धर्मDharmic Data

कर्णपर्व · Karna Parva

अध्याय 30

  1. [स] ततः पुनर महाराज मद्रराजम अरिंदमम अभ्यभाषत राधेयः संनिवार्यॊत्तरं वचः ॥ 1 ॥

  2. यत तवं निदर्शनार्थं मां शल्य जल्पितवान असि नाहं शक्यस तवया वाचा विभीषयितुम आहवे ॥ 2 ॥

  3. यदि मां देवताः सर्वा यॊधयेयुः सवासवाः तथापि मे भयं न सयात किम उ पार्थात सकेशवात ॥ 3 ॥

  4. नाहं भीषयितुं शक्यॊ वान मात्रेण कथं चन अन्यं जानीहि यः शक्यस तवया भीषयितुं रणे ॥ 4 ॥

  5. नीचस्य बलम एतावत पारुष्यं यत तवम आत्थ माम अशक्तॊ ऽसमद गुणान पराप्तुं वल्गसे बहु दुर्मते ॥ 5 ॥

  6. न हि कर्णः समुद्भूतॊ भयार्थम इह मारिष विक्रमार्थम अहं जातॊ यशॊऽरथं च तथैव च ॥ 6 ॥

  7. इदं तु मे तवम एकाग्रः शृणु मद्रजनाधिप संनिधौ धृतराष्ट्रस्य परॊच्यमानं मया शरुतम ॥ 7 ॥

  8. देशांश च विविधांश चित्रान पूर्ववृत्तांश च पार्थिवान बराह्मणाः कथयन्तः सम धृतराष्ठम उपासते ॥ 8 ॥

  9. तत्र वृद्धः पुरावृत्ताः कथाः काश चिद दविजॊत्तमः बाह्लीक देशं मद्रांश च कुत्सयन वाक्यम अब्रवीत ॥ 9 ॥

  10. बहिष्कृता हिमवता गङ्गया च तिरस्कृताः सरस्वत्या यमुनया कुरुक्षेत्रेण चापि ये ॥ 10 ॥

  11. पञ्चानां सिन्धुषष्ठानां नदीनां ये ऽनतर आश्रिताः तान धर्मबाह्यान अशुचीन बाह्लीकान परिवर्जयेत ॥ 11 ॥

  12. गॊवर्धनॊ नाम वटः सुभाण्डं नाम चत्वरम एतद राजकुलद्वारम आकुमारः समराम्य अहम ॥ 12 ॥

  13. कार्येणात्यर्थ गाढेन बाह्लीकेषूषितं मया तत एषां समाचारः संवासाद विदितॊ मम ॥ 13 ॥

  14. शाकलं नाम नगरम आपगा नाम निम्नगा जर्तिका नाम बाह्लीकास तेषां वृत्तं सुनिन्दितम ॥ 14 ॥

  15. धाना गौडासवे पीत्वा गॊमांसं लशुनैः सह अपूप मांसवाट्यानाम आशिनः शीलवर्जिताः ॥ 15 ॥

  16. हसन्ति गान्ति नृत्यन्ति सत्रीभिर मत्ता विवाससः नगरागार वप्रेषु बहिर माल्यानुलेपनाः ॥ 16 ॥

  17. मत्तावगीतैर विविधैः खरॊष्ट्रनिनदॊपमैः आहुर अन्यॊन्यम उक्तानि परब्रुवाणा मदॊत्कटाः ॥ 17 ॥

  18. हाहते हाहतेत्य एव सवामिभर्तृहतेति च आक्रॊशन्त्यः परनृत्यन्ति मन्दाः पर्वस्व असंयताः ॥ 18 ॥

  19. तेषां किलावलिप्तानां निवसन कुरुजाङ्गले कश चिद बाह्लीक मुख्यानां नातिहृष्टमना जगौ ॥ 19 ॥

  20. सा नूनं बृहती गौरी सूक्ष्मकम्बलवासिनी माम अनुस्मरती शेते बाह्लीकं कुरु वासिनम ॥ 20 ॥

  21. शतद्रुक नदीं तीर्त्वा तां च रम्याम इरावतीम गत्वा सवदेशं दरक्ष्यामि सथूलशङ्खाः शुभाः सत्रियः ॥ 21 ॥

  22. मनःशिलॊज्ज्वलापाङ्गा गौर्यस तरिककुदाञ्जनाः केवलाजिनसंवीताः कूर्दन्त्यः परियदर्शनाः ॥ 22 ॥

  23. मृदङ्गानक शङ्खानां मर्दलानां च निस्वनैः खरॊष्ट्राश्वतरैश चैव मत्ता यास्यामहे सुखम ॥ 23 ॥

