धर्मDharmic Data

कर्णपर्व · Karna Parva

अध्याय 31

  1. [स] ततः परानीक भिदं वयूहम अप्रतिमं परैः समीक्ष्य कर्णः पार्थानां धृष्टद्युम्नाभिरक्षितम ॥ 1 ॥

  2. परययौ रथघॊषेण सिंहनाद रवेण च वादित्राणां च निनदैः कम्पयन्न इव मेदिनीम ॥ 2 ॥

  3. वेपमान इव करॊधाद युद्धशौण्डः परंतपः पतिव्यूह्य महातेजा यथावद भरतर्षभ ॥ 3 ॥

  4. वयधमत पाण्डवीं सेनाम आसुरीं मघवान इव युधिष्ठिरं चाभिभवन्न असपव्यं चकार ह ॥ 4 ॥

  5. [धृ] कथं संजय राधेयः परत्यव्यूहत पाण्डवान धृष्टद्युम्नमुखान वीरान भीमसेनाभिरक्षितान ॥ 5 ॥

  6. के च परपक्षौ पक्षौ वा मम सैन्यस्य संजय परविभज्य यथान्यायं कथं वा समवस्थिताः ॥ 6 ॥

  7. कथं पाण्डुसुतश चापि परत्यव्यूहन्त मामकान कथं चैतान महायुद्धं परावर्तत सुदारुणम ॥ 7 ॥

  8. कव च बीभत्सुर अभवद यत कर्णॊ ऽयाद युधिष्ठिरम कॊ हय अर्जुनस्य सांनिध्ये शक्तॊ ऽभयेतुं युधिष्ठिरम ॥ 8 ॥

  9. सर्वभूतानि यॊ हय एकः खाण्डवे जितवान पुरा कस तम अन्यत्र राधेयात परतियुध्येज जिजीविषुः ॥ 9 ॥

  10. [स] शृणु वयूहस्य रचनाम अर्जुनश च यथागतः परिदाय नृपं तेभ्यः संग्रामश चाभवद यथा ॥ 10 ॥

  11. कृपः शारद्वतॊ राजन मागधश च तरस्विनः सात्वतः कृतवर्मा च दक्षिणं पक्षम आश्रिताः ॥ 11 ॥

  12. तेषां परपक्षे शकुनिर उलूकश च महारथः सादिभिर विमलप्रासैस तवानीकम अरक्षताम ॥ 12 ॥

  13. गान्धारिभिर असंभ्रान्तैः पार्वतीयैश च दुर्जयैः शलभानाम इव वरातैः पिशाचैर इव दुर्दृशैः ॥ 13 ॥

  14. चतुस्त्रिंशत सहस्राणि रथानाम अनिवर्तिनाम संशप्तका युद्धशौण्डा वामं पार्श्वम अपालयन ॥ 14 ॥

  15. समुच्चितास तव सुतैः कृष्णार्जुन जिघांसवः तेषां परपक्षः काम्बॊजाः शकाश च यवनैः सह ॥ 15 ॥

  16. निदेशात सूतपुत्रस्य सरथाः साश्वपत्तयः आह्वयन्तॊ ऽरजुनं तस्थुः केशवं च महाबलम ॥ 16 ॥

  17. मध्ये सेनामुखं कर्णॊ वयवातिष्ठत दंशितः चित्रवर्माङ्गदः सरग्वी पालयन धवज्जिनी मुखम ॥ 17 ॥

  18. रक्ष्यमाणः सुसंरब्धैः पुत्रैः शस्त्रभृतां वरः वाहिनी परमुखं वीरः संप्रकर्षन्न अशॊभत ॥ 18 ॥

  19. अयॊ ऽरत्निर महाबाहुः सूर्यवैश्वानर दयुतिः महाद्विप सकन्धगतः पिङ्गलः परियदर्शनः दुःशासनॊ वृतः सैन्यैः सथितॊ वयूहस्य पृष्ठ्यतः ॥ 19 ॥

  20. तम अन्वयान महाराज सवयं दुर्यॊधनॊ नृपः चित्राश्वैश चित्रसंनाहैः सॊदर्यैर अभिरक्षितः ॥ 20 ॥

  21. रक्ष्यमाणॊ महावीर्यैः सहितैर मद्रकेकयैः अशॊभत महाराज देवैर इव शतक्रतुः ॥ 21 ॥

  22. अश्वत्थामा कुरूणां च ये परवीरा महारथाः नित्यमत्ताश च मातङ्गाः शूरैर मलेच्छैर अधिष्ठिताः अन्वयुस तद्रथानीकं कषरन्त इव तॊयदाः ॥ 22 ॥

