धर्मDharmic Data

कर्णपर्व · Karna Parva

अध्याय 27

  1. [स] परयान एव तदा कर्णॊ हर्षयन वाहिनीं तव एकैकं समरे दृष्ट्वा पाण्डवं पर्यपृच्छत ॥ 1 ॥

  2. यॊ ममाद्य महात्मानं दर्शयेच छवेत वाहनम तस्मै दद्याम अभिप्रेतं वरं यं मनसेच्छति ॥ 2 ॥

  3. स चेत तद अभिमन्येत तस्मै दद्याम अहं पुनः शक्तटं रत्नसंपूर्णं यॊ मे बरूयाद धनंजयम ॥ 3 ॥

  4. स चेत तद अभिमन्येत पुरुषॊ ऽरजुन दर्शिवान अन्यं तस्मै पुनर दद्यां सौवर्णं हस्तिषड्गवम ॥ 4 ॥

  5. तथा तस्मै पुनर दद्यां सत्रीणां शतम अलंकृतम शयामानां निष्ककण्ठीनां गीतवाद्य विपश्चिताम ॥ 5 ॥

  6. स चेत तद अभिमन्येत पुरुषॊ ऽरजुन दर्शिवान अन्यं तस्मै वरं दद्यां शवेतान पञ्च शतान हयान ॥ 6 ॥

  7. हेमभाण्ड परिच्छन्नान सुमृष्टमणिकुण्डलान सुदान्तान अपि चैवाहं दद्याम अष्ट शतान परान ॥ 7 ॥

  8. रथं च शुभ्रं सौवर्णं दद्यां तस्मै सवलंकृतम युक्तं परमकाम्बॊजैर यॊ मे बरूयाद धनंजयम ॥ 8 ॥

  9. अन्यं तस्मै वरं दद्यां कुञ्जराणां शतानि षट काञ्चनैर विविधैर भाण्डैर आच्छन्नान हेममालिनः उत्पन्नान अपरान्तेषु विनीतान हस्तिशिक्षकैः ॥ 9 ॥

  10. स चेत तद अभिमन्येत पुरुषॊ ऽरजुन दर्शिवान अन्यं तस्मै वरं दद्यां यम असौ कामयेत सवयम ॥ 10 ॥

  11. पुत्रदारान विहारांश च यद अन्यद वित्तम अस्ति मे तच च तस्मै पुनर दद्यां यद यत स मनसेच्छति ॥ 11 ॥

  12. हत्वा च सहितौ कृष्णौ तयॊर वित्तानि सर्वशः तस्मै दद्याम अहं यॊ मे परब्रूयात केशवार्जुनौ ॥ 12 ॥

  13. एता वाचः सुबहुशः कर्ण उच्चारयन युधि दध्मौ सागरसंभूतं सुस्वनं शङ्खम उत्तमम ॥ 13 ॥

  14. ता वाचः सूतपुत्रस्य तथायुक्ता निशम्य तु दुर्यॊधनॊ महाराज परहृष्टः सानुगॊ ऽभवत ॥ 14 ॥

  15. ततॊ दुन्दुभिनिर्घॊषॊ मृदङ्गानां च सर्वशः सिंहनादः सवादित्रः कुञ्जराणाम अनिस्वनः ॥ 15 ॥

  16. परादुरासीत तदा राजंस तवत सैन्ये भरतर्षभ यॊधानां संप्रहृष्टानां तथा समभवत सवनः ॥ 16 ॥

  17. तथा परहृष्टे सैन्ये तु परवमानं महारथम विकत्थमानं समरे राधेयम अरिकर्शनम मद्रराजः परहस्येवं वचनं परथ्यभाषत ॥ 17 ॥

  18. मा सूतपुत्र मानेन सौवर्णं हस्तिषड्गवम परयच्छ पुरुषायाद्य दरक्ष्यसि तवं धनंजयम ॥ 18 ॥

  19. बाल्याद इव तवं तयजसि वसु वैश्रवणॊ यथा अयत्नेनैव राधेय दरष्टास्य अद्य धनंजयम ॥ 19 ॥

  20. परासृजसि मिथ्या किं किं च तवं बहु मूढवत अपात्र दाने ये दॊषास तान मॊहान नावबुध्यसे ॥ 20 ॥

  21. यत परवेदयसे वित्तं बहुत्वेन खलु तवया शक्यं बहुविधैर यज्ञैर यष्टुं सूत यजस्व तैः ॥ 21 ॥

