[स] हते दरॊणे महेष्वासे तव पुत्रा महारथाः बभूवुर आश्वस्त मुखा विषण्णा गतचेतसः ॥ 1 ॥
अवाङ्मुखाः शस्त्रभृतः सर्व एव विशां पते अप्रेक्षमाणाः शॊकार्ता नाभ्यभाषन परस्परम ॥ 2 ॥
तान दृष्ट्वा वयथिताकारान सैन्यानि तव भारत ऊर्ध्वम एवाभ्यवेक्षन्त दुःखत्रस्तान्य अनेकशः ॥ 3 ॥
शस्त्राण्य एषां च राजेन्द्र शॊणिताक्तान्य अशेषतः पराभ्रश्यन्त कराग्रेभ्यॊ दृष्ट्वा दरॊणं निपातितम ॥ 4 ॥
तानि बद्धान्य अनिष्टानि लम्बमानानि भारत अदृश्यन्त महाराज नक्षत्राणि यथा दिवि ॥ 5 ॥
तथार्तं सतिमितं दृष्ट्वा गतसत्त्वम इव सथितम सवं बलं तन महाराज राजा दुर्यॊधनॊ ऽबरवीत ॥ 6 ॥
भवतां बाहुवीर्यं हि समाश्रित्य मया युधि पाण्डवेयाः समाहूता युद्धं चेदं परवर्तितम ॥ 7 ॥
तद इदं निहते दरॊणे विषण्णम इव लक्ष्यते युध्यमानाश च समरे यॊधा वध्यन्ति सर्वतः ॥ 8 ॥
जयॊ वापि वधॊ वापि युध्यमानस्य संयुगे भवेत किम अत्र चित्रं वै युध्यध्वं सर्वतॊ मुखाः ॥ 9 ॥
पश्यध्वं च महात्मानं कर्णं वैकर्तनं युधि परचरन्तं महेष्वासं दिव्यैर अस्त्रैर महाबलम ॥ 10 ॥
यस्य वै युधि संत्रासात कुन्तीपुत्रॊ धनंजयः निवर्तते सदामर्षात सिंहात कषुद्रमृगॊ यथा ॥ 11 ॥
येन नागायुत पराणॊ भीमसेनॊ महाबलः मानुषेणैव युद्धेन ताम अवस्थां परवेशितः ॥ 12 ॥
येन दिव्यास्त्रविच छूरॊ मायावी स घटॊत्कचः अमॊघया रणे शक्त्या निहतॊ भैरवं नदन ॥ 13 ॥
तस्य दुष्पार वीर्यस्य सत्यसंधस्य धीमतः बाह्वॊर दरविणम अक्षय्यम अद्य दरक्ष्यथ संयुगे ॥ 14 ॥
दरॊणपुत्रस्य विक्रान्तं राधेयस्यैव चॊभयॊः पाण्डुपाञ्चाल सैन्येषु दरक्ष्यथापि महात्मनॊः ॥ 15 ॥
सर्व एव भवन्तश च शूराः पराज्ञाः कुलॊद्गताः शीलवन्तः कृतास्त्राश च दरक्ष्यथाद्य परस्परम ॥ 16 ॥
एवम उक्ते महाराज कर्णॊ वैकर्तनॊ नृपः सिंहनादं विनद्यॊच्चैः परायुध्यत महाबलः ॥ 17 ॥
स सृञ्जयानां सर्वेषां पाञ्चालानां च पश्यताम केकयानां विदेहानाम अकरॊत कदनं महत ॥ 18 ॥
तस्येषु धाराः शतशः परादुरासञ शरासनात अग्रे पुङ्खे च संसक्ता यथा भरमरपङ्क्तयः ॥ 19 ॥
स पीडयित्वा पाञ्चालान पाण्डवांश च तरस्विनः हत्वा सहस्रशॊ यॊधान अर्जुनेन निपातितः ॥ 20 ॥
कर्णपर्व · Karna Parva
अध्याय 2
Reach this point to mark the section finished.
Continue to अध्याय 3