धर्मDharmic Data

कर्णपर्व · Karna Parva

अध्याय 22

  1. [धृ] सवेनच छन्देन नः सर्वान नावधीद वयक्तम अर्जुनः न हय अस्या समरे मुच्येतान्तकॊ ऽपय आततायिनः ॥ 1 ॥

  2. पार्थॊ हय एकॊ ऽहरद भद्राम एकश चाग्निम अतर्पयत एकश चेमां महीं जित्वा चक्रे बलिभृतॊ नृपान ॥ 2 ॥

  3. एकॊ निवातकवचान अवधीद दिव्यकार्मुकः एकः किरात रूपेण सथितं शर्वम अयॊधयत ॥ 3 ॥

  4. एकॊ ऽभयरक्षद भरतान एकॊ भवम अतॊषयत तेनैकेन जिताः सर्वे मदीया उग्रतेजसः ते न निन्द्याः परशस्याश च यत ते चक्रुर बरवीहि तत ॥ 4 ॥

  5. [स] हतप्रहत विध्वस्ता विवर्मायुध वाहनाः दीनस्वरा दूयमाना मानिनः शत्रुभिर जिताः ॥ 5 ॥

  6. शिबिरस्थाः पुनर मन्त्रं मन्त्रयन्ति सम कौरवाः भग्नदंष्ट्रा हतविषाः पदाक्रान्ता इवॊरगाः ॥ 6 ॥

  7. तान अब्रवीत ततः कर्णः करुद्धः सर्प इव शवसन करं करेणाभिपीड्य परेक्षमाणस तवात्मजम ॥ 7 ॥

  8. यत्तॊ दृढश च दक्षश च धृतिमान अर्जुनः सदा स बॊधयति चाप्य एनं पराप्तकालम अधॊक्षजः ॥ 8 ॥

  9. सहस्रास्त्र विसर्गेण वयं तेनाद्य वञ्जिताः शवस तव अहं तस्य संकल्पं सर्वं हन्ता महीपते ॥ 9 ॥

  10. एवम उक्तस तथेत्य उक्त्वा सॊ ऽनुजज्ञे नृपॊत्तमान सुखॊषितास ते रजनीं हृष्टा युद्धाय निर्ययुः ॥ 10 ॥

  11. ते ऽपश्यन विहितं वयूहं धर्मराजेन दुर्जयम परयत्नात कुरुमुख्येन बृहस्पत्युशनॊ मतात ॥ 11 ॥

  12. अथ परतीप कर्तारं सततं विजितात्मनाम सस्मार वृषभस्कन्धं कर्णं दुर्यॊधनस तदा ॥ 12 ॥

  13. पुरंदरसमं युद्धे मरुद्गणसमं बले कार्तवीर्य समं वीर्ये कर्णं राज्ञॊ ऽगमन मनः सूतपुत्रं महेष्वासं बन्धुम आत्ययिकेष्व इव ॥ 13 ॥

  14. [धृ] यद वॊ ऽगमन मनॊ मन्दाः कर्णं वैकर्तनं तदा अप्य अद्राक्षत तं यूयं शीतार्ता इव भास्करम ॥ 14 ॥

  15. कृते ऽवहारे सैन्यानां परवृत्ते च रणे पुनः कथं वैकर्तनः कर्णस तत्रायुध्यत संजय कथं च पाण्डवाः सर्वे युयुधुस तत्र सूतजम ॥ 15 ॥

  16. कर्णॊ हय एकॊ महाबाहुर हन्यात पार्थान ससॊमकान कर्णस्य भुजयॊर वीर्यं शक्र विष्णुसमं मतम तथास्त्राणि सुघॊराणि विक्रमश च महात्मनः ॥ 16 ॥

  17. दुर्यॊधनं तदा दृष्ट्वा पाण्डवेन भृशार्दितम पराक्रान्तान पाण्डुसुतान दृष्ट्वा चापि महाहवे ॥ 17 ॥

  18. कर्णम आश्रित्य संग्रामे दर्पॊ दुर्यॊधने पुनः जेतुम उत्सहते पार्थान सपुत्रान सह केशवान ॥ 18 ॥

  19. अहॊ बत महद दुःखं यत्र पाण्डुसुतान रणे नातरद रभसः कर्णॊ दैवं नूनं परायणम अहॊ दयूतस्य निष्ठेयं घॊरा संप्रति वर्तते ॥ 19 ॥

