धर्मDharmic Data

कर्णपर्व · Karna Parva

अध्याय 26

  1. [दुर] अयं ते कर्ण सारथ्यं मद्रराजः करिष्यति कृष्णाद अभ्यधिकॊ यन्ता देवेन्द्रस्येव मातलिः ॥ 1 ॥

  2. यथा हरिहयैर युक्तं संगृह्णाति स मातलिः शल्यस तव तथाद्यायं संयन्ता रथवाजिनाम ॥ 2 ॥

  3. यॊधे तवयि रथस्थे च मद्रराजे च सारथौ रथश्रेष्ठॊ धरुवं संख्ये पार्थॊ नाभिभविष्यति ॥ 3 ॥

  4. [स] ततॊ दुर्यॊधनॊ भूयॊ मद्रराजं तरस्विनम उवाच राजन संग्रामे संयच्छन्तं हयॊत्तमान ॥ 4 ॥

  5. तवयाभिगुप्तॊ राधेयॊ विजेष्यति धनंजयम इत्य उक्तॊ रथम आस्थाय तथेति पराह भारत ॥ 5 ॥

  6. शल्ये ऽभयुपगते कर्णः सारथिं सुमनॊऽबरवीत सवं सूत सयन्दनं मह्यं कल्पयेत्य असकृत तवरन ॥ 6 ॥

  7. ततॊ जैत्रं रथवरं गन्धर्वनगरॊपमम विधिवत कल्पितं भर्त्रे जयेत्य उक्त्वा नयवेदयत ॥ 7 ॥

  8. तं रथं रथिनां शरेष्ठः कर्णॊ ऽभयर्च्य यथाविधि संपादितं बरह्मविदा पूर्वम एव पुरॊधसा ॥ 8 ॥

  9. कृत्वा परदक्षिणं यत्नाद उपस्थाय च भास्करम समीपस्थं मद्रराजं समारॊपयद अग्रतः ॥ 9 ॥

  10. ततः कर्णस्य दुर्धर्षं सयन्दनप्रवरं महत आरुरॊह महातेजाः शल्यः सिंह इवाचलम ॥ 10 ॥

  11. ततः शल्यास्थितं राजन कर्णः सवरथम उत्तमम अध्यतिष्ठद यथाम्भॊदं विद्युत्वन्तं दिवाकरः ॥ 11 ॥

  12. ताव एकरथम आरूढाव आदित्याग्निसमत्विषौ वयभ्राजेतां यथा मेघं सूर्याग्नी सहितौ दिवि ॥ 12 ॥

  13. संस्तूयमानौ तौ वीरौ तदास्तां दयुतिमत्तरौ ऋत्विक सदस्यैर इन्द्राग्नी हूयमानाव इवाध्वरे ॥ 13 ॥

  14. स शल्य संगृहीताश्वे रथे कर्णः सथितॊ ऽभवत धनुर विस्फारयन घॊरं परिवेषीव भास्करः ॥ 14 ॥

  15. आस्थितः स रथश्रेष्ठं कर्णः शरगभस्तिमान परबभौ पुरुषव्याघ्रॊ मन्दरस्थ इवांशुमान ॥ 15 ॥

  16. तं रथस्थं महावीरं यान्तं चामिततेजसम दुर्यॊधनः सम राधेयम इदं वचनम अब्रवीत ॥ 16 ॥

  17. अकृतं दरॊण भीष्माभ्यां दुष्करं कर्म संयुगे कुरुष्वाधिरथे वीर मिषतां सर्वधन्विनाम ॥ 17 ॥

  18. मनॊगतं मम हय आसीद भीष्मद्रॊणौ महारथौ अर्जुनं भीमसेनं च निहन्ताराव इति धरुवम ॥ 18 ॥

  19. ताभ्यां यद अकृतं वीर वीरकर्म महामृधे तत कर्म कुरु राधेय वज्रपाणिर इवापरः ॥ 19 ॥

  20. गृहाण धर्मराजं वा जहि वा तवं धनंजयम भीमसेनं च राधेय माद्रीपुत्रौ यमाव अपि ॥ 20 ॥

  21. जयश च ते ऽसतु भद्रं च परयाहि पुरुषर्षभ पाण्डुपुत्रस्य सैन्यानि कुरु सर्वाणि भस्मसात ॥ 21 ॥

