[दुर] भूय एव तु मद्रेश यत ते वक्ष्यामि तच छृणु यथा पुरावृत्तम इदं युद्धे देवासुरे विभॊ ॥ 1 ॥
यद उक्तवान पितुर मह्यं मार्कण्डेयॊ महान ऋषिः तद अशेषेण बरुवतॊ मम राजर्षिसत्तम तवं निबॊध न चाप्य अत्र कर्तव्या ते विचारणा ॥ 2 ॥
देवानाम असुराणां च महान आसीत समागमः बभूव परथमॊ राजन संग्रामस तारका मयः निर्जिताश च तदा दैत्या दैवतैर इति नः शरुतम ॥ 3 ॥
निर्जितेषु च दैत्येषु तारकस्य सुतास तरयः ताराक्षः कमलाक्षश च विद्युन्माली च पार्थिव ॥ 4 ॥
तप उग्रं समास्थाय नियमे परमे सथिताः तपसा कर्शयाम आसुर देहान सवाञ शत्रुतापन ॥ 5 ॥
दमेन तपसा चैव नियमेन च पार्थिव तेषां पितामहः परीतॊ वरदः परददौ वरान ॥ 6 ॥
अवध्यत्वं च ते राजन सर्वभूतेषु सर्वदा सहिता वरयाम आसुः सर्वलॊकपितामहम ॥ 7 ॥
तान बरवीत तदा देवॊ लॊकानां परभुर ईश्वरः नास्ति सर्वामरत्वं हि निवर्तध्वम अतॊ ऽसुराः वरम अन्यं वृणीध्वं वै यादृशं संप्ररॊचते ॥ 8 ॥
ततस ते सहिता राजन संप्रधार्यासकृद बहु सर्वलॊकेश्वरं वाक्यं परणम्यैनम अथाब्रुवन ॥ 9 ॥
अस्माकं तवं वरं देव परयच्छेमं पितामह वयं पुराणि तरीण्य एव समास्थाय महीम इमाम विचरिष्याम लॊके ऽसमिंस तवत्प्रसाद पुरस्कृताः ॥ 10 ॥
ततॊ वर्षसहस्रे तु समेष्यामः परस्परम एकीभावं गमिष्यन्ति पुराण्य एतानि चानघ ॥ 11 ॥
समागतानि चैतानि यॊ हन्याद भगवंस तदा एकेषुणा देववरः स नॊ मृत्युर भविष्यति एवम अस्त्व इति तान देवः परत्युक्त्वा पराविशद दिवम ॥ 12 ॥
ते तु लब्धवराः परीताः संप्रधार्य परस्परम पुरत्रय विसृष्ट्य अर्थं मयं वव्रुर महासुरम विश्वकर्माणम अजरं दैत्यदानव पूजितम ॥ 13 ॥
ततॊ मयः सवतपसा चक्रे धीमान पुराणि ह तरीणि काञ्चनम एकं तु रौप्यं कार्ष्णायसं तथा ॥ 14 ॥
काञ्चनं दिवि तत्रासीद अन्तरिक्षे च राजतम आयसं चाभवद भूमौ चक्रस्थं पृथिवीपते ॥ 15 ॥
एकैकं यॊजनशतं विस्तारायाम संमितम गृहाट्टाट्टालक युतं बृहत पराकारतॊरणम ॥ 16 ॥
गुणप्रसव संबाधम असंबाधम अनामयम परासादैर विविधैश चैव दवारैश चाप्य उपशॊभितम ॥ 17 ॥
पुरेषु चाभवन राजन राजानॊ वै पृथक पृथक काञ्चनं तारकाक्षस्य चित्रम आसीन महात्मनः राजतं कमलाक्षस्य विद्युन्मालिन आयसम ॥ 18 ॥
तरयस ते दैत्य राजानस तरीँल लॊकान आशु तेजसा आक्रम्य तस्थुर वर्षाणां पूगान नाम परजापतिः ॥ 19 ॥