  23. ते धवजैर वैजयन्तीभिर जवलद्भिः परमायुधैः सादिभिश चास्थिता रेजुर दरुमवन्त इवाचलाः ॥ 23 ॥

  24. तेषां पदातिनागानां पादरक्षाः सहस्रशः पट्टिशासि धराः शूरा बभूवुर अनिवर्तिनः ॥ 24 ॥

  25. सादिभिः सयन्दनैर नागैर अधिकं समलंकृतैः स वयूह राजॊ विबभौ देवासुरचमूपमः ॥ 25 ॥

  26. बार्हस्पत्यः सुविहितॊ नायकेन विपश्चिता नृत्यतीव महाव्यूहः परेषाम आदधद भयम ॥ 26 ॥

  27. तस्य पक्षप्रपक्षेभ्यॊ निष्पतन्ति युयुत्सवः पत्त्यश्वरथमातङ्गाः परावृषीव बलाहकाः ॥ 27 ॥

  28. ततः सेनामुखे कर्णं दृष्ट्वा राजा युधिष्ठिरः धनंजयम अमित्रघ्नम एकवीरम उवाच ह ॥ 28 ॥

  29. पश्यार्जुन महाव्यूहं कर्णेन विहितं रणे युक्तं पक्षैः परपक्षैश च सेनानीकं परकाशते ॥ 29 ॥

  30. तद एतद वै समालॊक्य परत्यमित्रं महद बलम यथा नाभिभवत्य अस्मांस तथा नीतिर विधीयताम ॥ 30 ॥

  31. एवम उक्तॊ ऽरजुनॊ राज्ञा पराञ्जलिर नृपम अब्रवीत यथा भवान आह तथा तत सर्वं न तद अन्यथा ॥ 31 ॥

  32. यस तव अस्य विहितॊ घातस तं करिष्यामि भारत परधानवध एवास्य विनाशस तं करॊम्य अहम ॥ 32 ॥

  33. [य] यस्मात तवम एव राधेयं भीमसेनः सुयॊधनम वृषसेनं च नकुलः सहदेवॊ ऽपि सौबलम ॥ 33 ॥

  34. दुःशासनं शतानीकॊ हार्दिक्यं शिनिपुंगवः धृष्टद्युम्नस तथा दरौणिं सवयं यास्याम्य अहं कृपम ॥ 34 ॥

  35. दरौपदेया धार्तराष्ट्राञ शिष्टान सह शिखण्डिना ते ते च तांस तान अहितान अस्माकं घनन्तु मामकाः ॥ 35 ॥

  36. [स] इत्य उक्तॊ धर्मराजेन तथेत्य उक्त्वा धनंजयः वयादिदेश सवसैन्यानि सवयं चागाच चमूमुखम ॥ 36 ॥

  37. अथ तं रथम आयान्तं दृष्ट्वात्यद्भुत दर्शनम उवाचाधिरथिं शल्यः पुनस तं युद्धदुर्मदम ॥ 37 ॥

  38. अयं स रथ आयाति शवेताश्वः कृष्णसारथिः निघ्नन्न अमित्रान कौन्तेयॊ यं यं तवं परिपृच्छसि ॥ 38 ॥

  39. शरूयते तुमुलः शब्दॊ रथनेमि सवनॊ महान एष रेणुः समुद्भूतॊ दिवम आवृत्य तिष्ठति ॥ 39 ॥

  40. चक्रनेमि परणुन्ना च कम्पते कर्ण मेदिनी परवात्य एष महावायुर अभितस तव वाहिनीम करव्यादा वयाहरन्त्य एते मृगाः कुर्वन्ति भैरवम ॥ 40 ॥

  41. पश्य कर्ण महाघॊरं भयदं लॊमहर्षणम कबन्धं मेघसंकाशं भानुम आवृत्य संस्थितम ॥ 41 ॥

  42. पश्य यूथैर बहुविधैर मृगाणां सर्वतॊदिशम बलिभिर दृप्तशार्दूलैर आदित्यॊ ऽभिनिरीक्ष्यते ॥ 42 ॥

  43. पश्य कङ्कांश च गृध्रांश च समवेतान सहस्रशः सथितान अभिमुखान घॊरान अन्यॊन्यम अभिभाषतः ॥ 43 ॥

  44. सिताश चाश्वाः समायुक्तास तव कर्ण महारथे परदराः परज्वलन्त्य एते धवजश चैव परकम्पते ॥ 44 ॥

  45. उदीर्यतॊ हयान पश्य महाकायान महाजवान पलवमानान दर्शनीयान आकाशे गरुडान इव ॥ 45 ॥

  46. धरुवम एषु निमित्तेषु भीमिम आवृत्य पार्थिवाः सवप्स्यन्ति निहताः कर्ण शतशॊ ऽथ सहस्रशः ॥ 46 ॥

