[स] मारिषाधिरथेः शरुत्वा वचॊ युद्धाभिनन्दिनः शल्यॊ ऽबरवीत पुनः कर्णं निदर्शनम उदाहरन ॥ 1 ॥
यथैव मत्तॊ मद्येन तवं तथा न च वा तथा तथाहं तवां परमाद्यन्तं चिकित्सामि सुहृत्तया ॥ 2 ॥
इमां काकॊपमां कर्ण परॊच्यमानां निबॊध मे शरुत्वा यथेष्टं कुर्यास तवं विहीनकुलपांसन ॥ 3 ॥
नाहम आत्मनि किं चिद वै किल्बिषं कर्ण संस्मरे येन तवं मां महाबाहॊ हन्तुम इच्छस्य अनागसम ॥ 4 ॥
अवश्यं तु मया वाच्यं बुध्यतां यदि ते हितम विशेषतॊ रथस्थेन राज्ञश चैव हितैषिणा ॥ 5 ॥
समं च विषमं चैव रथिनश च बलाबलम शरमः खेदश च सततं हयानां रथिना सह ॥ 6 ॥
आयुधस्य परिज्ञानं रुतं च मृगपक्षिणाम भारश चाप्य अतिभारश च शल्यानां च परतिक्रिया ॥ 7 ॥
अस्त्रयॊगश च युद्धं च निमित्तानि तथैव च सर्वम एतन मया जञेयं रथस्यास्य कुटुम्बिना अतस तवां कथये कर्ण निदर्शनम इदं पुनः ॥ 8 ॥
वैश्यः किल समुद्रान्ते परभूतधनधान्यवान यज्वा दानपतिः कषान्तः सवकर्मस्थॊ ऽभवच छुचिः ॥ 9 ॥
बहुपुत्रः परियापत्यः सर्वभूतानुकम्पकः राज्ञॊ धर्मप्रधानस्य राष्ट्रे वसति निर्भयः ॥ 10 ॥
पुत्राणां तस्य बालानां कुमाराणां यशस्विनाम काकॊ बहूनाम अभवद उच्चिष्ट कृतभॊजनः ॥ 11 ॥
तस्मै सदा परयच्छन्ति वैश्य पुत्राः कुमारकाः मांसौदनं दधि कषीरं पायसं मधुसर्पिषी ॥ 12 ॥
स चॊच्छिष्ट भृतः काकॊ वैश्य पुत्रैः कुमारकैः सदृशान पक्षिणॊ दृप्तः शरेयसश चावमन्यते ॥ 13 ॥
अथ हंसाः समुद्रान्ते कदा चिद अभिपातितः गरुडस्य गतौ तुल्याश चक्राङ्गा हृष्टचेतसः ॥ 14 ॥
कुमारकास ततॊ हंसान दृष्ट्वा काकम अथाब्रुवन भवान एव विशिष्टॊ हि पतत्रिभ्यॊ विहंगम ॥ 15 ॥
परतार्यमाणस तु स तैर अल्पबुद्धिभिर अण्डजः तद वचः सत्यम इत्य एव मौर्ख्याद दर्पाच च मन्यते ॥ 16 ॥
तान सॊ ऽभिपत्य जिज्ञासुः क एषां शरेष्ठ भाग इति उच्छिष्ट दर्पितः काकॊ बहूनां दूरपातिनाम ॥ 17 ॥
तेषां यं परवरं मेने हंसानां दूरपातिनाम तम आह्वयत दुर्बुद्धिः पताम इति पक्षिणम ॥ 18 ॥
तच छरुत्वा पराहसन हंसा ये तत्रासन समागताः भाषतॊ बहु काकस्य बलिनः पततां वराः इदम ऊचुश च चक्राङ्गा वचः काकं विहंगमाः ॥ 19 ॥
वयं हंसाश चरामेमां पृथिवीं मानसौकसः पक्षिणां च वयं नित्यं दूरपातेन पूजिताः ॥ 20 ॥
कथं नु हंसं बलिनं वज्राङ्गं दूरपातिनम काकॊ भूत्वा निपतने समाह्वायसि दुर्मते कथं तवं पतनं काक सहास्माभिर बरवीषि तत ॥ 21 ॥
अथ हंसवचॊ मूढः कुत्सयित्वा पुनः पुनः परजगादॊत्तरं काकः कत्थनॊ जातिलाघवात ॥ 22 ॥