तेषां दानवमुख्यानां परयुतान्य अर्बुदानि च कॊट्यश चाप्रतिवीराणां समाजग्मुस ततस ततः महद ऐश्वर्यम इच्छन्तस तरिपुरं दुर्गम आश्रिताः ॥ 20 ॥
सर्वेषां च पुनस तेषां सर्वयॊगवहॊ मयः तम आश्रित्य हि ते सर्वे अवर्तन्ताकुतॊ भयाः ॥ 21 ॥
यॊ हि यं मनसा कामं दध्यौ तरिपुरसंश्रयः तस्मै कामं मयस तं तं विदधे मायया तदा ॥ 22 ॥
तारकाक्ष सुतश चासीद धरिर नाम महाबलः तपस तेपे परमकं येनातुष्यत पितामहः ॥ 23 ॥
स तुष्टम अवृणॊद देवं वापी भवतु नः पुरे शस्त्रैर विनिहता यत्र कषिप्ताः सयुर बलवत्तराः ॥ 24 ॥
स तु लब्ध्वा वरं वीरस तारकाक्ष सुतॊ हरिः ससृजे तत्र वापीं तां मृतानां जीवनीं परभॊ ॥ 25 ॥
येन रूपेण दैत्यस तु येन वेषेण चैव ह मृतस तस्यां परिक्षिप्तस तादृशेनैव जज्ञिवान ॥ 26 ॥
तां पराप्य तरैपुरस्थास तु सर्वाँल लॊकान बबाधिरे महता तपसा सिद्धाः सुराणां भयवर्धनाः न तेषाम अभवद राजन कषयॊ युद्धे कथं चन ॥ 27 ॥
ततस ते लॊभमॊहाभ्याम अभिभूता विचेतसः निर्ह्रीकाः संस्थितिं सर्वे सथापितां समलूलुपन ॥ 28 ॥
विद्राव्य सगणान देवांस तत्र तत्र तदा तदा विचेरुः सवेन कामेन वरदानेन दर्पिताः ॥ 29 ॥
देवारण्यानि सर्वाणि परियाणि च दिवौकसाम ऋषीणाम आश्रमान्पुण्यान यूपाञ्जन पदांस तथा वयनाशयन्त मर्यादा दानवा दुष्टचारिणः ॥ 30 ॥
ते देवाः सहिताः सर्वे पितामहम अरिंदम अभिजग्मुस तदाख्यातुं विप्र कारं सुरेतरैः ॥ 31 ॥
ते तत्त्वं सर्वम आख्याय शिरसाभिप्रणम्य च वधॊपायमपृच्छन्त भगवन्तं पितामहम ॥ 32 ॥
शरुत्वा तद भगवान देवॊ देवान इदम उवाच ह असुराश च दुरात्मानस ते चापि विभुध दविषः अपराध्यन्ति सततं ये युष्मान पीडयन्त्य उत ॥ 33 ॥
अहं हि तुल्यः सर्वेषां भूतानां नात्र संशयः अधार्मिकास तु हन्तव्या इत्य अहं परब्रवीमि वः ॥ 34 ॥
ते यूयं सथाणुम ईशानं जिष्णुम अक्लिष्टकारिणम यॊद्धारं वृणुतादित्याः स तान हन्ता सुरेतरान ॥ 35 ॥
इति तस्य वचः शरुत्वा देवाः शक्रपुरॊगमाः बरह्माणम अग्रतः कृत्वा वृषाङ्कं शरणं ययुः ॥ 36 ॥
तपः परं समातस्थुर गृणन्तॊ बरह्म शाश्वतम ऋषिभिः सहधर्मज्ञा भवं सर्वात्मना गताः ॥ 37 ॥
तुष्टुवुर वाग्भिर अर्थ्याभिर भयेष्व अभयकृत्तमम सर्वात्मानं महात्मानं येनाप्तं सर्वम आत्मना ॥ 38 ॥
