[स] मद्राधिपस्याधिरथिस तदैवं; वचॊ निशम्याप्रियम अप्रतीतः उवाच शल्यं विदितं ममैतद; यथाविधाव अर्जुन वासुदेवौ ॥ 1 ॥
शौरे रथं वाहयतॊ ऽरजुनस्य; बलं महास्त्राणि च पाण्डवस्य अहं विजानामि यथावद अद्य; परॊक्षभूतं तव तत तु शल्यल ॥ 2 ॥
तौ चाप्रधृष्यौ शस्त्रभृतां वरिष्ठौ; वयपेतभीर यॊधयिष्यामि कृष्णौ संतापयत्य अभ्यधिकं तु रामाच; छापॊ ऽदय मां बराह्मणसत्तमाच च ॥ 3 ॥
अवात्सं वै बराह्मणच छद्मनाहं; रामे पुरा दिव्यम अस्त्रं चिकीर्षुः तत्रापि मे देवराजेन विघ्नॊ; हितार्थिना फल्गुनस्यैव शल्य ॥ 4 ॥
कृतॊ ऽवभेदेन ममॊरुम एत्य; परविश्य कीटस्य तनुं विरूपाम गुरॊर भयाच चापि न चेलिवान अहं; तच चावबुद्धॊ ददृशे स विप्रः ॥ 5 ॥
पृष्ठश चाहं तम अवॊचं महर्षिं; सूतॊ ऽहम अस्मीति स मां शशाप सूतॊपधाव आप्तम इदं तवयास्त्रं; न कर्मकाले परतिभास्यति तवाम ॥ 6 ॥
अन्यत्र यस्मात तव मृत्युकालाद; अब्राह्मणे बरह्म न हि धरुवं सयात तद अद्य पर्याप्तम अतीव शस्त्रम; अस्मिन संग्रामे तुमुले तात भीमे ॥ 7 ॥
अपां पतिर वेगवान अप्रमेयॊ; निमज्जयिष्यन निवहान परजानाम महानगं यः कुरुते समुद्रं; वेलैव तं वारयत्य अप्रमेयम ॥ 8 ॥
परमुञ्चन्तं बाणसंघान अमॊघान; मर्मच छिदॊ वीर हणः सपत्रान कुन्तीपुत्रं परतियॊत्स्यामि युद्धे; जया कर्षिणाम उत्तमम अद्य लॊके ॥ 9 ॥
एवं बलेनातिबलं महास्त्रं; समुद्रकल्पं सुदुरापम उग्रम शरौघिणं पार्थिवान मज्जयन्तं; वेलेव पार्थम इषुभिः संसहिष्ये ॥ 10 ॥
अद्याहवे यस्य न तुल्यम अन्यं; मन्ये मनुष्यं धनुर आददानम सुरासुरान वै युधि यॊ जयेत; तेनाद्य मे पश्य युद्धं सुघॊरम ॥ 11 ॥
अतिमानी पाण्डवॊ युद्धकामॊ; अमानुषैर एष्यति मे महास्त्रैः तस्यास्त्रम अस्त्रैर अभिहत्य संख्ये; शरॊत्तमैः पातयिष्यामि पार्थम ॥ 12 ॥
दिवाकरेणापि समं तपन्तं; समाप्तरश्मिं यशसा जवलन्तम तमॊनुदं मेघ इवातिमात्रॊ; धनंजयं छादयिष्यामि बाणैः ॥ 13 ॥
वैश्वानरं धूमशिखं जवलन्तं; तेजस्विनं लॊकम इमं दहन्तम मेघॊ भूत्वा शरवर्षैर यथाग्निं; तथा पार्थं शमयिष्यामि युद्धे ॥ 14 ॥
परमाथिनं बलवन्तं परहारिणं; परभञ्जनं मातरिश्वानम उग्रम युद्धे सहिष्ये हिमवान इवाचलॊ; धनंजयं करुद्धम अमृष्यमाणम ॥ 15 ॥
विशारदं रथमार्गेष्व असक्तं; धुर्यं नित्यं समरेषु परवीरम लॊके वरं सर्वधनुर्धराणां; धनंजयं संयुगे संसहिष्ये ॥ 16 ॥
अद्याहवे यस्य न तुल्यम अन्यं; मध्ये मनुष्यं धनुर आददानम सर्वाम इमां यः पृथिवीं सहेत; तथा विद्वान यॊत्स्यमानॊ ऽसमि तेन ॥ 17 ॥
यः सर्वभूतानि सदेवकानि; परस्थे ऽजयत खाण्डवे सव्यसाची कॊ जीवितं रक्षमाणॊ हि तेन; युयुत्सते माम ऋते मानुषॊ ऽनयः ॥ 18 ॥
अहं तस्य पौरुषं पाण्डवस्य; बरूयां हृष्टः समितौ कषत्रियाणाम किं तवं मूर्खः परभषन मूढ चेता; माम अवॊचः पौरुषम अर्जुनस्य ॥ 19 ॥