शतम एकं च पातानां पतितास्मि न संशयः शतयॊजनम एकैकं विचित्रं विविधं तथा ॥ 23 ॥
उड्डीनम अवडीनं च परडीनं डीनम एव च निडीनम अथ संडीनं तिर्यक चातिगतानि च ॥ 24 ॥
विडीनं परिडीनं च पराडीनं सुडीनकम अतिडीनं महाडीनं निडीनं परिडीनकम ॥ 25 ॥
गतागत परतिगता बह्वीश च निकुडीनिकाः कर्तास्मि मिषतां वॊ ऽदय ततॊ दरक्ष्यथ मे बलम ॥ 26 ॥
एवम उक्ते तु काकेन परहस्यैकॊ विहंगमः उवाच हंसस तं काकं वचनं तन निबॊध मे ॥ 27 ॥
शतम एकं च पातानां तवं काकपतिता धरुवम एकम एव तु ये पातं विदुः सर्वे विहंगमाः ॥ 28 ॥
तम अहं पतिता काकनान्यं जानामि कं चन पत तवम अपि रक्ताक्ष येन वा तेन मन्यसे ॥ 29 ॥
अथ काकाः परजहसुर ये तत्रासन समागताः कथम एकेन पातेन हंसः पातशतं जयेत ॥ 30 ॥
एकेनैव शतस्यैकं पातेनाभिभविष्यति हंसस्य पतितं काकॊ बलवान आशु विक्रमः ॥ 31 ॥
परपेततुः सपर्धयाथ ततस तौ हंसवायसौ एकपाती च चक्राङ्गः काकः पातशतेन च ॥ 32 ॥
पेतिवान अथ चक्राङ्कः पेतिवान थ वायसः विसिस्मापयिषुः पातैर आचक्षाणॊ ऽऽतमनः करियाम ॥ 33 ॥
अथ काकस्य चित्राणि पतितानीतराणि च दृष्ट्वा परमुदिताः काका विनेदुर अथ तैः सवरैः ॥ 34 ॥
हंसांश चावहसन्ति सम परावदन्न अप्रियाणि च उत्पत्यॊत्पत्य च पराहुर मुहूर्तम इति चेति च ॥ 35 ॥
वृक्षाग्रेभ्यः सथलेभ्यश च निपतन्त्य उत्पतन्ति च कुर्वाणा विविधान रावान आशंसन्तस तदा जयम ॥ 36 ॥
हंसस तु मृदुकेनैव विक्रान्तुम उपचक्रमे परत्यहीयत काकाच च मुहूर्तम इव मारिष ॥ 37 ॥
अवमन्य रयं हंसान इदं वचनम अब्रवीत यॊ ऽसाव उत्पतितॊ हंसः सॊ ऽसाव एव परहीयते ॥ 38 ॥
अथ हंसः स तच छरुत्वा परापतत पश्चिमां दिशम उपर्य उपरि वेगेन सागरं वरुणालयम ॥ 39 ॥
ततॊ भीः पराविशत काकं तदा तत्र विचेतसम दवीपद्रुमान अपश्यन्तं निपतन्तं शरमान्वितम निपतेयं कव नु शरान्त इति तस्मिञ जलार्णवे ॥ 40 ॥
अविषह्यः समुद्रॊ हि बहु सत्त्वगणालयः महाभूतशतॊद्भासी नभसॊ ऽपि विशिष्यते ॥ 41 ॥
गाम्भीर्याद धि समुद्रस्य न विशेषः कुलाधम दिग अम्बराम्भसां कर्ण समुद्रस्था हि दुर्जयाः विदूर पातात तॊयस्य किं पुनः कर्ण वायसः ॥ 42 ॥
अथ हंसॊ ऽभयतिक्रम्य मुहूर्तम इति चेति च अवेक्षमाणस तं काकं नाशक्नॊद वयपसर्पितुम अतिक्रम्य च चक्राङ्गः काकं तं समुदैक्षत ॥ 43 ॥
तं तथा हीयमानं च हंसॊ दृष्ट्वाब्रवीद इदम उज्जिहीर्षुर निमज्जन्तं समरन सत्पुरुषव्रतम ॥ 44 ॥
बहूनि पतनानि तवम आचक्षाणॊ मुहुर मुहुः पतस्य अव्याहरंश चेदं न नॊ गुह्यं परभाषसे ॥ 45 ॥