तपॊ विशेषैर बहुभिर यॊगं यॊ वेद चात्मनः यः सांख्यम आत्मनॊ वेद यस्य चात्मा वशे सदा ॥ 39 ॥
ते तं ददृशुर ईशानं तेजॊराशिम उमापतिम अनन्यसदृशं लॊके वरतवन्तम अकल्मषम ॥ 40 ॥
एकं च भगवन्तं ते नानारूपम अकल्पयन आत्मनः परतिरूपाणि रूपाण्य अथ महात्मनि परस्परस्य चापश्यन सर्वे परमविस्मिताः ॥ 41 ॥
सर्वभूतमयं चेशं तम अजं जगतः पतिम देवा बरह्मर्षयश चैव शिरॊभिर धरणीं गताः ॥ 42 ॥
तान सवस्ति वाक्येनाभ्यर्च्य समुत्थाप्य च शंकरः बरूत बरूतेति भगवान समयमानॊ ऽभयभाषत ॥ 43 ॥
तर्यम्बकेणाभ्यनुज्ञातास ततस ते ऽसवस्थचेतसः नमॊ नमस ते ऽसतु विभॊ तत इत्य अब्रुवन भवम ॥ 44 ॥
नमॊ देवातिदेवाय धन्विने चातिमन्यवे परजापतिमखघ्नाय परजापतिभिर ईड्यसे ॥ 45 ॥
नमः सतुताय सतुत्याय सतूयमानाय मृत्यवे विलॊहिताय रुद्राय नीलग्रीवाय शूलिने ॥ 46 ॥
अमॊघाय मृगाक्षाय परवरायुध यॊधिने दुर्वारणाय शुक्राय बरह्मणे बरह्मचारिणे ॥ 47 ॥
ईशानायाप्रमेयाय नियन्त्रे चर्म वाससे तपॊनित्याय पिङ्गाय वरतिने कृत्ति वाससे ॥ 48 ॥
कुमार पित्रे तर्यक्षाय परवरायुध धारिणे परपन्नार्ति विनाशाय बरह्म दविट संघघातिने ॥ 49 ॥
वनस्पतीनां पतये नराणां पतये नमः गवां च पतये नित्यं यज्ञानां पतये नमः ॥ 50 ॥
नमॊ ऽसतु ते ससैन्याय तर्यम्बकायॊग्र तेजसे मनॊवाक कर्मभिर देव तवां परपन्नान भजस्व नः ॥ 51 ॥
ततः परसन्नॊ भगवान सवागतेनाभिनन्द्य तान परॊवाच वयेतु वस्त्रासॊ बरूत किं करवाणि वः ॥ 52 ॥
पितृदेवर्षिसंघेभ्यॊ वरे दत्ते महात्मना सत्कृत्य शंकरं पराह बरह्मा लॊकहितं वचः ॥ 53 ॥
तवातिसर्गाद देवेश पराजापत्यम इदं पदम मयाधितिष्ठता दत्तॊ दानवेभ्यॊ महान वरः ॥ 54 ॥
तान अतिक्रान्त मर्यादान नान्यः संहर्तुम अर्हति तवाम ऋते भूतभव्येश तवं हय एषां परत्य अरिर वधे ॥ 55 ॥
स तवं देव परपन्नानां याचतां च दिवौकसाम कुरु परसादं देवेश दानवाञ जहि शूलभृत ॥ 56 ॥
[भग] हन्तव्याः शत्रवः सर्वे युष्माकम इति मे मतिः न तव एकॊ ऽहं वधे तेषां समर्थॊ वै सुरद्विषाम ॥ 57 ॥
ते यूयं सहिताः सर्वे मदीयेनास्त्र तेजसा जयध्वं युधि ताञ शत्रून संघातॊ हि महाबलः ॥ 58 ॥
[देवाह] अस्मत तेजॊबलं यावत तावद दविगुणम एव च तेषाम इति ह मन्यामॊ दृष्टतेजॊबला हि ते ॥ 59 ॥
[भग] वध्यास ते सर्वतः पापा ये युष्मास्व अपराधिनः मम तेजॊबलार्धेन सर्वांस तान घनत शात्रवान ॥ 60 ॥