  20. अहॊ दुःखानि तीव्राणि दुर्यॊधनकृतान्य अहम सहिष्यामि सुघॊराणि शल्य भूतानि संजय ॥ 20 ॥

  21. सौबलं च तथा तात नीतिमान इति मन्यते ॥ 21 ॥

  22. युद्धेषु नाम दिव्येषु वर्तमानेषु संजय अश्रौषं निहतान पुत्रान नित्यम एव च निर्जितान ॥ 22 ॥

  23. न पाण्डवानां समरे कश चिद अस्ति निवारकः सत्रीमध्यम इव गाहन्ति दैवं हि बलवत्तरम ॥ 23 ॥

  24. [स] अतिक्रान्तं हि यत कार्यं पश्चाच चिन्तयतीति च तच चास्य न भवेत कार्यं चिन्तया च विनश्यति ॥ 24 ॥

  25. तद इदं तव कार्यं तु दूरप्राप्तं विजानता न कृतं यत तवया पूर्वं पराप्ताप्राप्त विचारणे ॥ 25 ॥

  26. उक्तॊ ऽसि बहुधा राजन मा युध्यस्वेति पाण्डवैः गृह्णीषे न च तन मॊहात पाण्डवेषु विशां पते ॥ 26 ॥

  27. तवया पापानि घॊराणि समाचीर्णानि पाण्डुषु तवत्कृते वर्तते घॊरः पार्थिवानां जनक्षयः ॥ 27 ॥

  28. तत तव इदानीम अतिक्रम्य मा शुचॊ भरतर्षभ शृणु सर्वं यथावृत्तं घॊरं वैशसम अच्युत ॥ 28 ॥

  29. परभातायां रजन्यां तु कर्णॊ राजानम अभ्ययात समेत्य च महाबाहुर दुर्यॊधनम अभाषत ॥ 29 ॥

  30. अद्य राजन समेष्यामि पाण्डवेन यशस्विना हनिष्यामि च तं वीरं स वा मां निहनिष्यति ॥ 30 ॥

  31. बहुत्वान मम कार्याणां तथा पार्थस्य पार्थिव नाभूत समागमॊ राजन मम चैवार्जुनस्य च ॥ 31 ॥

  32. इदं तु मे यथा परज्ञं शृणु वाक्यं विशां पते अनिहत्य रणे पार्थं नाहम एष्यामि भारत ॥ 32 ॥

  33. हतप्रवीरे सैन्ये ऽसमिन मयि चैव सथिते युधि अभियास्यति मां पार्थः शक्र शक्त्या विनाकृतम ॥ 33 ॥

  34. ततः शरेयः करं यत ते तन निबॊध जनेश्वर आयुधानां च यद वीर्यं दरव्याणाम अर्जुनस्य च ॥ 34 ॥

  35. कायस्य महतॊ भेदे लाघवे दूरपातने सौष्ठवे चास्त्रयॊगे च सव्यसाची न मत्समः ॥ 35 ॥

  36. सर्वायुधमहामात्रं विजयं नाम तद धनुः इन्द्रार्थम अभिकामेन निर्मितं विश्वकर्मणा ॥ 36 ॥

  37. येन दैत्य गणान राजञ जितवान वै शतक्रतुः यस्य घॊषेण दैत्यानां विमुह्यन्ति दिशॊ दश तद भार्गवाय परायच्छच छक्रः परमसंमतम ॥ 37 ॥

  38. तद दिव्यं भार्गवॊ मह्यम अददाद धनुर उत्तमम येन यॊत्स्ये महाबाहुम अर्जुनं जयतां वरम यथेन्द्रः समरे सर्वान दैतेयान वै समागतान ॥ 38 ॥

  39. धनुर घॊरं रामदत्तं गाण्डीवात तद विशिष्यते तरिः सप्तकृत्वः पृथिवी धनुषा तेन निर्जिता ॥ 39 ॥

  40. धनुषॊ यस्य कर्माणि दिव्यानि पराह भार्गवः तद रामॊ हय अददान मह्यं येन यॊत्स्यामि पाण्डवम ॥ 40 ॥

  41. अद्य दुर्यॊधनाहं तवां नन्दयिष्ये सबान्धवम निहत्य समरे वीरम अर्जुनं जयतां वरम ॥ 41 ॥