किंनाम पतनं काकयत तवं पतसि सांप्रतम जलं सपृशसि पक्षाभ्यां तुण्डेन च पुनः पुनः ॥ 46 ॥
स पक्षाभ्यां सपृशन्न आर्तस तुण्डेन जलम अर्णवे काकॊ दृढं परिश्रान्तः सहसा निपपात ह ॥ 47 ॥
[हम्स] शतम एकं च पातानां यत परभाषसि वायस नानाविधानीह पुरा तच चानृतम इहाद्य ते ॥ 48 ॥
[काक] उच्छिष्ट दर्पितॊ हंस मन्ये ऽऽतमानं सुपर्णवत अवमन्य बहूंश चाहं काकान अन्यांश च पक्षिणः पराणैर हंसप्रपद्ये तवं दवीपात्नं परापयस्व माम ॥ 49 ॥
यद्य अहं सवस्तिमान हंसस्वदेशं पराप्नुयां पुनः न कं चिद अवमन्येयम आपदॊ मां समुद्धर ॥ 50 ॥
तम एवं वादिनं दीनं विलपन्तम अचेतनम काककाकेति वाशन्तं निमज्जन्तं महार्णवे ॥ 51 ॥
तथैत्य वायसं हंसॊ जलक्लिन्नं सुदुर्दशम पद्भ्याम उत्क्षिप्य वेपन्तं पृष्ठम आरॊपयच छनैः ॥ 52 ॥
आरॊप्य पृष्ठं काकं तं हंसः कर्ण विचेतसम आजगाम पुनर दवीपं सपर्धया पेततुर यतः ॥ 53 ॥
संस्थाप्य तं चापि पुनः समाश्वास्य च खेचरम गतॊ यथेप्सितं देशं हंसॊ मन इवाशुगः ॥ 54 ॥
उच्छिष्ट भॊजनात काकॊ यथा वैश्य कुले तु सः एवं तवम उच्छिष्ट भृतॊ धार्तराष्ट्रैर न संशयः सदृशाञ शरेयसश चापि सर्वान कर्णातिमन्यसे ॥ 55 ॥
दरॊण दरौणिकृपैर गुप्तॊ भीष्मेणान्यैश च कौरवैः विराटनगरे पार्थम एकं किं नावधीस तदा ॥ 56 ॥
यत्र वयस्ताः समस्ताश च निर्जिताः सथ किरीटिना सृगाला इव सिंहेन कव ते वीर्यम अभूत तदा ॥ 57 ॥
भरातरं च हतं दृष्ट्वा निर्जितः सव्यसाचिना पश्यतां कुरुवीराणां परथमं तवं पलायथाः ॥ 58 ॥
तथा दवैतवने कर्ण गन्धर्वैः समभिद्रुतः कुरून समग्रान उत्सृज्य परथमं तवं पलायथाः ॥ 59 ॥
हत्वा जित्वा च गन्धर्वांश चित्रसेनमुखान रणे कर्णदुर्यॊधनं पार्थः सभार्यं सममॊचयत ॥ 60 ॥
पुनः परभावः पार्थस्य पुराणः केशवस्य च कथितः कर्ण रामेण सभायां राजसंसदि ॥ 61 ॥
सततं च तद अश्रौषीर वचनं दरॊण भीष्मयॊः अवध्यौ वदतॊः कृष्णौ संनिधौ वै महीक्षिताम ॥ 62 ॥
कियन्तं तत्र वक्ष्यामि येन येन धनंजयः तवत्तॊ ऽतिरिक्तः सर्वेभ्यॊ भूतेभ्यॊ बराह्मणॊ यथा ॥ 63 ॥
इदानीम एव दरष्टासि परधने सयन्दने सथितौ पुत्रं च वसुदेवस्य पाण्डवं च धनंजयम ॥ 64 ॥
देवासुरमनुष्येषु परख्यातौ यौ नरर्षभौ परकाशेनाभिविख्यातौ तवं तु खद्यॊतवन नृषु ॥ 65 ॥
एवं विद्वान मावमंस्थाः सूतपुत्राच्युतार्जुनौ नृसिंहौ तौ नरश्वा तवं जॊषम आस्स्व विकत्थन ॥ 66 ॥
कर्णपर्व · Karna Parva
अध्याय 28
Reach this point to mark the section finished.
Continue to अध्याय 29