[देवाह] बिभर्तुं तेजसॊ ऽरधं ते न शक्ष्यामॊ महेश्वर सर्वेषां नॊ बलार्धेन तवम एव जहि शात्रवान ॥ 61 ॥
[दुर] ततस तथेति देवेशस तैर उक्तॊ राजसत्तम अर्धम आदाय सर्वेभ्यस तेजसाभ्यधिकॊ ऽभवत ॥ 62 ॥
स तु देवॊ बलेनासीत सर्वेभ्यॊ बलवत्तरः महादेव इति खयातस तदा परभृति शंकरः ॥ 63 ॥
ततॊ ऽबरवीन महादेवॊ धनुर बाणधरस तव अहम हनिष्यामि रथेनाजौ तान रिपून वै दिवौकसः ॥ 64 ॥
ते यूयं मे रथं चैव धनुर बाणं तथैव च पश्यध्वं यावद अद्यैतान पातयामि महीतले ॥ 65 ॥
[देवाह] मूर्ति सर्वस्वम आदाय तरैलॊक्यस्य ततस ततः रथं ते कल्पयिष्याम देवेश्वर महौजसम ॥ 66 ॥
तथैव बुद्ध्या विहितं विश्वकर्म कृतं शुभम ततॊ विबुधशार्दूलास तं रथं समकल्पयन ॥ 67 ॥
वन्धुरं पृथिवीं देवीं विशालपुरमालिनीम सपर्वतवनद्वीपां चक्रूर भूतधरां तदा ॥ 68 ॥
मन्दरं पर्वतं चाक्षं जङ्घास तस्य महानदीः दिशश च परदिशश चैव परिवारं रथस्य हि ॥ 69 ॥
अनुकर्षान गरहान दीप्तान वरूथं चापि तारकाः धर्मार्थकामसंयुक्तं तरिवेणुं चापि बन्धुरम ओषधीर विविधास तत्र नानापुष्पफलॊद्गमाः ॥ 70 ॥
सूर्या चन्द्रमसौ कृत्वा चक्रे रथवरॊत्तमे पक्षौ पूर्वापरौ तत्र कृते रात्र्यहनी शुभे ॥ 71 ॥
दशनागपतीनीषाम धृतराष्ट्र मुखान दृढाम दयां युगं युगचर्माणि संवर्तक बलाहकान ॥ 72 ॥
शम्यां धृतिं च मेघां च सथितिं संनतिम एव च गरहनक्षत्रताराभिश चर्म चित्रं नभस्तलम ॥ 73 ॥
सुराम्बुप्रेतवित्तानां पतीँल लॊकेश्वरान हयान सिनीवालीम अनुमतिं कुहूं राकां च सुव्रताम यॊक्त्राणि चक्रुर वाहानां रॊहकांश चापि कण्ठकम ॥ 74 ॥
कर्म सत्यं तपॊ ऽरथश च विहितास तत्र रश्मयः अधिष्ठानं मनस तव आसीत परिरथ्यं सरस्वती ॥ 75 ॥
नानावर्णाश च चित्राश च पताकाः पवनेरिताः विद्युद इन्द्र धनुर नद्धं रथं दीप्तं वयदीपयत ॥ 76 ॥
एवं तस्मिन महाराज कल्पिते रथसत्तमे देवैर मनुजशार्दूल दविषताम अभिमर्दने ॥ 77 ॥
सवान्य आयुधानि मुख्यानि नयदधाच छंकरॊ रथे रथयष्टिं वियत कृष्टां सथापयाम आस गॊवृषम ॥ 78 ॥
बरह्मदण्डः कालदण्डॊ रुद्र दण्डस तथा जवरः परिस्कन्दा रथस्यास्य सर्वतॊदिशम उद्यताः ॥ 79 ॥
अथर्वाङ्गिरसाव आस्तां चक्ररक्षौ महात्मनः ऋग्वेदः सामवेदश च पुराणं च पुरःसराः ॥ 80 ॥