  47. शङ्खानां तुमुलः शब्दः शरूयते लॊमहर्षणः आनकानां च राधेय मृदङ्गानां च सर्वशः ॥ 47 ॥

  48. बाणशब्दान बहुविधान नराश्वरथनिस्वना जयातलत्रेषु शब्दांश च शृणु कर्ण महात्मनाम ॥ 48 ॥

  49. हेमरूप्य परमृष्टानां वाससां शिल्पिनिर्मिताः नानावर्णा रथे भान्ति शवसनेन परकम्पिताः ॥ 49 ॥

  50. सहेम चन्द्र तारार्काः पताकाः किङ्किणी युताः पश्य कर्णार्जुनस्यैताः सौदामिन्य इवाम्बुदे ॥ 50 ॥

  51. धवजाः कणकणायन्ते वातेनाभिसमीरिताः सपताका रथाश चापि पाञ्चालानां महात्मनाम ॥ 51 ॥

  52. नागाश्वरथपत्त्यौघांस तावकान समभिघ्नतः धवजाग्रं दृश्यते तव अस्य जयाशब्दश चापि शरूयते ॥ 52 ॥

  53. अद्य दरष्टासि तं वीरं शवेताश्वं कृष्णसारथिम निघ्नन्तं शात्रवान संख्ये यं कर्ण परिपृच्छसि ॥ 53 ॥

  54. अद्य तौ पुरुषव्याघ्रौ लॊहिताक्षौ परंतपौ वासुदेवार्जुनौ कर्ण दरष्टास्य एकरथस्थितौ ॥ 54 ॥

  55. सारथिर यस्य वार्ष्णेयॊ गाण्डीवं यस्य कार्मुकम तं चेद धन्तासि राधेय तवं नॊ राजा भविष्यसि ॥ 55 ॥

  56. एष संशप्तकाहूतस तान एवाभिमुखॊ गतः करॊति कदनं चैषां संग्रामे दविषतां बली इति बरुवाणं मद्रेशं कर्णः पराहातिमन्युमान ॥ 56 ॥

  57. पश्य संशप्तकैः करुद्धैः सर्वतः समभिद्रुतः एष सूर्य इवाम्भॊदैर्श छन्नः पार्थॊ न दृश्यते एतद अन्तॊ ऽरजुनः शल्य निमग्नः शॊकसागरे ॥ 57 ॥

  58. [षल्य] वरुणं कॊ ऽमभसा हन्याद इन्धनेन च पावकम कॊ वानिलं निगृह्णीयात पिबेद वा कॊ महार्णवम ॥ 58 ॥

  59. ईदृग रूपम अहं मन्ये पार्थस्य युधि निग्रहम न हि शक्यॊ ऽरजुनॊ जेतुं सेन्द्रैः सर्वैः सुरासुरैः ॥ 59 ॥

  60. अथैवं परितॊषस ते वाचॊक्त्वा सुमना भव न स शक्यॊ युधा जेतुम अन्यं कुरु मनॊरथम ॥ 60 ॥

  61. बाहुभ्याम उद्धरेद भूमिं दहेत करुद्ध इमाः परजाः पातयेत तरिदिवाद देवान यॊ ऽरजुनं समरे जयेत ॥ 61 ॥

  62. पश्य कुन्तीसुतं वीरं भीमम अक्लिष्टकारिणम परभासन्तं महाबाहुं सथितं मेरुम इवाचलम ॥ 62 ॥

  63. अमर्षी नित्यसंरब्धश चिरं वैरम अनुस्मरन एष भीमॊ जय परेप्सुर युधि तिष्ठति वीर्यवान ॥ 63 ॥

  64. एष धर्मभृतां शरेष्ठॊ धर्मराजॊ युधिष्ठिरः तिष्ठत्य असुकरः संख्ये परैः परपुरंजयः ॥ 64 ॥

  65. एतौ च पुरुषव्याघ्राव अश्विनाव इव सॊदरौ नकुलः सहदेवश च तिष्ठतॊ युधि दुर्जयौ ॥ 65 ॥

  66. दृश्यन्त एते कार्ष्णेयाः पञ्च पञ्चाचला इव वयवस्थिता यॊत्स्यमानाः सर्वे ऽरजुन समा युधि ॥ 66 ॥

  67. एते दरुपदपुत्राश च धृष्टद्युम्नपुरॊगमाः हीनाः सत्यजिता वीरास तिष्ठन्ति परमौजसः ॥ 67 ॥

  68. इति संवदतॊर एव तयॊः पुरुषसिंहयॊः ते सेने समसज्जेतां गङ्गा यमुनवद भृषम ॥ 68 ॥

Reach this point to mark the section finished.

Continue to अध्याय 32

Previous: अध्याय 30