  22. यच च परार्थयसे हन्तुं कृष्णौ मॊहान मृषैव तत न हि शुश्रुम संमर्दे करॊष्ट्रा सिंहौ निपातितौ ॥ 22 ॥

  23. अप्रार्थितं परार्थयसे सुहृदॊ न हि सन्ति ते ये तवां न वारयन्त्य आशु परपतन्तं हुताशने ॥ 23 ॥

  24. कालकार्यं न जानीषे कालपक्वॊ ऽसय असंशयम बह्वबद्धम अकर्णीयं कॊ हि बरूयाज जिजीविषुः ॥ 24 ॥

  25. समुद्रतरणं दॊर्भ्यां कण्ठे बद्ध्वा यथा शिलाम गिर्यग्राद वा निपतनं तादृक तव चिकीर्षितम ॥ 25 ॥

  26. सहितः सर्वयॊधैस तवं वयूढानीकैः सुरक्षितः धनंजयेन युध्यस्व शरेयश चेत पराप्तुम इच्छसि ॥ 26 ॥

  27. हितार्थं धार्तराष्ट्रस्य बरवीमि तवा न हिंसया शरद्धत्स्वैतन मया परॊक्तं यदि ते ऽसति जिजीविषा ॥ 27 ॥

  28. [कर्ण] सववीर्ये ऽहं पराश्वस्य परार्थयाम्य अर्जुनं रणे तवं तु मित्र मुखः शत्रुर मां भीषयितुम इच्छसि ॥ 28 ॥

  29. न माम अस्माद अभिप्रायात कश चिद अद्य निवर्तयेत अपीन्द्रॊ वज्रम उद्यम्य किं नु मर्त्यः करिष्यति ॥ 29 ॥

  30. [स] इति कर्णस्य वाक्यान्ते शल्यः पराहॊत्तरं वचः चुकॊपयिषुर अत्यर्थं कर्णं मद्रेश्वरः पुनः ॥ 30 ॥

  31. यदा वै तवां फल्गुन वेगनुन्ना; जया चॊदिता हस्तवता विसृष्टाः अन्वेतारः कङ्कपत्राः शिताग्रास; तदा तप्स्यस्य अर्जुनस्याभियॊगात ॥ 31 ॥

  32. यदा दिव्यं धनुर आदाय पार्थः; परभासयन पृतनां सव्यसाची तवाम अर्दयेत निशितैः पृषत्कैस; तदा पश्चात तप्स्यसे सूतपुत्र ॥ 32 ॥

  33. बालश चन्द्रं मातुर अङ्के शयानॊ; यथा कश चित परार्थयते ऽपहर्तुम तद्वन मॊहाद यतमानॊ रथस्थस; तवं परार्थयस्य अर्जुनम अद्य जेतुम ॥ 33 ॥

  34. तरिशूलम आश्लिष्य सुतीक्ष्णधारं; सर्वाणि गात्राणि निघर्षसि तवम सुतीक्ष्णधारॊपम कर्मणा तवं; युयुत्ससे यॊ ऽरजुनेनाद्य कर्ण ॥ 34 ॥

  35. सिद्धं सिंहं केसरिणं बृहन्तं; बालॊ मूढः कषुद्रमृगस तरस्वी समाह्वयेत तद्वद एतत तवाद्य; समाह्वानं सूतपुत्रार्जुनस्य ॥ 35 ॥

  36. मा सूतपुत्राह्वय राजपुत्रं; महावीर्यं केसरिणं यथैव वने सृगालः पिशितस्य तृप्तॊ; मा मार्थम आसाद्य विनङ्क्ष्यसि तवम ॥ 36 ॥

  37. ईषादन्तं महानागं परभिन्नकरटा मुखम शशक आह्वयसे युद्धे कर्ण पार्थं धनंजयम ॥ 37 ॥

  38. बिलस्थं कृष्णसर्पं तवं बाल्यात काष्ठेन विध्यसि महाविषं पूर्णकॊशं यत पार्थं यॊद्धुम इच्छसि ॥ 38 ॥

  39. सिंहं केसरिणं करुद्धम अतिक्रम्याभिनर्दसि सृगाल इव मूढत्वान नृसिंहं कर्ण पाण्डवम ॥ 39 ॥

  40. सुपर्णं पतगश्रेष्ठं वैनतेयं तरस्विनम लट्व एवाह्वयसे पाते कर्ण पार्थं धनंजयम ॥ 40 ॥

