस्थाप्य परत्यमित्रं महाबलम अव्यूहतार्जुनॊ वयूहं पुत्रस्य तव दुर्नये ॥ 3 ॥

  4. तत सादिनागकलिलं पदातिरथसंकुलम धृष्टद्युम्नमुखैर वयूढम अशॊभत महद बलम ॥ 4 ॥

  5. पारावत सवर्णाश्वश चन्द्रादित्य समद्युतिः पार्षतः परबभौ धन्वी कालॊ विग्रहवान इव ॥ 5 ॥

  6. पार्षतं तव अभि संतस्थुर दरौपदेया युयुत्सवः सानुगा भीमवपुशश चन्द्रं तारागणा इव ॥ 6 ॥

  7. अथ वयूढेष्व अनीकेषु परेक्ष्य संशप्तकान रणे करुद्धॊ ऽरजुनॊ ऽभिदुद्राव वयाक्षिपन गाण्डिवं धनुः ॥ 7 ॥

  8. अथ संशप्तकाः पार्थम अभ्यधावन वधैषिणः विजये कृतसंकल्पा मृत्युं कृत्वा निवर्तनम ॥ 8 ॥

  9. तद अश्वसंघ बहुलं मत्तनागरथाकुलम पत्तिमच छूर वीरौघैर दरुतम अर्जुनम आद्रवत ॥ 9 ॥

  10. स संप्रहारस तुमुलस तेषाम आसीत किरीटिना तस्यैव नः शरुतॊ यादृङ निवातकवचैः सह ॥ 10 ॥

  11. रथान अश्वान धवजान नागान पत्तीन रथपतीन अपि इषून धनूंषि खड्गांश च चक्राणि च परश्वधान ॥ 11 ॥

  12. सायुधान उद्यतान बाहून उद्यतान्य आयुधानि च चिच्छेद दविषतां पार्थः शिरांसि च सहस्रशः ॥ 12 ॥

  13. तस्मिन सैन्ये महावर्ते पातालावर्त संनिभे निमग्नं तं रथं मत्वा नेदुः संशप्तका मुदा ॥ 13 ॥

  14. स पुरस्ताद अरीन हत्वा पश्चार्धेनॊत्तरेण च दक्षिणेन च बीभत्सुः करुद्धॊ रुद्रः पशून इव ॥ 14 ॥

  15. अथ पाञ्चाल चेदीनां सृञ्जयानां च मारिष तवदीयैः सह संग्राम आसीत परमदारुणः ॥ 15 ॥

  16. कृपश च कृतवर्मा च शकुनिश चापि सौबलः हृष्टसेनाः सुसंरब्धा रथानीकैः परहारिणः ॥ 16 ॥

  17. कॊसलैः काशिमत्स्यैश च कारूषैः केकयैर अपि शूरसेनैः शूर वीरैर युयुधुर युद्धदुर्मदाः ॥ 17 ॥

  18. तेषाम अन्तकरं युद्धं देहपाप्म परणाशनम शूद्र विट कषत्रवीराणां धर्म्यं सवर्ग्यं यशः करम ॥ 18 ॥

  19. दुर्यॊधनॊ ऽपि सहितॊ भरातृभिर भरतर्षभ गुप्तः कुरुप्रवीरैश च मद्राणां च महारथैः ॥ 19 ॥

  20. पाण्डवैः सहपाञ्चालैश चेदिभिः सात्यकेन च युध्यमानं रणे कर्णं कुरुवीरॊ ऽभयपालयत ॥ 20 ॥

  21. कर्णॊ ऽपि निशितैर बाणैर विनिहत्य महाचमूम परमृद्य च रथश्रेष्ठान युधिष्ठिरम अपीडयत ॥ 21 ॥

  22. विपत्रायुध देहासून कृत्वा शत्रून सहस्रशः युक्त्वा सवर्गयशॊभ्यां च सवेभ्यॊ मुदम उदावहत ॥ 22 ॥

  23. [धृ] यत तत परविश्य पार्थानां सेनां कुर्वञ जनक्षयम कर्णॊ राजानम अभ्यर्च्छत तन ममाचक्ष्व संजय ॥ 23 ॥