इतिहास यजुर्वेदौ पृष्ठरक्षौ बभूवतुः दिव्या वाचश च विद्याश च परिपार्श्व चराः कृताः ॥ 81 ॥
तॊत्त्रादयश च राजेन्द्र वषट्कारस तथैव च ओंकारश च मुखे राजन्न अतिशॊभा करॊ ऽभवत ॥ 82 ॥
विचित्रम ऋतुभिः षड्भिः कृत्वा संवत्सरं धनुः तस्मान नॄणां कालरात्रिर जया कृता धनुषॊ ऽजरा ॥ 83 ॥
इषुश चाप्य अभवद विष्णुर जवलनः सॊम एव च अग्नी षॊमौ जगत कृत्स्नं वैष्णवं चॊच्यते जगत ॥ 84 ॥
विष्णुश चात्मा भगवतॊ भवस्यामित तेजसः तस्माद धनुर्ज्या संस्पर्शं न विषेहुर हरस्य ते ॥ 85 ॥
तस्मिञ शरे तिग्ममन्युर मुमॊचाविषहं परभुः भृग्वङ्गिरॊ मन्युभवं करॊधाग्निम अतिदुःसहम ॥ 86 ॥
स नीललॊहितॊ धूम्रः कृत्तिवासा भयंकरः आदित्यायुत संकाशस तेजॊ जवालावृतॊ जवलन ॥ 87 ॥
दुश्च्यावश चयावनॊ जेता हन्ता बरह्म दविषां हरः नित्यं तराता च हन्ता च धर्माधर्माश्रिताञ जनान ॥ 88 ॥
परमाथिभिर घॊररूपैर भीमॊदग्रैर गणैर वृतः विभाति भगवान सथाणुस तैर एवात्म गुणैर वृतः ॥ 89 ॥
तस्याङ्गानि समाश्रित्य सथितं विश्वम इदं जगत जङ्गमाजङ्गमं राजञ शुशुभे ऽदभुतदर्शनम ॥ 90 ॥
दृष्ट्वा तु तं रथं दिव्यं कवची स शरासनी बाणम आदत्त तं दिव्यं सॊमविष्ण्व अग्निसंभवम ॥ 91 ॥
तस्य वाजांस ततॊ देवाः कल्पयां चक्रिरे विभॊः पुण्यगन्धवहं राजञ शवसनं राजसत्तम ॥ 92 ॥
तम आस्थाय महादेवस तरासयन दैवतान्य अपि आरुरॊह तदा यत्तः कम्पयन्न इव रॊदसी ॥ 93 ॥
स शॊभमानॊ वरदः खड्गी बाणी शरासनी हसन्न इवारवीद देवॊ सारथिः कॊ भविष्यति ॥ 94 ॥
तम अब्रुवन देवगणा यं भवान संनियॊक्ष्यते स भविष्यति देवेश सारथिस ते न संशयः ॥ 95 ॥
तान अब्रवीत पुनर देवॊ मत्तः शरेष्ठतरॊ हि यः तं सारथिं कुरुध्वं मे सवयं संचिन्त्य माचिरम ॥ 96 ॥
एतच छरुत्वा ततॊ देवा वाक्यम उक्तं महात्मना गत्वा पितामहं देवं परसाद्यैवं वचॊ ऽबरुवन ॥ 97 ॥
देव तवयेदं कथितं तरिदशारिनिबर्हणम तथा च कृतम अस्माभिः परसन्नॊ वृषभध्वजः ॥ 98 ॥
रथश च विहितॊ ऽसमाभिर विचित्रायुध संवृतः सारथिं तु न जानीमः कः सयात तस्मिन रथॊत्तमे ॥ 99 ॥
तस्माद विधीयतां कश चित सारथिर देव सत्तम सफलां तां गिरं देवकर्तुम अर्हसि नॊ विभॊ ॥ 100 ॥
एवम अस्मासु हि पुरा भगवन्न उक्तवान असि हितंकर्तास्मि भवताम इति तत कर्तुम अर्हसि ॥ 101 ॥
