[धृ] अतितीव्राणि दुःखानि दुःसहानि बहूनि च तवाहं संजयाश्रौषं पुत्राणां मम संक्षयम ॥ 1 ॥
तथा तु मे कथयसे यथा युद्धं तु वर्तते न सन्ति सूत कौरव्या इति मे नैष्ठिकी मतिः ॥ 2 ॥
दुर्यॊधनस तु विरथः कृतस तत्र महारणे धर्मपुत्रः कथं चक्रे तस्मिन वा नृपतिः कथम ॥ 3 ॥
अपराह्णे कथं युद्धम अभवल लॊम हार्षणम तन ममाचक्ष्व तत्त्वेन कुशलॊ हय असि संजय ॥ 4 ॥
[स] संसक्तेषु च सैन्येषु युध्यमानेषु भागशः रथम अन्यं समास्थाय पुत्रस तव विशां पते ॥ 5 ॥
करॊधेन महताविष्टः सविषॊ भुजगॊ यथा दुर्यॊधनस तु दृष्ट्वा वै धर्मराजं युधिष्ठिरम उवाच सूत तवरितं याहि याहीति भारत ॥ 6 ॥
अत्र मां परापय कषिप्रं सारथे यत्र पाण्डवः धरियमाणेन छत्रेण राजा राजति दंशितः ॥ 7 ॥
ससूतश चॊदितॊ राज्ञा राज्ञः सयन्दनम उत्तमम युधिष्ठिरस्याभिमुखं परेषयाम आस संयुगे ॥ 8 ॥
ततॊ युधिष्ठिरः करुद्धः परमत्त इव सद गवः सारथिं चॊदयाम आस याहि यत्र सुयॊधनः ॥ 9 ॥
तौ समाजग्मतुर वीरौ भरातरौ रथसात्तमौ समेत्य च महावीर्यौ संनद्धौ युद्धदुर्मदौ ततक्षतुर महेष्वासौ शरैर अन्यॊन्यम आहवे ॥ 10 ॥
ततॊ दुर्यॊधनॊ राजा धर्मशीलस्य मारिष शिलाशितेन भल्लेन धनुश चिच्छेद संयुगे तं नामृष्यत संक्रुद्धॊ वयवसायं युधिष्ठिरः ॥ 11 ॥
अपविध्य धनुश छिन्नं करॊधसंरक्तलॊचनः अन्यत कार्मुकम आदाय धर्मपुत्रश चमूमुखे ॥ 12 ॥
दुर्यॊधनस्य चिच्छेद धवजं कार्मुकम एव च अथान्यद धनुर आदाय परत्यविध्यत पाण्डवम ॥ 13 ॥
ताव अन्यॊन्यं सुसंरब्धौ शरवर्षाण्य अमुञ्चताम सिंहाव इव सुसंक्रुद्धौ परस्परजिगीषया ॥ 14 ॥
अन्यॊन्यं जघ्नतुश चैव नर्दमानौ वृषाव इव अन्यॊन्यं परेक्षमाणौ च चेरतुस तौ महारथौ ॥ 15 ॥
ततः पूर्णायतॊत्सृष्टैर अन्यॊन्यं सुकृतव्रणौ विरेजतुर महाराज पुष्टिताव इव किंशुकौ ॥ 16 ॥
ततॊ राजन परतिभयान सिंहनादान मुहुर मुहुः तलयॊश च तथा शब्दान धनुषॊश च महाहवे ॥ 17 ॥
शङ्खशब्दरवांश चैव चक्रतुस तौ रथॊत्तमौ अन्यॊन्यं च महाराज पीडयां चक्रतुर भृशम ॥ 18 ॥
ततॊ युधिष्ठिरॊ राजा तव पुत्रं तरिभिः शरैः आजघानॊरसि करुद्धॊ वज्रवेगॊ दुरासदः ॥ 19 ॥
परतिविव्याध तं तूर्णं तव पुत्रॊ महीपतिम पञ्चभिर निशितैर बाणैर हेमपुङ्खैः शिलाशितैः ॥ 20 ॥
ततॊ दुर्यॊधनॊ राजा शक्तिं चिक्षेप भारत सर्वपारशवीं तीक्ष्णां महॊल्का परतिमां तदा ॥ 21 ॥
ताम आपतन्तीं सहसा धर्मराजः शिलाशितैः तरिभिश चिच्छेद सहसा तं च विव्याध सप्तभिः ॥ 22 ॥
निपपात ततः साथ हेमदण्डा महाघना निपतन्ती महॊल्केव वयराजच छिखि संनिभा ॥ 23 ॥
शक्तिं विनिहतां दृष्ट्वा पुत्रस तव विशां पते नवभिर निशितैर भल्लैर निजघान युधिष्ठिरम ॥ 24 ॥
सॊ ऽतिविद्धॊ बलवताम अग्रणीः शत्रुतापनः दुर्यॊधनं समुद्दिश्य बाणं जग्राह सत्वरः ॥ 25 ॥
समाधत्त च तं बाणं धनुष्य उग्रं महाबलः चिक्षेप च ततॊ राजा राज्ञः करुद्धः पराक्रमी ॥ 26 ॥
स तु बाणः समासाद्य तव पुत्रं महारथम वयमॊहयत राजानं धरणीं च जगाम ह ॥ 27 ॥
ततॊ दुर्यॊधनः करुद्धॊ गदाम उद्यम्य वेगितः विधित्सुः कलहस्यान्तम अभिदुद्राव पाण्डवम ॥ 28 ॥
तम आलक्ष्यॊद्यत गदं दण्डहस्तम इवान्तकम धर्मराजॊ महाशक्तिं पराहिणॊत तव सूनवे दीप्यमानां महावेगां महॊल्कां जवलिताम इव ॥ 29 ॥
रथस्थः स तया विद्धॊ वर्म भित्त्वा महाहवे भृशं संविग्नहृदयः पपात च मुमॊह च ॥ 30 ॥
ततस तवरितम आगत्य कृतवर्मा तवात्मजम परत्यपद्यत राजानं मग्नं वै वयसनार्णवे ॥ 31 ॥
भीमॊ ऽपि महतीं गृह्य गदां हेमपरिष्कृताम अभिदुद्राव वेगेन कृतवर्माणम आहवे एवं तद अभवद युद्धं तवदीयानां परैः सह ॥ 32 ॥
कर्णपर्व · Karna Parva
अध्याय 20
Reach this point to mark the section finished.
Continue to अध्याय 21