  24. के च परवीराः पार्थानां युधि कर्णम अवारयन कांश च परमथ्याधिरथिर युधिष्ठिरम अपीडयत ॥ 24 ॥

  25. [स] धृष्टद्युम्नमुखान पार्थान दृष्ट्वा कर्णॊ वयवस्थितान समभ्यधावत तवरितः पाञ्चालाञ शत्रुकर्शनः ॥ 25 ॥

  26. तं तूर्णम अभिधावन्तं पाञ्चाला जितकाशिनः परत्युद्ययुर महाराज हंसा इव महार्णवम ॥ 26 ॥

  27. ततः शङ्खसहस्राणां निस्वनॊ हृदयंगमः परादुरासीद उभयतॊ भेरीशब्दश च दारुणः ॥ 27 ॥

  28. नाना वादित्रनादश च दविपाश्वरथनिस्वनः सिंहनादश च वीराणाम अभवद दारुणस तदा ॥ 28 ॥

  29. साद्रि दरुमार्णवा भूमिः सवाताम्बुदम अम्बरम सार्केन्दु गरहनक्षत्रा दयौश च वयक्तं वयघूर्णत ॥ 29 ॥

  30. अति भूतानि तं शब्दं मेनिरे ऽति च विव्यथुः यानि चाप्लव सत्त्वानि परायस तानि मृतानि च ॥ 30 ॥

  31. अथ कर्णॊ भृशं करुद्धः शीघ्रम अस्त्रम उदीरयन जघान पाण्डवीं सेनाम आसुरीं मघवान इव ॥ 31 ॥

  32. स पाण्डवरथांस तूर्णं परविश्य विसृजञ शरान परभद्रकाणां परवरान अहनत सप्त सप्ततिम ॥ 32 ॥

  33. ततः सुपुङ्खैर निशितै रथश्रेष्ठॊ रथेषुभिः अवधीत पञ्चविंशत्या पाञ्चालान पञ्चविंशतिम ॥ 33 ॥

  34. सुवर्णपुङ्खैर नाराचैः परकायविदारणैः चेदिकान अवधीद वीरः शतशॊ ऽथ सहस्रशः ॥ 34 ॥

  35. तं तथा समरे कर्म कुर्वाणम अतिमानुषम परिवव्रुर महाराज पाञ्चालानां रथव्रजाः ॥ 35 ॥

  36. ततः संधाय विशिखान पञ्च भारत दुःसहान पाञ्चालान अवधीत पञ्च कर्णॊ वैकर्तनॊ वृषः ॥ 36 ॥

  37. भानुदेवं चित्रसेनं सेना बिन्दुं च भारत तपनं शूरसेनं च पाञ्चालान अवधीद रणे ॥ 37 ॥

  38. पाञ्चालेषु च शूरेषु वध्यमानेषु सायकैः हाहाकारॊ महान आसीत पाञ्चालानां महाहवे ॥ 38 ॥

  39. तेषां संकीर्यमाणानां हाहाकारकृता दिशः पुनर एव च तान कर्णॊ जघानाशु पतत्रिभिः ॥ 39 ॥

  40. चक्ररक्षौ तु कर्णस्य पुत्रौ मारिष दुर्जयौ सुषेणः सत्यसेनश च तयक्त्वा पराणान अयुध्यताम ॥ 40 ॥

  41. पृष्ठगॊपस तु कर्णस्य जयेष्ठः पुत्रॊ महारथः वृषसेनः सवयं कर्णं पृष्ठतः पर्यपालयत ॥ 41 ॥

  42. धृष्टद्युम्नः सात्यकिश च दरौपदेया वृकॊदरः जनमेजयः शिखण्डी च परवीराश च परभद्रकाः ॥ 42 ॥

  43. चेदिकेकयपाञ्चाला यमौ मत्स्याश च दंशिताः समभ्यधावन राधेयं जिघांसन्तः परहारिणः ॥ 43 ॥

  44. त एनं विविधैः शस्त्रैः शरधाराभिर एव च अभ्यवर्षन विमृद्नन्तः परावृषीवाम्बुदा गिरिम ॥ 44 ॥

