धर्मDharmic Data

कर्णपर्व · Karna Parva

अध्याय 21

  1. [स] ततः कर्णं पुरस्कृत्य तवदीया युद्धदुर्मदाः पुनर आवृत्य संग्रामं चक्रुर देवासुरॊपमम ॥ 1 ॥

  2. दविरदरथनराश्वशङ्खशब्दैः; परिहृषिता विविधैश च शस्त्रपातैः दविरदरथपदातिसार्थवाहाः; परिपतिताभिमुखाः परजह्रिरे ते ॥ 2 ॥

  3. शरपरशु वरासि पट्टिशैर; इषुभिर अनेकविधैश च सादिताः दविरदरथहया महाहवे; वरपुरुषैः पुरुषाश च वाहनैः ॥ 3 ॥

  4. कमलदिनकरेन्दु संनिभैः; सितदशनैः सुमुखाक्षि नासिकैः रुचिरमुकुट कुण्डलैर मही; पुरुषशिरॊभिर अवस्तृता बभौ ॥ 4 ॥

  5. परिघमुसल शक्तितॊमरैर; नखरभुशुण्डि गदा शतैर दरुताः दविरदनरहयाः सहस्रशॊ; रुधिरनदी परवहास तदाब्भवन ॥ 5 ॥

  6. परहत नररथाश्वकुञ्जरं; परतिभय दर्शनम उल्बणं तदा तद अहितनिहतं बभौ बलं; पितृपरिराष्ट्रम इव परजा कषये ॥ 6 ॥

  7. अथ तव नरदेव सैनिकास; तव च सुताः सुरसूनु संनिभाः अमितबलपुरःसरा रणे; कुरु वृषभाः शिनिपुत्रम अभ्ययुः ॥ 7 ॥

  8. तद अतिरुचिर भीमम आबभौ; पुरुषवराश्वरथद्विपाकुलम लवणजलसमुद्धत सवनं; बलम अमरासुरसैन्यसंनिभम ॥ 8 ॥

  9. सुरपतिसमविक्रमस ततस; तरिदशवरावरजॊपमं युधि दिनकरकिरण परभैः पृषत्कैर; अवितनयॊ ऽभयहनच छिनि परवीरम ॥ 9 ॥

  10. तम अपि सरथ वाजिसारथिं; शिनिवृषभॊ विविधैः शरैस तवरन भुजग विषसमप्रभै रणे; पुरुषवरं समवास्तृणॊत तदा ॥ 10 ॥

  11. शिनिवृषभ शरप्रपीडित्तं; तव सुहृदॊ वसुषेणम अभ्ययुः तवरितम अतिरथा रथर्षभं; दविरदरथाश्वपदातिभिः सह ॥ 11 ॥

  12. तम उदधि निभम आद्रवद बली; तवरिततरैः समभिद्रुतं परैः दरुपद सुत सखस तदाकरॊत; पुरुषरथाश्वगजक्षयं महत ॥ 12 ॥

  13. अथ पुरुषवरौ कृताह्निकौ; भवम अभिपूज्य यथाविधि परभुम अरिवध कृतनिश्चयौ दरुतं; तव बलम अर्जुन केशवौ सृतौ ॥ 13 ॥

  14. जलदनिनदनिस्वनं रथं; पवनविधूतपताक केतनम सितहयम उपयान्तम अन्तिकं; हृतमनसॊ ददृशुस तदारयः ॥ 14 ॥

  15. अथ विस्फार्य गाण्डीवं रणे नृत्यन्न इवार्जुनः शरसंबाधम अकरॊत खं दिशः परदिशस तथा ॥ 15 ॥

  16. रथान विमानप्रतिमान सज्जयन्त्रायुध धवजान ससारथींस तदा बाणैर अभ्राणीवानिलॊ ऽवधीत ॥ 16 ॥

  17. गजान गजप्रयन्तॄंश च वैजयन्त्य अयुध धवजान सादिनॊ ऽशवांश च पत्तींश च शरैर निन्ये यमक्षयम ॥ 17 ॥

  18. तम अन्तकम इव करुद्धम अनिवार्यं महारथम दुर्यॊधनॊ ऽभययाद एकॊ निघ्नन बाणैः पृथग्विधैः ॥ 18 ॥

  19. तस्यार्जुनॊ धनुः सूतं केतुम अश्वांश च सायकैः हत्वा सप्तभिर एकैकं छत्रं चिच्छेद पत्रिणा ॥ 19 ॥

  20. नवमं च समासाद्य वयजृजत परतिघातिनम दुर्यॊधनायेषु वरं तं दरौणिः सप्तधाच्छिनत ॥ 20 ॥