  22. ततस तूर्यसहस्राणि भेरीणाम अयुतानि च वाद्यमानान्य अरॊचन्त मेघशब्दा यथा दिवि ॥ 22 ॥

  23. परतिगृह्य तु तद वाक्यं रथस्थॊ रथसत्तमः अभ्यभाषत राधेयः शल्यं युद्धविशादरम ॥ 23 ॥

  24. चॊदयाश्वान महाबाहॊ यावद धन्मि धनंजयम भीमसेनं यमौ चॊभौ राजानं च युधिष्ठिरम ॥ 24 ॥

  25. अद्य पश्यतु मे शल्य बाहुवीर्यं धनंजयः अस्यतः कङ्कपत्राणां सहस्राणि शतानि च ॥ 25 ॥

  26. अद्य कषेप्स्याम्य अहं शल्य शरान परमतेजनान पाण्डवानां विनाशाय दुर्यॊधन जयाय च ॥ 26 ॥

  27. [षल्य] सूतपुत्र कथं नु तवं पाण्डवान अवमन्यसे सर्वास्त्रज्ञान महेष्वासान सर्वान एव महारथान ॥ 27 ॥

  28. अनिवर्तिनॊ महाभागान अजेयान सत्यविक्रमान अपि संजनयेयुर ये भयं साक्षाच छतक्रतॊः ॥ 28 ॥

  29. यदा शरॊष्यसि निर्घॊषं विस्फूर्जितम इवाशनेः राधेय गाण्डिवस्याजौ तदा नैवं वदिष्यसि ॥ 29 ॥

  30. [स] अनादृत्य तु तद वाक्यं मद्रराजेन भाषितम दरक्ष्यस्य अद्येत्य अवॊचद वै शक्यं कर्णॊ नरेश्वर ॥ 30 ॥

  31. दृष्ट्वा कर्णं महेष्वासं युयुत्सुं समवस्थितम चुक्रुशुः कुरवः सर्वे हृष्टरूपाः परंतप ॥ 31 ॥

  32. ततॊ दुन्दुभिघॊषेण भेरीणां निनदेन च बाणशब्दैश च विविधैर गर्जितैश च तरस्विनाम निर्ययुस तावका युद्धे मृत्युं कृत्वा निवर्तनम ॥ 32 ॥

  33. परयाते तु ततः कर्णे यॊधेषु मुदितेषु च चचाल पृथिवी राजन ररास च सुविस्वरम ॥ 33 ॥

  34. निश्चरन्तॊ वयदृश्यन्त सूर्यात सप्त महाग्रहाः उल्का पातश च संजज्ञे दिशां दाहस तथैव च तथाशन्यश च संपेतुर ववुर वाताश च दारुणाः ॥ 34 ॥

  35. मृगपक्षिगणाश चैव बहुशः पृतनां तव अपसव्यं तदा चक्रुर वेदयन्तॊ महद भयम ॥ 35 ॥

  36. परस्थितस्य च कर्णस्य निपेतुस तुरगा भुवि अस्थि वर्षं च पतितम अन्तरिक्षाद भयानकम ॥ 36 ॥

  37. जज्वलुश चैव शस्त्राणि धवजाश चैव चकम्पिरे अश्रूणि च वयमुञ्चन्त वाहनानि विशां पते ॥ 37 ॥

  38. एते चान्ये च बहव उत्पातास तत्र मारिष समुत्पेतुर विनाशाय कौरवाणां सुदारुणाः ॥ 38 ॥

  39. न च तान गणयाम आसुः सर्वे ते दैवमॊहिताः परस्थितं सूतपुत्रं च जयेत्य ऊचुर नरा भुवि निर्जितान पाण्डवांश चैव मेनिरे तव कौरवाः ॥ 39 ॥

  40. ततॊ रथस्थः परवीर हन्ता; भीष्मद्रॊणाव आत्तवीर्यौ निरीक्ष्य समज्वलद भारत पावकाभॊ; वैकर्तनॊ ऽसौ रथकुञ्जरॊ वृषः ॥ 40 ॥

  41. स शल्यम आभाष्य जगाद वाक्यं; पार्थस्य कर्माप्रतिमं च दृष्ट्वा मानेन दर्पेण च दह्यमानः; करॊधेन दीप्यन्न इव निःश्वसित्वा ॥ 41 ॥