स देव युक्तॊ रथसत्तमॊ नॊ; दुरावरॊ दरावणः शात्रवाणाम पिनाक पाणिर विहितॊ ऽतर यॊद्धा; विभीषयन दानवान उद्यतॊ ऽसौ ॥ 102 ॥
तथैव वेदाश चतुरॊ हयाग्र्या; धरा सशैला च रथॊ महात्मन नक्षत्रवंशॊ ऽनुगतॊ वरूथे; यस्मिन यॊद्धा सारथिनाभिरक्ष्यः ॥ 103 ॥
तत्र सारथिर एष्टव्यः सर्वैर एतैर विशेषवान तत परतिष्ठॊ रथॊ देव हया यॊद्धा तथैव च कवचानि च शस्त्राणि कार्मुकं च पितामह ॥ 104 ॥
तवाम ऋते सारथिं तत्र नान्यं पश्यामहे वयम तवं हि सर्वैर गुणैर युक्तॊ देवताभ्यॊ ऽधिकः परभॊ सारथ्ये तूर्णम आरॊह संयच्छ परमान हयान ॥ 105 ॥
इति ते शिरसा नत्वा तरिलॊकेशं पितामहम देवाः परसादयाम आसुः सारथ्यायेति नः शरुतम ॥ 106 ॥
[बरह्मा] नात्र किं चिन मृषा वाक्यं यद उक्तं वॊ दिवौकसः संयच्छामि हयान एष युध्यतॊ वै कपर्दिनः ॥ 107 ॥
ततः स भगवान देवॊ लॊकस्रष्टा पितामहः सारथ्ये कल्पितॊ देवैर ईशानस्य महात्मनः ॥ 108 ॥
तस्मिन्न आरॊहति कषिप्रं सयन्दनं लॊकपूजिते शिरॊभिर अगमंस तूर्णं ते हया वातरंहसः ॥ 109 ॥
महेश्वरे तवारुहति जानुभ्याम अगमन महीम ॥ 110 ॥
अभीशून हि तरिलॊकेशः संगृह्य परपितामहः तान अश्वांश चॊदयाम आस मनॊमारुतरंहसः ॥ 111 ॥
ततॊ ऽधिरूढे वरदे परयाते चासुरान परति साधु साध्व इति विश्वेशः समयमानॊ ऽभयभाषत ॥ 112 ॥
याहि देव यतॊ दैत्याश चॊदयाश्वान अतन्द्रितः पश्य बाह्वॊर बलं मे ऽदय निघ्नतः शात्रवान रणे ॥ 113 ॥
ततस तांश चॊदयाम आस वायुवेगसमाञ्जवे येन तन्त्रिपुरं राजन दैत्यदानवरक्षितम ॥ 114 ॥
अथाधिज्यं धनुः कृत्वा शर्वः संधाय तं शरम युक्त्वा पाशुपतास्त्रेण तरिपुरं समचिन्तयत ॥ 115 ॥
तस्मिन सथिते तदा राजन करुद्धे विधृत कार्मुके पुराणि तानि कालेन जग्मुर एकत्वतां तदा ॥ 116 ॥
एकीभावं गते चैव तरिपुरे समुपागते बभूव तुमुलॊ हर्षॊ दैवतानां महात्मनाम ॥ 117 ॥
ततॊ देवगणाः सर्वे सिद्धाश च परमर्षयः जयेति वाचॊ मुमुचुः संस्तुवन्तॊ मुदान्विताः ॥ 118 ॥
ततॊ ऽगरतॊ परादुरभूत तरिपुरं जघ्नुषॊ ऽसुरान अनिर्देश्यॊग्र वपुषॊ देवस्यासह्य तेजसः ॥ 119 ॥
स तद विकृष्य भगवान दिव्यं लॊकेश्वरॊ धनुः तरैलॊक्यसारं तम इषुं मुमॊच तरिपुरं परति तत सासुरगणं दग्ध्वा पराक्षिपत पश्चिमार्णवे ॥ 120 ॥
एवं तत तरिपुरं दग्धं दानवाश चाप्य अशेषतः महेश्वरेण करुद्धेन तरैलॊक्यस्य हितैषिणा ॥ 121 ॥