  24. शमी पीलु करीराणां वनेषु सुखवर्त्मसु अपूपान सक्तु पिण्डीश च खादन्तॊ मथितान्विताः ॥ 24 ॥

  25. पथिषु परबला भूत्वा कदास मृदिते ऽधवनि खलॊपहारं कुर्वाणास ताडयिष्याम भूयसः ॥ 25 ॥

  26. एवं हीनेषु वरात्येषु बाह्लीकेषु दुरात्मसु कश चेतयानॊ निवसेन मुहूर्तम अपि मानवः ॥ 26 ॥

  27. ईदृशा बराह्मणेनॊक्ता बाह्लीका मॊघचारिणः येषां षड्भागहर्ता तवम उभयॊः शुभपापयॊः ॥ 27 ॥

  28. इत्य उक्त्वा बराह्मणः साधुर उत्तरं पुनर उक्तवान बाह्लीकेष्व अविनीतेषु परॊच्यमानं निबॊधत ॥ 28 ॥

  29. तत्र सम राक्षसी गाति सदा कृष्ण चतुर्दशीम नगरे शाकले सफीते आहत्य निशि दुन्दुभिम ॥ 29 ॥

  30. कदा वा घॊषिका गाथाः पुनर गास्यन्ति शाकले गव्यस्य तृप्ता मांसस्य पीत्वा गौडं महासवम ॥ 30 ॥

  31. गौरीभिः सह नारीभिर बृहतीभिः सवलंकृताः पलाण्डु गाण्डूष युतान खादन्ते चैडकान बहून ॥ 31 ॥

  32. वाराहं कौक्कुटं मांसं गव्यं गार्दभम औष्ट्रकम ऐडं च ये न खादन्ति तेषां जन्म निरर्थकम ॥ 32 ॥

  33. इति गायन्ति ये मत्ताः शीधुना शाकलावतः सबालवृद्धाः कूर्दन्तस तेषु वृत्तं कथं भवेत ॥ 33 ॥

  34. इति शल्य विजानीहि हन्त भूयॊ बरवीमि ते यद अन्यॊ ऽपय उक्तवान अस्मान बराह्मणः कुरुसंसदि ॥ 34 ॥

  35. पञ्च नद्यॊ वहन्त्य एता यत्र पीलु वनान्य अपि शतद्रुश च विपाशा च तृतीयेरावती तथा चन्द्र भागा वितस्ता च सिन्धुषष्ठा बहिर गताः ॥ 35 ॥

  36. आरट्टा नाम ते देशा नष्टधर्मान न तान वरजेत वरात्यानां दासमीयानां विदेहानाम अयज्वनाम ॥ 36 ॥

  37. न देवाः परतिगृह्णन्ति पितरॊ बराह्मणास तथा तेषां परनष्टधर्माणां बाह्लीकानाम इति शरुतिः ॥ 37 ॥

  38. बराह्मणेन तथा परॊक्तं विदुषा साधु संसदि काष्ठकुण्डेषु बाह्लीका मृण्मयेषु च भुञ्जते सक्तु वाट्यावलिप्तेषु शवादि लीढेषु निर्घृणाः ॥ 38 ॥

  39. आविकं चौष्ट्रिकं चैव कषीरं गार्दभम एव च तद विकारांश च बाह्लीकाः खादन्ति च पिबन्ति च ॥ 39 ॥

  40. पुत्र संकरिणॊ जाल्माः सर्वान नक्षीर भॊजनाः आरट्टा नाम बाह्लीका वर्जनीया विपश्चिता ॥ 40 ॥

  41. उत शल्य विजानीहि हन्त भूयॊ बरवीमि ते यद अन्यॊ ऽपय उक्तवान सभ्यॊ बराह्मणः कुरुसंसदि ॥ 41 ॥

  42. युगं धरे पयः पीत्वा परॊष्य चाप्य अच्युतस्थले तद्वद भूतिलये सनात्वा कथं सवर्गं गमिष्यति ॥ 42 ॥

  43. पञ्च नद्यॊ वहन्त्य एता यत्र निःसृत्य पर्वतात आरट्टा नाम बाह्लीका न तेष्व आर्यॊ दव्यहं वसेत ॥ 43 ॥

  44. बहिश च नाम हलीकश च विपाशायां पिशाचकौ तयॊर अपत्यं बाह्लीका नैषा सृष्टिः परजापतेः ॥ 44 ॥

  45. कारः करान महिषकान कलिङ्गान कीकटाटवीन कर्कॊटकान वीरकांश च दुर्धर्मांश च विवर्जयेत ॥ 45 ॥

  46. इति तीर्थानुसर्तारं राक्षसी का चिद अब्रवीत एकरात्रा शमी गेहे महॊलूखल मेखला ॥ 46 ॥