  41. सर्वाम्भॊ निलयं भीमम ऊर्मिमन्तं झषायुतम चन्द्रॊदये विवर्तन्तम अप्लवः संतितीर्षसि ॥ 41 ॥

  42. ऋषभं दुन्दुभिग्रीवं तीक्ष्णशृङ्गं परहारिणम वत्स आह्वयसे युद्धे कर्ण पार्थं धनंजयम ॥ 42 ॥

  43. महाघॊषं महामेघं दर्दुरः परतिनर्दसि कामतॊय परदं लॊके नरपर्जन्यम अर्जुनम ॥ 43 ॥

  44. यथा च सवगृहस्थः शवा वयाघ्रं वनगतं भषेत तथा तवं भषसे कर्ण नरव्याघ्रं धनंजयम ॥ 44 ॥

  45. सृगालॊ ऽपि वने कर्ण शशैः परिवृतॊ वसन मन्यते सिंहम आत्मानं यावत सिंहं न पश्यति ॥ 45 ॥

  46. तथा तवम अपि राधेय सिंहम आत्मानम इच्छसि अपश्यञ शत्रुदमनं नरव्याघ्रं धनंजयम ॥ 46 ॥

  47. वयाघ्रं तवं मन्यसे ऽऽतमानं यावत कृष्णौ न पश्यसि समास्थिताव एकरथे सूर्यचन्द्रमसाव इव ॥ 47 ॥

  48. यावद गाण्डीवनिर्घॊषं न शृणॊषि महाहवे तावद एव तवया कर्ण शक्यं वक्तुं यथेच्छसि ॥ 48 ॥

  49. रथशब्दधनुः शब्दैर नादयन्तं दिशॊ दश नर्दन्तम इव शार्दूलं दृष्ट्वा करॊष्टा भविष्यसि ॥ 49 ॥

  50. नित्यम एव सृगाजस तवं नित्यं सिंहॊ धनंजयः वीर परद्वेषणान मूढ नित्यं करॊष्टेव लक्ष्यसे ॥ 50 ॥

  51. यथाखुः सयाद बिडालश च शवा वयाघ्रश च बलाबले यथा सृगालः सिंहश च यथा च शशकुञ्जरौ ॥ 51 ॥

  52. यथानृतं च सत्यं च यथा चापि वृषामृते तथा तवम अपि पार्थश च परख्याताव आत्मकर्मभिः ॥ 52 ॥

  53. [स] अधिक्षिप्तस तु राधेयः शल्येनामित तेजसा शल्यम आह सुसंक्रुद्धॊ वाक्शल्यम अवधारयन ॥ 53 ॥

  54. गुणान गुणवतः शल्य गुणवान वेत्ति नागुणः तवं तु नित्यं गुणैर हीनः किं जञास्यस्य अगुणॊ गुणान ॥ 54 ॥

  55. अर्जुनस्य महास्त्राणि करॊधं वीर्यं धनुः शरान अहं शल्याभिजानामि न तवं जानासि तत तथा ॥ 55 ॥

  56. एवम एवात्मनॊ वीर्यम अहं वीर्यं च पाण्डवे जानन्न एवाह्वये युद्धे शल्य नाग्निं पतंगवत ॥ 56 ॥

  57. अस्ति चायम इषुः शल्य सुपुङ्खॊ रथभॊजनः एकतूणी शयः पत्री सुधौतः समलंकृतः ॥ 57 ॥

  58. शेते चन्दनपूर्णेन पूजितॊ बहुलाः समाः आहेयॊ विषवान उग्रॊ नराश्वद्विपसंघहा ॥ 58 ॥

  59. एकवीरॊ महारौद्रस तनुत्रास्थि विदारणः निर्भिन्द्यां येन रुष्टॊ ऽहम अपि मेरुं महागिरिम ॥ 59 ॥

  60. तम अहं जातु नास्येयम अन्यस्मिन फल्गुनाद ऋते कृष्णाद वा देवकीपुत्रात सत्यं चात्र शृणुष्व मे ॥ 60 ॥

  61. तेनाहम इषुणा शल्य वासुदेवधनंजयौ यॊत्स्ये परमसंक्रुद्धस तत कर्म सदृशं मम ॥ 61 ॥

  62. सर्वेषां वासुदेवानां कृष्णे लक्ष्मीः परतिष्ठिता सर्वेषां पाण्डुपुत्राणां जयः पार्थे परतिष्ठितः उभयं तत समासाद्य कॊ ऽतिवर्तितुम अर्हति ॥ 62 ॥