स चात्मक्रॊधजॊ वह्निर हाहेत्य उक्त्वा निवारितः मा कार्षीर भस्मसाल लॊकान इति तर्यक्षॊ ऽबरवीच च तम ॥ 122 ॥
ततः परकृतिम आपन्ना देवा लॊकास तथर्षयः तुष्टुवुर वाग्भिर अर्थ्याभिः सथाणुम अप्रतिमौजसम ॥ 123 ॥
ते ऽनुज्ञाता भगवता जग्मुः सर्वे यथागतम कृतकामाः परसन्नेन परजापतिमुखाः सुराः ॥ 124 ॥
यथैव भगवान बरह्मा लॊकधाता पिता महः संयच्छ तवं हयान अस्य राधेयस्य महात्मनः ॥ 125 ॥
तवं हि कृष्णाच च कर्णाच च फल्गुनाच च विशेषतः विशिष्टॊ राजशार्दूल नास्ति तत्र विचारणा ॥ 126 ॥
युद्धे हय अयं रुद्र कल्पस तवं च बरह्म समॊ ऽनघ तस्माच छक्तौ युवां जेतुं मच्छत्रूंस ताव इवासुरान ॥ 127 ॥
यथा शल्याद्य कर्णॊ ऽयं शवेताश्वं कृष्णसारथिम परमथ्य हन्यात कौन्तेयं तथा शीघ्रं विधीयताम तवयि कर्णश च राज्यं च वयं चैव परतिष्ठिताः ॥ 128 ॥
इंमं चाप्य अपरं भूय इतिहासं निबॊध मे पितुर मम सकाशे यं बराह्मणः पराह धर्मवित ॥ 129 ॥
शरुत्वा चैतद वचश चित्रं हेतुकार्यार्थ संहितम कुरु शल्य विनिश्चित्य मा भूद अत्र विचारणा ॥ 130 ॥
भार्गवाणां कुले जातॊ जमद अग्निर महातपाः तस्य रामेति विख्यातः पुत्रस तेजॊ गुणान्वितः ॥ 131 ॥
स तीव्रं तप आस्थाय परसादयितवान भवम अस्त्रहेतॊः परसन्नात्मा नियतः संयतेन्द्रियः ॥ 132 ॥
तस्य तुष्टॊ महादेवॊ भक्त्या च परशमेन च हृद्गतं चास्य विज्ञाय दर्शयाम आस शंकरः ॥ 133 ॥
[इष्वर] राम तुष्टॊ ऽसमि भद्रं ते विदितं मे तवेप्सितम कुरुष्व पूतम आत्मानं सर्वम एतद अवाप्स्यसि ॥ 134 ॥
दास्यामि ते तदास्त्राणि यदा पूतॊ भविष्यसि अपात्रम असमर्थं च दहन्त्य अस्त्राणि भार्गव ॥ 135 ॥
इत्य उक्तॊ जामदग्न्यस तु देवदेवेन शूलिना परत्युवाच महात्मानं शिरसावनतः परभुम ॥ 136 ॥
यदा जानासि देवेश पात्रं माम अस्त्रधारणे तदा शुश्रूषते ऽसत्राणि भवान मे दातुम अर्हति ॥ 137 ॥
[दुर] ततः स तपसा चैव दमेन नियमेन च पूजॊपहार बलिभिर हॊममन्त्रपुरस्कृतैः ॥ 138 ॥
आराधयितवाञ शर्वं बहून वर्षगणांस तदा परसन्नश च महादेवॊ भार्गवस्य महात्मनः ॥ 139 ॥
अब्रवीत तस्य बहुशॊ गुणान देव्याः समीपतः भक्तिमान एष सततं मयि रामॊ दृढव्रतः ॥ 140 ॥
एवं तस्य गुणान परीतॊ बहुशॊ ऽकथयत परभुः देवतानां पितॄणां च समक्षम अरिसूदनः ॥ 141 ॥