  45. पितरं तु परीप्सन्तः कर्ण पुत्राः परहारिणः तवदीयाश चापरे राजन वीरा वीरान अवारयन ॥ 45 ॥

  46. सुषेणॊ भीमसेनस्य छित्त्वा भल्लेन कार्मुकम नाराचैः सप्तभिर विद्ध्वा हृदि भीमं ननाद ह ॥ 46 ॥

  47. अथान्यद धनुर आदाय सुदृढं भीमविक्रमः सज्यं वृकॊदरः कृत्वा सुषेणस्याच्छिनद धनुः ॥ 47 ॥

  48. विव्याध चैनं नवभिः करुद्धॊ नृत्यन्न इवेषुभिः कर्णं च तूर्णं विव्याध तरिसप्तत्या शितैः शरैः ॥ 48 ॥

  49. सत्यसेनं च दशभिः साश्वसूतध्वजायुधम पश्यतां सुहृदां मध्ये कर्ण पुत्रम अपातयत ॥ 49 ॥

  50. कषुरप्र णुन्नं तत तस्य शिरश चन्द्रनिभाननम शुभदर्शनम एवासीन नालभ्रष्टम इवाम्बुजम ॥ 50 ॥

  51. हत्वा कर्णसुतं भीमस तावकान पुनर आर्दयत कृप हार्दिक्ययॊश छित्त्वा चापे ताव अप्य अथार्दयत ॥ 51 ॥

  52. दुःशासनं तरिभिर विद्ध्वा शकुनिं षड्भिर आयसैः उलूकं च पतत्रिं च चकार विरथाव उभौ ॥ 52 ॥

  53. हे सुषेण हतॊ ऽसीति बरुवन्न आदत्त सायकम तम अस्य कर्णश चिच्छेद तरिभिश चैनम अताडयत ॥ 53 ॥

  54. अथान्यम अपि जग्राह सुपर्वाणं सुतेजनम सुषेणायासृजद भीमस तम अप्य अस्याच्छिनद वृषः ॥ 54 ॥

  55. पुनः कर्णस तरिसप्तत्या भीमसेनं रथेषुभिः पुत्रं परीप्सन विव्याध करूरं करूरैर जिघांसया ॥ 55 ॥

  56. सुषेणस तु धनुर गृह्य भारसाधनम उत्तमम नकुलं पञ्चभिर बाणैर बाह्वॊर उरसि चार्दयत ॥ 56 ॥

  57. नकुलस तं तु विंशत्या विद्ध्वा भारसहैर दृढैः ननाद बलवन नादं कर्णस्य भयम आदधत ॥ 57 ॥

  58. तं सुषेणॊ महाराज विद्ध्वा दशभिर आशुगैः चिच्छेद च धनुः शीघ्रं कषुरप्रेण महारथः ॥ 58 ॥

  59. अथान्यद धनुर आदाय नकुलः करॊधमूर्च्छितः सुषेणं बहुभिर बाणैर वारयाम आस संयुगे ॥ 59 ॥

  60. स तु बाणैर दिशॊ राजन्न आच्छाद्य परवीरहा आजघ्ने सारथिं चास्य सुषेणं च ततस तरिभिः चिच्छेद चास्य सुदृढं धनुर भल्लैस तरिभिस तरिधा ॥ 60 ॥

  61. अथान्यद धनुर आदाय सुषेणः करॊधमूर्छितः अविध्यन नकुलं षष्ट्या सहदेवं च सप्तभिः ॥ 61 ॥

  62. तद युद्धं सुमहद घॊरम आसीद देवासुरॊपमम निघ्नतां सायकैस तूर्णम अन्यॊन्यस्य वधं परति ॥ 62 ॥

  63. सात्यकिर वृषसेनस्य हत्वा सूतं तरिभिः शरैः धनुश चिच्छेद भल्लेन जघानाश्वांश च सप्तभिः धवजम एकेषुणॊन्मथ्य तरिभिस तं हृद्य अताडयत ॥ 63 ॥

  64. अथावसन्नः सवरथे मुहूर्तात पुनर उत्थितः अथॊ जिघांसुः शैनेयं खड्गचर्म भृद अभ्ययात ॥ 64 ॥