  63. ताव एतौ पुरुषव्याघ्रौ समेतौ सयन्दने सथितौ माम एकम अभिसंयातौ सुजातं शल्य पश्य मे ॥ 63 ॥

  64. पितृष्वसा मातुलजौ भरातराव अपराजितौ मणी सूत्र इव परॊक्तौ दरष्टासि निहतौ मया ॥ 64 ॥

  65. अर्जुने गाण्डिवं कृष्णे चक्रं तार्क्ष्य कपिध्वजौ भीरूणां तरासजननौ शल्य हर्षकरौ मम ॥ 65 ॥

  66. तवं तु दुष्प्रकृतिर मूढॊ महायुद्धेष्व अकॊविदः भयावतीर्णः संत्रासाद अबद्धं बहु भाषसे ॥ 66 ॥

  67. संस्तौषि तवं तु केनापि हेतुना तौ कुदेशज तौ हत्वा समरे हन्ता तवाम अद्धा सहबान्धवम ॥ 67 ॥

  68. पापदेशज दुर्बुद्धे कषुद्रक्षत्रियपांसन सुहृद भूत्वा रिपुः किं मां कृष्णाभ्यां भीषयन्न असि ॥ 68 ॥

  69. तौ वा ममाद्य हन्तारौ हन्तास्मि समरे सथितौ नाहं बिभेमि कृष्णाभ्यां विजानन्न आत्मनॊ बलम ॥ 69 ॥

  70. वासुदेव सहस्रं वा फल्गुनानां शतानि च अहम एकॊ हनिष्यामि जॊषम आस्स्व कुदेशज ॥ 70 ॥

  71. सत्रियॊ बालाश च वृद्धाश च परायः करीडा गता जनाः या गाथाः संप्रगायन्ति कुर्वन्तॊ ऽधययनं यथा ता गाथाः शृणु मे शल्य मद्रकेषु दुरात्मसु ॥ 71 ॥

  72. बराह्मणैः कथिताः पूर्वं यथावद राजसंनिधौ शरुत्वा चैकमना मूढ कषम वा बरूहि वॊत्तमम ॥ 72 ॥

  73. मित्रध्रुन मद्रकॊ नित्यं यॊ नॊ दवेष्टि स मद्रकः मद्रके संगतं नास्ति कषुद्रवाक्ये नराधमे ॥ 73 ॥

  74. दुरात्मा मद्रकॊ नित्यं नित्यं चानृतिकॊ ऽनृजुः यावदन्तं हि दौरात्म्यं मद्रकेष्व इति नः शरुतम ॥ 74 ॥

  75. पिता माता च पुत्रश च शवश्रू शवशुर मातुलाः जामाता दुहिता भराता नप्ता ते ते च बान्धवाः ॥ 75 ॥

  76. वयस्याभ्यागताश चान्ये दासीदासं च संगतम पुम्भिर विमिश्रा नार्यश च जञाताज्ञाताः सवयेच्छया ॥ 76 ॥

  77. येषां गृहेषु शिष्टानां सक्तु मन्थाशिनां सदा पीत्वा सीधुं सगॊ मांसं नर्दन्ति च हसन्ति च ॥ 77 ॥

  78. यानि चैवाप्य अबद्धानि परवर्तन्ते च कामतः कामप्रलापिनॊ ऽनयॊन्यं तेषु धर्मः कथं भवेत ॥ 78 ॥

  79. मद्रकेषु विलुप्तेषु परख्याताशुभ कर्मसु नापि वैरं न सौहार्दं मद्रकेषु समाचरेत ॥ 79 ॥

  80. मद्रके संगतं नास्ति मद्रकॊ हि सचापलः मद्रकेषु च दुःस्पर्शं शौचं गान्धारकेषु च ॥ 80 ॥

  81. राजयाजक याज्येन नष्टं दत्तं हविर भवेत ॥ 81 ॥

  82. शूद्र संस्कारकॊ विप्रॊ यथा याति पराभवम तथा बरह्म दविषॊ नित्यं गच्छन्तीह पराभवम ॥ 82 ॥

  83. मद्रके संगतं नास्ति हतं वृश्चिकतॊ विषम आथर्वणेन मन्त्रेण सर्वा शान्तिः कृता भवेत ॥ 83 ॥

  84. इति वृश्चिक दष्टस्य नाना विषहतस्य च कुर्वन्ति भेषजं पराज्ञाः सत्यं तच चापि दृश्यते एवं विद्वञ जॊषम आस्स्व शृणु चात्रॊत्तरं वचः ॥ 84 ॥