अप्रियॊ यः परुषॊ निष्ठुरॊ हि; कषुद्रः कषेप्ता कषमिणश चाक्षमावान हन्याम अहं तादृशानां शतानि; कषमामि तवां कषमया कालयॊगात ॥ 20 ॥
अवॊचस तवं पाण्डवार्थे ऽपरियाणि; परधर्षयन मां मूढवत पापकर्मन मय्य आर्जवे जिह्मगतिर हतस तवं; मित्रद्रॊही सप्त पदं हि मित्रम ॥ 21 ॥
कालस तव अयं मृत्युमयॊ ऽतिदारुणॊ; दुर्यॊधनॊ युद्धम उपागमद यत तस्यार्थसिद्धिम अभिकाङ्क्षमाणस; तम अभ्येष्ये यत्र नैकान्त्यम अस्ति ॥ 22 ॥
मित्रं मिदेर नन्दतेः परीयतेर वा; संत्रायतेर मानद मॊदतेर वा बरवीति तच चामुत विप्र पूर्वात; तच चापि सर्वं मम दुर्यॊधने ऽसति ॥ 23 ॥
शत्रुः शदेः शासतेः शायतेर वा; शृणातेर वा शवयतेर वापि सर्गे उपसर्गाद बहुधा सूदतेश च; परायेण सर्वं तवयि तच च मह्यम ॥ 24 ॥
दुर्यॊधनार्थं तव चाप्रियार्थं; यशॊऽरथम आत्मार्थम अपीश्वरार्थम तस्माद अहं पाण्डव वासुदेवौ; यॊत्स्ये यत्नात कर्म तत पश्य मे ऽदय ॥ 25 ॥
अस्त्राणि पश्याद्य ममॊत्तमानि; बराह्माणि दिव्यान्य अथ मानुषाणि आसादयिष्याम्य अहम उग्रवीर्यं; दविपॊत्तमं मत्तम इवाभिमत्तः ॥ 26 ॥
अस्त्रं बराह्मं मनसा तद धयजय्यं; कषेप्स्ये पार्थायाप्रतिमं जयाय तेनापि मे नैव मुच्येत युद्धे; न चेत पतेद विषमे मे ऽदय चक्रम ॥ 27 ॥
वैवस्वताद दण्डहस्ताद वरुणाद वापि पाशिनः सगदाद वा धनपतेः सवर्जाद वापि वासवात ॥ 28 ॥
नान्यस्माद अपि कस्माच चिद बिभिमॊ हय आततायिनः इति शल्य विजानीहि यथा नाहं बिभेम्य अभीः ॥ 29 ॥
तस्माद भयं न मे पार्थान नापि चैव जनार्दनात अद्य युद्धं हि ताभ्यां मे संपराये भविष्यति ॥ 30 ॥
शवभ्रे ते पततां चक्रम इति मे बराह्मणॊ ऽवदत युध्यमानस्य संग्रामे पराप्तस्यैकायने भयम ॥ 31 ॥
तस्माद बिभेमि बलवद बराह्मण वयाहृताद अहम एते हि सॊमराजान ईश्वराः सुखदुःखयॊः ॥ 32 ॥
हॊमधेन्वा वत्सम अस्य परमत्त इषुणाहनम चरन्तम अजने शल्य बराह्मणात तपसॊ निधेः ॥ 33 ॥
ईषादन्तान सप्तशतान दासीदास शतानि च ददतॊ दविजमुख्याय परसादं न चकार मे ॥ 34 ॥
कृष्णानां शवेतवत्सानां सहस्राणि चतुर्दश आहरन न लभे तस्मात परसादं दविजसत्तमात ॥ 35 ॥
ऋद्धं गेहं सर्वकामैर यच च मे वसु किं चन तत सर्वम अस्मै सत्कृत्य परयच्छामि न चेच्छति ॥ 36 ॥
ततॊ ऽबरवीन मां याचन्तम अपराद्धं परयत्नतः वयाहृतं यन मया सूत तत तथा न तद अन्यथा ॥ 37 ॥
अनृतॊक्तं परजा हन्यात ततः पापम अवाप्नुयात तस्माद धर्माभिरक्षार्थं नानृतं वक्क्तुम उत्सहे ॥ 38 ॥
मा तवं बरह्म गतिं हिंस्याः परायश्चित्तं कृतं तवया मद्वाक्यं नानृतं लॊके कश चित कुर्यात समाप्नुहि ॥ 39 ॥
इत्य एतत ते मया परॊक्तं कषिप्तेनापि सुहृत्तया जानामि तवाधिक्षिपन्तं जॊषम आस्स्वॊत्तरं शृणु ॥ 40 ॥
कर्णपर्व · Karna Parva
अध्याय 29
Reach this point to mark the section finished.
Continue to अध्याय 30