  47. आरट्टा नाम ते देशा बाह्लीका नाम ते जनाः वसाति सिन्धुसौवीरा इति परायॊ विकुत्सिताः ॥ 47 ॥

  48. उत शल्य विजानीहि हन्त भूयॊ बरवीमि ते उच्यमानं मया सम्यक तद एकाग्रमनाः शृणु ॥ 48 ॥

  49. बराह्मणः शिल्पिनॊ गेहम अभ्यगच्छत पुरातिथिः आचारं तत्र संप्रेक्ष्य परीतः शिल्पिनम अब्रवीत ॥ 49 ॥

  50. मया हिमवतः शृङ्गम एकेनाध्युषितं चिरम दृष्टाश च बहवॊ देशा नानाधर्मसमाकुलाः ॥ 50 ॥

  51. न च केन च धर्मेण विरुध्यन्ते परजा इमाः सर्वे हि ते ऽबरुवन धर्मं यथॊक्तं वेदपारगैः ॥ 51 ॥

  52. अटता तु सदा देशान नानाधर्मसमाकुलान आगच्छता महाराज बाह्लीकेषु निशामितम ॥ 52 ॥

  53. तत्रैव बराह्मणॊ भूत्वा ततॊ भवति कषत्रियः वैश्यः शूद्रश च बाह्लीकस ततॊ भवति नापितः ॥ 53 ॥

  54. नापितश च ततॊ भूत्वा पुनर भवति बराह्मणः दविजॊ भूत्वा च तत्रैव पुनर दासॊ ऽपि जायते ॥ 54 ॥

  55. भवत्य एकः कुले विप्रः शिष्टान्ये कामचारिणः गान्धारा मद्रकाश चैव बाह्लीकाः के ऽपय अचेतसः ॥ 55 ॥

  56. एतन मया शरुतं तत्र धर्मसंकरकारकम कृत्स्नाम अटित्वा पृथिवीं बाह्लीकेषु विपर्ययः ॥ 56 ॥

  57. उत शल्य विजानीहि हन्त भूयॊ बरवीमि ते यद अप्य अन्यॊ ऽबरवीद वाक्यं बाह्लीकानां विकुत्सितम ॥ 57 ॥

  58. सती पुरा हृता का चिद आरट्टा किल दस्युभिः अधर्मतश चॊपयाता सा तान अभ्यशपत ततः ॥ 58 ॥

  59. बालां बन्धुमतीं यन माम अधर्मेणॊपगच्छथ तस्मान नार्यॊ भविष्यन्ति बन्धक्यॊ वै कुलेषु वः न चैवास्मात परमॊक्ष्यध्वं घॊरात पापान नराधमाः ॥ 59 ॥

  60. कुरवः सहपाञ्चालाः शाल्वा मत्स्याः सनैमिषाः कॊसलाः काशयॊ ऽङगाश च कलिङ्गा मगधास तथा ॥ 60 ॥

  61. चेदयश च महाभागा धर्मं जानन्ति शाश्वतम नानादेशेषु सन्तश च परायॊ बाह्या लयाद ऋते ॥ 61 ॥

  62. आ मत्स्येभ्यः कुरुपाञ्चालदेश्या; आ नैमिषाच चेदयॊ ये विशिष्टाः धर्मं पुराणम उपजीवन्ति सन्तॊ; मद्रान ऋते पञ्च नदांश च जिह्मान ॥ 62 ॥

  63. एवं विद्वन धर्मकथांश च राजंस; तूष्णींभूतॊ जडवच छल्य भूयाह तवं तस्य गॊप्ता च जनस्य राजा; षड्भागहर्ता शुभदुष्कृतस्य ॥ 63 ॥

  64. अथ वा दुष्कृतस्य तवं हर्ता तेषाम अरक्षिता रक्षिता पुण्यभाग राजा परजानां तवं तव अपुण्य भाक ॥ 64 ॥

  65. पूज्यमाने पुरा धर्मे सर्वदेशेषु शाश्वते धर्मं पाञ्चनदं दृष्ट्वा धिग इत्य आह पितामहः ॥ 65 ॥

  66. वरात्यानां दाशमीयानां कृते ऽपय अशुभ कर्मणाम इति पाञ्चनदं धर्मम अवमेने पितामहः सवधर्मस्थेषु वर्णेषु सॊ ऽपय एतं नाभिपूजयेत ॥ 66 ॥

  67. उत शल्य विजानीहि हन्त भूयॊ बरवीमि ते कल्माषपादः सरसि निमज्जन राक्षसॊ ऽबरवीत ॥ 67 ॥