  85. वासांस्य उत्सृज्य नृत्यन्ति सत्रियॊ या मद्य मॊहिताः मिथुने ऽसंयताश चापि यथा कामचराश च ताः तासां पुत्रः कथं धर्मं मद्रकॊ वक्तुम अर्हति ॥ 85 ॥

  86. यास तिष्ठन्त्यः परमेहन्ति यथैवॊष्ट्री दशेरके तासां विभ्रष्टलज्जानां निर्लज्जानां ततस ततः तवं पुत्रस तादृशीनां हि धर्मं वक्तुम इहेच्छसि ॥ 86 ॥

  87. सुवीरकं याच्यमाना मद्रका कषति सफिजौ अदातु कामा वचनम इदं वदति दारुणम ॥ 87 ॥

  88. मा मा सुवीरकं कश चिद याचतां दयितॊ मम पुत्रं दद्यां परतिपदं न तु दद्यां सुवीरकम ॥ 88 ॥

  89. नार्यॊ बृहत्यॊ निर्ह्रीका मद्रकाः कम्बलावृताः घस्मरा नष्टशौचाश च पराय इत्य अनुशुश्रुम ॥ 89 ॥

  90. एवमादि मयान्यैर वा शक्यं वक्तुं भवेद बहु आ केशाग्रान नखाग्राच च वक्तव्येषु कुवर्त्मसु ॥ 90 ॥

  91. मद्रकाः सिन्धुसौवीरा धर्मं विद्युः कथं तव इह पापदेशॊद्भवा मलेच्छा धर्माणम अविचक्षणाः ॥ 91 ॥

  92. एष मुख्यतमॊ धर्मः कषत्रियस्येति नः शरुतम यद आजौ निहतः शेते सद्भिः समभिपूजितः ॥ 92 ॥

  93. आयुधानां संपराये यन मुच्येयम अहं ततः न मे स परथमः कल्पॊ निधने सवर्गम इच्छतः ॥ 93 ॥

  94. सॊ ऽहं परियः सखा चास्मि धार्तराष्ट्रस्य धीमतः तदर्थे हि मम पराणा यच च मे विद्यते वसु ॥ 94 ॥

  95. वयक्तं तवम अप्य उपहितः पाण्डवैः पापदेशज यथा हय अमित्रवत सर्वं तवम अस्मासु परवर्तसे ॥ 95 ॥

  96. कामं न खलु शक्यॊ ऽहं तवद्विधानां शतैर अपि संग्रामाद विमुखः कर्तुं धर्मज्ञ इव नास्तिकैः ॥ 96 ॥

  97. सारङ्ग इव घर्मार्तः कामं विलप शुष्य च नाहं भीषयितुं शक्यः कषत्रवृत्ते वयवस्थितः ॥ 97 ॥

  98. तनु तयजां नृसिंहानाम आहवेष्व अनिवर्तिनाम या गतिर गुरुणा पराङ मे परॊक्ता रामेण तां समर ॥ 98 ॥

  99. सवेषां तराणार्थम उद्युक्तं वधाय दविषताम अपि विद्धि माम आस्थितं वृत्तं पौरूरव समुत्तमम ॥ 99 ॥

  100. न तद भूतं परपश्यामि तरिषु लॊकेषु मद्रक यॊ माम अस्माद अभिप्रायाद वारयेद इति मे मतिः ॥ 100 ॥

  101. एवं विद्वञ जॊषम आस्स्व तरासात किं बहु भाषसे मा तवा हत्वा परदास्यामि करव्याद्भ्यॊ मद्रकाधम ॥ 101 ॥

  102. मित्र परतीक्षया शल्य धार्तराष्ट्रस्य चॊभयॊः अपवादतितिक्षाभिस तरिभिर एतैर हि जीवसि ॥ 102 ॥

  103. पुनश चेद ईद्दृशं वाक्यं मद्रराजवदिष्यसि शिरस ते पातयिष्यामि गदया वज्रकल्पया ॥ 103 ॥

  104. शरॊतारस तव इदम अद्येह दरष्टारॊ वा कुदेशज कर्णं वा जघ्नतुः कृष्णौ कर्णॊ वापि जघान तौ ॥ 104 ॥

  105. एवम उक्त्वा तु राधेयः पुनर एव विशां पते अब्रवीन मद्रराजानं याहि याहीत्य असंभ्रमम ॥ 105 ॥

Reach this point to mark the section finished.

Continue to अध्याय 28

Previous: अध्याय 26