  42. नाहं महेन्द्राद अपि वज्रवाणेः; करुद्धाद बिभेम्य आत्तधनू रथस्थः दृष्ट्वा तु भीष्म परमुखाञ शयानान; न तव एव मां सथिरता संजहाति ॥ 42 ॥

  43. महेन्द्र विष्णुप्रतिमाव अनिन्दितौ; रथाश्वनागप्रवर परमाथिनौ अवध्यकल्पौ निहतौ यदा परैस; ततॊ ममाद्यापि रणे ऽसति साध्वसम ॥ 43 ॥

  44. समीक्ष्य संख्ये ऽतिबालान नराधिपैर; नराश्वमातङ्गरथाञ शरैर हतान कथं न सर्वान अहितान रणे ऽवधीन; महास्त्रविद बराह्मणपुंगवॊ गुरुः ॥ 44 ॥

  45. स संस्मरन दरॊण हवं महाहवे; बरवीमि सत्यं कुरवॊ निबॊधत न वॊ मद अन्यः परसहेद रणे ऽरजुनं; करमागतं मृत्युम इवॊग्ररूपिणम ॥ 45 ॥

  46. शिक्षा परसादश च बलं धृतिश च; दरॊणे महास्त्राणि च संनतिश च स चेद अगान मृत्युवशं महात्मा; सर्वान अन्यान आतुरान अद्य मन्ये ॥ 46 ॥

  47. नेह धरुवं किं चिद अपि परचिन्त्यं; विदुर लॊके कर्मणॊ ऽनित्य यॊगात सूर्यॊदये कॊ हि विमुक्तसंशयॊ; गर्वं कुर्वीताद्य गुरौ निपातिते ॥ 47 ॥

  48. न नूनम अस्त्राणि बलं पराक्रमः; करिया सुनीतं परमायुधानि वा अलं मनुष्यस्य सुखाय वर्तितुं; तथा हि युद्धे निहतः परैर गुरुः ॥ 48 ॥

  49. हुताशनादित्य समानतेजसं; पराक्रमे विष्णुपुरंदरॊपमम नये बृहस्पत्युशनः समं सदा; न चैनम अस्त्रं तद अपात सुदुःसहम ॥ 49 ॥

  50. संप्रक्रुष्टे रुदितस्त्री कुमारे; पराभूते पौरुषे धार्तराष्ट्रे मया कृत्यम इति जानामि शल्य; परयाहि तस्माद दविषताम अनीकम ॥ 50 ॥

  51. यत्र राजा पाण्डवाः सत्यसंधॊ; वयवस्थितॊ भीमसेनार्जुनौ च वासुदेवः सृञ्जयाः सात्यकिश च; यमौ च कस तौ विषहेन मद अन्यः ॥ 51 ॥

  52. तस्मात कषिप्रं मद्रपते परयाहि; रणे पाञ्चालान पाण्डवान सृञ्जयांश च तान वा हनिष्यामि समेत्य संख्ये; यास्यामि वा दरॊण मुखाय मन्ये ॥ 52 ॥

  53. न तव एवाहं न गमिष्यामि मध्यं; तेषां शूराणाम इति मा शल्यविद्धि मित्रद्रॊहॊ मर्षणीयॊ न मे ऽयं; तयक्त्वा पराणान अनुयास्यामि दरॊणम ॥ 53 ॥

  54. पराज्ञस्य मूढस्य च जीवितान्ते; पराणप्रमॊक्षॊ ऽनतकवक्त्रगस्य अतॊ विद्वन्न अभियास्यामि पार्थं; दिष्टं न शक्यं वयतिवर्तितुं वै ॥ 54 ॥

  55. कल्याण वृत्तः सततं हि राजन; वैचित्रवीर्यस्य सुतॊ ममासीत तस्यार्थसिद्ध्यर्थम अहं तयजामि; परियान भॊगान दुस्त्यजं जीवितं च ॥ 55 ॥

  56. वैयाघ्रचर्माणम अकूजनाक्षं; हैमत्रिकॊशं रजतत्रिवेणुम रथप्रबर्हं तुरगप्रबर्हैर; युक्तं परादान मह्यम इदं हि रामः ॥ 56 ॥