  65. तस्य चाप्लवतः शीघ्रं वृषसेनस्य सात्यकिः वराहकर्णैर दशभिर अविध्यद असि चर्मणी ॥ 65 ॥

  66. दुःशासनस तु तं दृष्ट्वा विरथं वयायुधं कृतम आरॊप्य सवरथे तूर्णम अपॊवाह रथान्तरम ॥ 66 ॥

  67. अथान्यं रथम आस्थाय वृषसेनॊ महारथः कर्णस्य युधि दुर्धर्षः पुनः पृष्ठम अपालयत ॥ 67 ॥

  68. दुःशासनं तु शैनेयॊ नवैर नवभिर आशुगैः विसूताश्वरथं कृत्वा ललाडे तरिभिर आर्पयत ॥ 68 ॥

  69. स तव अन्यं रथम आस्थाय विधिवत कल्पितं पुनः युयुधे पाण्डुभिः सार्धं कर्णस्याप्याययन बलम ॥ 69 ॥

  70. धृष्टद्युम्नस ततः कर्णम अविध्यद दशभिः शरैः दरौपदेयास तरिसप्तत्या युयुधानस तु सप्तभिः ॥ 70 ॥

  71. भीमसेनश चतुःषष्ट्या सहदेवश च पञ्चभिः नकुलस तरिंशता बाणैः शतानीकश च सप्तभिः शिखण्डी दशभिर वीरॊ धर्मराजः शतेन तु ॥ 71 ॥

  72. एते चान्ये च राजेन्द्र परवीरा जय गृद्धिनः अभ्यर्दयन महेष्वासं सूतपुत्रं महामृधे ॥ 72 ॥

  73. तान सूतपुत्रॊ विशिखैर दशभिर दशभिः शितैः रथे चारु चरन वीरः पत्यविध्यद अरिंदमः ॥ 73 ॥

  74. तत्रास्त्र वीर्यं कर्णस्य लाघवं च महात्मनः अपश्याम महाराज तद अद्भुतम इवाभवत ॥ 74 ॥

  75. न हय आददानं ददृशुः संदधानं च सायकान विमुञ्चन्तं च संरम्भाद ददृशुस ते महारथम ॥ 75 ॥

  76. दयौर वियद भूर दिशश चाशु परणुन्ना निशितैः शरैः अरुणाभ्रावृताकारं तस्मिन देशे बभौ वियत ॥ 76 ॥

  77. नृत्यन्न इव हि राधेयश चापहस्तः परतापवान यैर विद्धः परत्यविध्यत तान एकैकं तरिगुणैः शरैः ॥ 77 ॥

  78. दशभिर दशभिश चैनान पुनर विद्ध्वा ननाद ह साश्वसूत धवजच छत्रास ततस ते विवरं ददुः ॥ 78 ॥

  79. तान परमृद्नन महेष्वासान राधेयः शरवृष्टिभिः राजानीकम असंबाधं पराविशच छत्रुकर्शनः ॥ 79 ॥

  80. स रथांस तरिशतान हत्वा चेदीनाम अनिवर्तिनाम राधेयॊ निशितैर बाणैर ततॊ ऽभयार्च्छद युधिष्ठिरम ॥ 80 ॥

  81. ततस ते पाण्डवा राजञ शिखण्डी च ससात्यकिः राधेयात परिरक्षन्तॊ राजानं पर्यवारयन ॥ 81 ॥

  82. तथैव तावकाः सर्वे कर्णं दुर्वारणं रणे यत्ताः सेना महेष्वासाः पर्यरक्षन्त सर्वशः ॥ 82 ॥

  83. नाना वादित्रघॊषाश च परादुरासन विशां पते सिंहनादश च संजज्ञे शूराणाम अनिवर्तिनाम ॥ 83 ॥

  84. ततः पुनः समाजग्मुर अभीताः कुरुपाण्डवाः युधिष्ठिर मुखाः पार्थाः सूतपुत्र मुखा वयम ॥ 84 ॥

Reach this point to mark the section finished.

Continue to अध्याय 33

Previous: अध्याय 31