धर्मDharmic Data

कर्णपर्व · Karna Parva

अध्याय 25

  1. [दुर] एवं स भगवान देवः सर्वलॊकपितामहः सारथ्यम अकरॊत तत्र यत्र रुद्रॊ ऽभवद रथी ॥ 1 ॥

  2. रथिनाभ्यधिकॊ वीरः कर्तव्यॊ रथसारथिः तस्मात तवं पुरुषव्याघ्र नियच्छ तुरगान युधि ॥ 2 ॥

  3. [स] ततः शल्यः परिष्वज्य सुतं ते वाक्यम अब्रवीत दुर्यॊधनम अमित्रघ्नः परीतॊ मद्राधिपस तदा ॥ 3 ॥

  4. एवं चेन मन्यसे राजन गान्धारे परियदर्शन तस्मात ते यत परियं किं चित तत सर्वं करवाण्य अहम ॥ 4 ॥

  5. यत्रास्मि भरतश्रेष्ठ यॊग्यः कर्मणि कर्हि चित तत्र सर्वात्मना युक्तॊ वक्ष्ये कार्यधुरं तव ॥ 5 ॥

  6. यत तु कर्णम अहं बरूयां हितकामः परियाप्रियम मम तत्क्षमतां सर्वं भवान कर्णश च सर्वशः ॥ 6 ॥

  7. [कर्ण] ईशानस्य यथा बरह्मा यथा पार्थस्य केशवः तथा नित्यं हिते युक्तॊ मद्रराजभजस्व नः ॥ 7 ॥

  8. [षल्य] आत्मनिन्दात्मपूजा च परनिन्दा परस्तवः अनाचरितम आर्याणां वृत्तम एतच चतुर्विधम ॥ 8 ॥

  9. यत तु विद्वान परवक्ष्यामि परत्ययार्थम अहं तव आत्मनः सतवसंयुक्तं तन निबॊध यथातथम ॥ 9 ॥

  10. अहं शक्रस्य सारथ्ये यॊग्यॊ मातलिवत परभॊ अप्रमाद परयॊगाच च जञानविद्या चिकित्सितैः ॥ 10 ॥

  11. ततः पार्थेन संग्रामे युध्यमानस्य ते ऽनघ वाहयिष्यामि तुरगान विज्वरॊ भव सूतज ॥ 11 ॥

Reach this point to mark the section finished.

Continue to अध्याय 26

Previous: अध्याय 24