  68. कषत्रियस्य मलं भैक्षं बराह्मणस्यानृतं मलम मलं पृथिव्या बाह्लीकाः सत्रीणां मद्रस्त्रियॊ मलम ॥ 68 ॥

  69. निमज्जमानम उद्धृत्य कश चिद राजा निशाचरम अपृच्छत तेन चाख्यात्म परॊक्तवान यन निबॊध तत ॥ 69 ॥

  70. मानुषाणां मलं मेच्छा मेच्छानां मौष्टिका मलम मौष्टिकानां मलं शण्डाः शण्डानां राजयाजकाः ॥ 70 ॥

  71. राजयाजक याज्यानां मद्रकाणां च यन मलम तद भवेद वै तव मलं यद्य अस्मान न विमुञ्चसि ॥ 71 ॥

  72. इति रक्षॊपसृष्टेषु विषवीर्यहतेषु च राक्षसं भेषजं परॊक्तं संसिद्धं वचनॊत्तरम ॥ 72 ॥

  73. बराह्मं पाञ्चाला कौरवेयाः सवधर्मः; सत्यं मत्स्याः शूरसेनाश च यज्ञः पराच्या दासा वृषला दाक्षिणात्याः; सतेना बाह्लीकाः संकरा वै सुराष्ट्राः ॥ 73 ॥

  74. कृतघ्नता परवित्तापहारः; सुरा पानं गुरु दारावमर्शः येषां धर्मस तान परति नास्त्य अधर्म; आरट्टकान पाञ्चनदान धिग अस्तु ॥ 74 ॥

  75. आ पाञ्चालेभ्यः कुरवॊ नैमिषाश च; मत्स्याश चैवाप्य अथ जानन्ति धर्मम कलिङ्गकाश चाङ्गका मागधाश च; शिष्टान धर्मान उपजीवन्ति वृद्धाः ॥ 75 ॥

  76. पराचीं दिशं शरिता देवा जातवेदः पुरॊगमाः दक्षिणां पितरॊ गुप्तां यमेन शुभकर्मणा ॥ 76 ॥

  77. परतीचीं वरुणः पाति पालयन्न असुरान बली उदीचीं भगवां सॊमॊ बरह्मण्यॊ बराह्मणैः सह ॥ 77 ॥

  78. रक्षःपिशाचान हिमवान गुह्यकान गन्धमादनः धरुवः सर्वाणि भूतानि विष्णुर लॊकाञ जनार्दनः ॥ 78 ॥

  79. इङ्गितज्ञाश च मगधाः परेक्षितज्ञाश च कॊसलाः अर्धॊक्ताः कुरुपाञ्चालाः शाल्वाः कृत्स्नानुशासनाः पार्वतीयाश च विषमा यथैव गिरयस तथा ॥ 79 ॥

  80. सर्वज्ञा यवना राजञ शूराश चैव विशेषतः मलेच्छाः सवसंज्ञा नियता नानुक्त इतरॊ जनः ॥ 80 ॥

  81. परतिरब्धास तु बाह्लीका न च के चन मद्रकाः स तवम एतादृशः शल्य नॊत्तरं वक्तुम अर्हसि ॥ 81 ॥

  82. एतज जञात्वा जॊषम आस्स्व परतीपं मा सम वै कृथाः स तवां पूर्वम अहं हत्वा हनिष्ये केशवार्जुनौ ॥ 82 ॥

  83. [षल्य] आतुराणां परित्यागः सवदारसुत विक्रयः अङ्गेषु वर्तते कर्ण येषाम अधिपतिर भवान ॥ 83 ॥

  84. रथातिरथ संख्यायां यत तवा भीष्मस तदाब्रवीत तान विदित्वात्मनॊ दॊषान निर्मन्युर भव मा करुधः ॥ 84 ॥

  85. सर्वत्र बराह्मणाः सन्ति सन्ति सर्वत्र कषत्रियाः वैश्याः शूद्रास तथा कर्ण सत्रियः साध्व्यश च सुव्रताः ॥ 85 ॥

  86. रमन्ते चॊपहासेन पुरुषाः पुरुषैः सह अन्यॊन्यम अवतक्षन्तॊ देशे देशे समैथुनाः ॥ 86 ॥

  87. परवाच्येषु निपुणः सर्वॊ भवति सर्वदा आत्मवाच्यं न जानीते जानन्न अपि विमुह्यति ॥ 87 ॥

  88. [स] कर्णॊ ऽपि नॊत्तरं पराह शल्यॊ ऽपय अभिमुखः परान पुनः परहस्य राधेयः पुनर याहीत्य अचॊदयत ॥ 88 ॥

Reach this point to mark the section finished.

Continue to अध्याय 31

Previous: अध्याय 29