  57. धनूंषि चित्राणि निरीक्ष्य शल्य; धवजं गदां सायकांश चॊग्ररूपान असिं च दीप्तं परमायुधं च; शङ्खं च शुभ्रं सवनवन्तम उग्रम ॥ 57 ॥

  58. पताकिनं वज्रनिपात निस्वनं; सिताश्वयुक्तं शुभतूण शॊभितम इमं समास्थाय रथं रथर्षभं; रणे हनिष्याम्य अहम अर्जुनं बलात ॥ 58 ॥

  59. तं चेन मृत्युः सर्वहरॊ ऽभिरक्षते; सदा परमत्तः समरे पाण्डुपुत्रम तं वा हनिष्यामि समेत्य युद्धे; यास्यामि वा भीष्म मुखॊ यमाय ॥ 59 ॥

  60. यम वरुण कुबेर वासवा वा; यदि युगपत सगणा महाहवे जुगुपिषव इहैत्य पाण्डवं; किम उ बहुना सह तैर जयामि तम ॥ 60 ॥

  61. इति रणरभसस्य कत्थतस; तद उपनिशम्य वचः स मद्रराट अवहसद अवमन्य वीर्यवान; परतिषिषिधे च जागाद चॊत्तरम ॥ 61 ॥

  62. विरम विरम कर्ण कत्थनाद; अतिरभसॊ ऽसयति चाप्य अयुक्तवाक कव च हि नरवरॊ धनंजयः; कव पुनर इह तवम उपारमाबुध ॥ 62 ॥

  63. यदुसदनम उपेन्द्र पालितं; तरिदिवम इवामर राजरक्षितम परसभम इह विलॊक्य कॊ हरेत; पुरुषवरावरजाम ऋते ऽरजुनात ॥ 63 ॥

  64. तरिभुवन सृजम ईश्वरेश्वरं; क इह पुमान भवम आह्वयेद युधि मृगवध कलहे ऋते ऽरजुनात; सुरपतिवीर्यसमप्रभावतः ॥ 64 ॥

  65. असुरसुरमहॊरगान नरान; गरुड पिशाच सयक्षराक्षसान इषुभिर अजयद अग्निगौरवात; सवभिलषितं च हविर ददौ जयः ॥ 65 ॥

  66. समरसि ननु यदा परैर हृतः; स च धृतराष्ट्र सुतॊ विमॊक्षितः दिनकरज नरॊत्तमैर यदा; मरुषु बहून विनिहत्य तान अरीन ॥ 66 ॥

  67. परथमम अपि पलायिते तवयि; परिय कलहा धृतराष्ट्र सूनवः समरसि ननु यदा परमॊचिताः; खचर गणान अवजित्य पाण्डवैः ॥ 67 ॥

  68. समुदित बलवाहनाः पुनः; पुरुषवरेण जिताः सथ गॊग्रहे सगुरु गुरु सुताः सभीष्मकाः; किम उ न जितः स तदा तवयार्जुनः ॥ 68 ॥

  69. इदम अपरम उपस्थितं पुनस; तव निधनाय सुयुद्धम अद्य वै यदि न रिपुभयात पलायसे; समरगतॊ ऽदय हतॊ ऽसि सूतज ॥ 69 ॥

  70. [स] इति बहु परुषं परभाषति; परमनसि मद्रपतौ रिपुस्तवम भृशम अतिरुषितः परं वृषः; कुरु पृतना पतिर आह मद्रपम ॥ 70 ॥

  71. भवतु भवतु किं विकत्थसे; ननु मम तस्य च युद्धम उद्यतम यदि स जयति मां महाहवे; तत इदम अस्तु सुकत्थितं तव ॥ 71 ॥

  72. एवम अस्त्व इति मद्रेश उक्त्वा नॊत्तरम उक्तवान याहि मद्रेश चाप्य एनं कर्णः पराह युयुत्सया ॥ 72 ॥

  73. स रथः परययौ शत्रूञ शवेताश्वः शल्य सारथिः निघ्नन्न अमित्रान समरे तमॊ घनन सविता यथा ॥ 73 ॥

  74. ततः परायात परीतिमान वै रथेन; वैयाघ्रेण शवेतयुजाथ कर्णः स चालॊक्य धवजिनीं पाण्डवानां; धनंजयं तवरया पर्यपृच्छत ॥ 74 ॥

Reach this point to mark the section finished.

Continue to अध्याय 27

Previous: अध्याय 25