  42. सपर्वतवनद्वीपा हतद्विड्भिः ससागरा पुत्रपौत्र परतिष्ठा ते भविष्यत्य अद्य पार्थिव ॥ 42 ॥

  43. नासाध्यं विद्यते मे ऽदय तवत्प्रियार्थं विशेषतः सम्यग धर्मानुरक्तस्य सिद्धिर आत्मवतॊ यथा ॥ 43 ॥

  44. न हि मां समरे सॊढुं स शक्तॊ ऽगनिं तरुर यथा अवश्यं तु मया वाच्यं येन हीनॊ ऽसमि फल्गुनात ॥ 44 ॥

  45. जया तस्य धनुषॊ दिव्या तथाक्षय्यौ महेषुधी तस्य दिव्यं धनुःश्रेष्ठं गाण्डीवम अजरं युधि ॥ 45 ॥

  46. विजयं च महद दिव्यं ममापि धनुर उत्तमम तत्राहम अधिकः पार्थाद धनुषा तेन पार्थिव ॥ 46 ॥

  47. मया चाभ्यधिकॊ वीरः पाण्डवस तन निबॊध मे रश्मिग्राहश च दाशार्हः सर्वलॊकनमस्कृतः ॥ 47 ॥

  48. अग्निदत्तश च वै दिव्यॊ रथः काञ्चनभूषणः अच्छेद्यः सर्वतॊ वीर वाजिनश च मनॊजवाः धवजश च दिव्यॊ दयुतिमान वानरॊ विस्मयं करः ॥ 48 ॥

  49. कृष्णश च सरष्टा जगतॊ रथं तम अभिरक्षति एभिर दरव्यैर अहं हीनॊ यॊद्धुम इच्छामि पाण्डवम ॥ 49 ॥

  50. अयं तु सदृशॊ वीरः शल्यः समितिशॊभनः सारथ्यं यदि मे कुर्याद धरुवस ते विजयॊ भवेत ॥ 50 ॥

  51. तस्य मे सारथिः शल्यॊ भवत्व असु करः परैः नाराचान गार्ध्रपत्रांश च शकटानि वहन्तु मे ॥ 51 ॥

  52. रथाश च मुख्या राजेन्द्र युक्ता वाजिभिर उत्तमैः आयान्तु पश्चात सततं माम एव भरतर्षभ ॥ 52 ॥

  53. एवम अभ्यधिकः पार्थाद भविष्यामि गुणैर अहम शल्यॊ हय अभ्यधिकः कृष्णाद अर्जुनाद अधिकॊ हय अहम ॥ 53 ॥

  54. यथाश्वहृदयं वेद दाशार्हः परवीरहा तथा शल्यॊ ऽपि जानीते हयानां वै महारथः ॥ 54 ॥

  55. बाहुवीर्ये समॊ नास्ति मद्रराजस्य कश चन तथास्त्रैर मत्समॊ नास्ति कश चिद एव धनुर्धरः ॥ 55 ॥

  56. तथा शल्य समॊ नास्ति हययाने ह कश चन सॊ ऽयम अभ्यधिकः पार्थाद भविष्यति रथॊ मम ॥ 56 ॥

  57. एतत कृतं महाराज तवयेच्छामि परंतप एवं कृते कृतं मह्यं सर्वकामैर भविष्यति ॥ 57 ॥

  58. ततॊ दरष्टासि समरे यत करिष्यामि भारत सर्वथा पाण्डवान सर्वाञ जेष्याम्य अद्य समागतान ॥ 58 ॥

  59. [दुर] सर्वम एतत करिष्यामि यथा तवं कर्ण मन्यसे सॊपासङ्गा रथाः साश्वा अनुयास्यन्ति सूतज ॥ 59 ॥

  60. नाराचान गार्ध्रपक्षांश च शकटानि वहन्तु ते अनुयास्याम कर्ण तवां वयं सर्वे च पार्थिवाः ॥ 60 ॥

  61. [स] एवम उक्त्वा महाराज तव पुत्राः परतापवान अभिगम्याब्रवीद राजा मद्रराजम इदं वचः ॥ 61 ॥

Reach this point to mark the section finished.

Continue to अध्याय 23

Previous: अध्याय 21