एतस्मिन्न एव काले तु दैत्या आसन महाबलाः तैस तदा दर्पमॊहान्धैर अबाध्यन्त दिवौकसः ॥ 142 ॥
ततः संभूय विबुधास तान हन्तुं कृतनिश्चयाः चक्रुः शत्रुवधे यत्नं न शेकुर जेतुम एव ते ॥ 143 ॥
अभिगम्य ततॊ देवा महेश्वरम अथाब्रुवन परसादयन्तस तं भक्त्या जहि शत्रुगणान इति ॥ 144 ॥
परतिज्ञाय ततॊ देवॊ देवतानां रिपुक्षयम रामं भार्गवम आहूय सॊ ऽभयभाषत शंकरः ॥ 145 ॥
रिपून भार्गव देवानां जहि सर्वान समागतान लॊकानां हितकामार्थं मत्प्रीत्यर्थं तथैव च ॥ 146 ॥
[राम] अकृतास्त्रस्य देवेश का शक्तिर मे महेश्वर निहन्तुं दानवान सर्वान कृतास्त्रान युद्धदुर्मदान ॥ 147 ॥
[इष्वर] गच्छ तवं मद अनुध्यानान निहनिष्यसि दानवान विजित्य च रिपून सर्वान गुणान पराप्स्यसि पुष्कलान ॥ 148 ॥
[दुर] एतच छरुत्वा च वचनं परतिगृह्य च सर्वशः रामः कृतस्वस्त्ययनः परययौ दानवान परति ॥ 149 ॥
अवधीद देवशत्रूंस तान मददर्प बलान्वितान वज्राशनिसमस्पर्शैः परहारैर एव भार्गवः ॥ 150 ॥
स दानवैः कषततनुर जामद अग्न्यॊ दविजॊत्तमः संस्पृष्टः सथाणुना सद्यॊ निर्व्रणः समजायत ॥ 151 ॥
परीतश च भगवान देवः कर्मणा तेन तस्य वै वरान परादाद बरह्म विदे भार्गवाय महात्मने ॥ 152 ॥
उक्तश च देवदेवेन परीतियुक्तेन शूलिना निपातात तव शस्त्राणां शरीरे याभवद रुजा ॥ 153 ॥
तया ते मानुषं कर्म वयपॊढं भृगुनन्दन गृहाणास्त्राणि दिव्यानि मत्सकाशाद यथेप्सितम ॥ 154 ॥
ततॊ ऽसत्राणि समस्तानि वरांश च मनसेप्सितान लब्ध्वा बहुविधान रामः परणम्या शिरसा शिवम ॥ 155 ॥
अनुज्ञां पराप्य देवेशाञ जगाम स महातपाः एवम एतत पुरावृत्तं तदा कथितवान ऋषिः ॥ 156 ॥
भार्गवॊ ऽपय अददात सर्वं धनुर्वेदं महात्मने कर्णाय पुरुषव्याघ्र सुप्रीतेनान्तरात्मना ॥ 157 ॥
वृजिनं हि भवेत किं चिद यदि कर्णस्य पार्थिव नास्मै हय अस्त्राणि दिव्यानि परादास्यद भृगुनन्दनः ॥ 158 ॥
नापि सूत कुले जात्म कर्णं मन्ये कथं चन देवपुत्रम अहं मन्ये कषत्रियाणां कुलॊद्भवम ॥ 159 ॥
सकुण्डलं सकवचं दीर्घबाहुं महारथम कथम आदित्यसदृशं मृगी वयाघ्रं जनिष्यति ॥ 160 ॥
पश्य हय अस्य भुजौ पीनौ नागराजकरॊपमौ वक्षः पश्य विशालं च सर्वशत्रुनिबर्हणम ॥ 161 ॥
कर्णपर्व · Karna Parva
अध्याय 24
Reach this point to mark the section finished.
Continue to अध्याय 25