  21. ततॊ दरौणेर धनुश छित्त्वा हत्वा चाश्ववराञ शरैः कृपस्यापि तथात्युग्रं धनुश चिच्छेद पाण्डवः ॥ 21 ॥

  22. हार्दिक्यस्य धनुश छित्त्वा धवजं चाश्वं तथावधीत दुःशासनस्येषु वरं छित्त्वा राधेयम अभ्ययात ॥ 22 ॥

  23. अथ सात्यकिम उत्सृज्य तवरन कर्णॊ ऽरजुनं तरिभिः विद्ध्वा विव्याध विंशत्या कृष्णं पार्थं पुनस तरिभिः ॥ 23 ॥

  24. अथ सात्यकिर आगत्य कर्णं विद्ध्वा शितैः शरैः नवत्या नवभिश चॊग्रैः शतेन पुनर आर्दयत ॥ 24 ॥

  25. ततः परवीराः पाण्डूनां सर्वे कर्णम अपीडयन युधामन्युः शिखण्डी च दरौपदेयाः परभद्रकाः ॥ 25 ॥

  26. उत्तमौजा युयुत्सुश च यमौ पार्षत एव च चेदिकारूष मत्स्यानां केकयानां च यद बलम चेकितानश च बलवान धर्मराजश च सुव्रतः ॥ 26 ॥

  27. एते रथाश्वद्विरदैः पत्तिभिश चॊग्रविक्रमैः परिवार्य रणे कर्णं नानाशस्त्रैर अवाकिरन भाषन्तॊ वाग्भिर उग्राभिः सर्वे कर्णवधे वृताः ॥ 27 ॥

  28. तां शस्त्रवृष्टिं बहुधा छित्त्वा कर्णः शितैः शरैः अपॊवाह सम तान सर्वान दरुमान भङ्क्त्वेव मारुतः ॥ 28 ॥

  29. रथिनः समहा मात्रान गजान अश्वान ससादिनः शरव्रातांश च संक्रुद्धॊ निघ्नन कर्णॊ वयदृश्यत ॥ 29 ॥

  30. तद वध्यमानं पाण्डूनां बलं कर्णास्त्र तेजसा विशस्त्र कषतदेहं च पराय आसीत पराङ्मुखम ॥ 30 ॥

  31. अथ कर्णास्त्रम अस्त्रेण परतिहत्यार्जुनः सवयम दिशः खं चैव भूमिं च परावृणॊच छरवृष्टिभिः ॥ 31 ॥

  32. मुसलानीव निष्पेतुः परिघा इव चेषवः शतघ्न्य इव चाप्य अन्ये वज्राण्य उग्राणि वापरे ॥ 32 ॥

  33. तैर वध्यमानं तत सैन्यं सपत्त्यश्वरथद्विपम निमीलिताक्षम अत्यर्थम उदभ्राम्यत समन्ततः ॥ 33 ॥

  34. निष्कैवल्यं तदा युद्धं परापुर अश्वनरद्विपाः वध्यमानाः शरैर अन्ये तदा भीताः परदुद्रुवुः ॥ 34 ॥

  35. एवं तेषां तदा युद्धे संसक्तानां जयैषिणाम गिरिमस्तं समासाद्य परत्यपद्यत भानुमान ॥ 35 ॥

  36. तमसा च महाराज रजसा च विशेषतः न किं चित परत्यपश्याम शुभं वा यदि वाशुभम ॥ 36 ॥

  37. ते तरसन्तॊ महेष्वासा रात्रियुद्धस्य भारत अपयानं ततश चक्रुः सहिताः सर्ववाजिभिः ॥ 37 ॥

  38. कौरवेषु च यातेषु तदा राजन दिनक्षये जयं सुमनसः पराप्य पार्थाः सवशिबिरं ययुः ॥ 38 ॥

  39. वादित्रशब्दैर विविधैः सिंहनादैश च नर्तितैः परान अवहसन्तश च सतुवन्तश चाच्युतार्जुनौ ॥ 39 ॥

  40. कृते ऽवहारे तैर वीरैः सैनिकाः सर्व एव ते आशिषः पाण्डवेयेषु परायुज्यन्त नरेश्वराः ॥ 40 ॥

  41. ततः कृते ऽवहारे च परहृष्टाः कुरुपाण्डवाः निशायां शिबिरं गत्वा नयविशन्त नरेश्वराः ॥ 41 ॥

  42. यक्षरक्षःपिशाचाश च शवापदानि च संघशः जग्मुर आयॊधनं घॊरं रुद्रस्यानर्तनॊपमम ॥ 42 ॥

Reach this point to mark the section finished.

Continue to अध्याय 22

Previous: अध्याय 20