[स] शवेताश्वॊ ऽपि महाराज वयधमत तावकं बलम यथा वायुः समासाद्य तूला राशिं समन्ततः ॥ 1 ॥
परत्युद्ययुस तरिगर्तास तं शिबयः कौरवैः सह शाल्वाः संशप्तकाश चैव नारायण बलं च यत ॥ 2 ॥
सत्यसेनः सत्यकीर्तिर मित्र देवः शरुतं जयः सौश्रुतिश चित्रसेनश च मित्र वर्मा च भारत ॥ 3 ॥
तरिगर्तराजः समरे भरातृभिः परिवारितः पुत्रैश चैव महेष्वासैर नानाशस्त्रधरैर युधि ॥ 4 ॥
ते सृजन्तः शरव्रातान किरन्तॊ ऽरजुनम आहवे अभ्यद्रवन्त समरे वार्यॊघा इव सागरम ॥ 5 ॥
ते तव अर्जुनं समासाद्य यॊधाः शतसहस्रशः अगच्छन विलयं सर्वे तार्क्ष्यं दृष्ट्वेव पन्नगाः ॥ 6 ॥
ते वध्यमानाः समरे नाजहुः पाण्डवं तदा दह्यमाना यथा राजञ शलभा इव पावकम ॥ 7 ॥
सत्यसेनस तरिभिर बाणैर विव्याध युधि पाण्डवम मित्र देवस तरिषष्ट्या च चन्द्र देवश च सप्तभिः ॥ 8 ॥
मित्र वर्मा तरिसप्तत्या सौश्रुतिश चापि पञ्चभिः शत्रुंजयश च विंशत्या सुशर्मा नवभिः शरैः ॥ 9 ॥
शत्रुंजयं च राजानं हत्वा तत्र शिलाशितैः सौश्रुतेः सशिरस्त्राणं शिरः कायाद अपाहरत तवरितश चन्द्र देवं च शरैर निन्ये यमक्षयम ॥ 10 ॥
अथेतरान महाराज यतमानान महारथान पञ्चभिः पञ्चभिर बाणैर एकैकं परत्यवारयत ॥ 11 ॥
सत्यसेनस तु संक्रुद्धस तॊमरं वयसृजन महत समुद्दिश्य रणे कृष्णं सिंहनादं ननाद च ॥ 12 ॥
स निर्भिद्य भुजं सव्यं माधवस्य महात्मनः अयॊ मयॊ महाचण्डॊ जगाम धरणीं तदा ॥ 13 ॥
माधवस्य तु विद्धस्य तॊमरेण महारणे परतॊदः परापतद धस्ताद रश्मयश च विशां पते ॥ 14 ॥
स परतॊदं पुनर गृह्य रश्मींश चैव महायशाः वाहयाम आस तान अश्वान सत्यसेनरथं परति ॥ 15 ॥
विष्वक्सेनं तु निर्भिन्नं परेक्ष्य पार्थॊ धनंजयः सत्यसेनं शरैस तीक्ष्णैर दारयित्वा महाबलः ॥ 16 ॥
ततः सुनिशितैर बाणै राज्ञस तस्य महच छिरः कुण्डलॊपचितं कायाच चकर्त पृतनान्तरे ॥ 17 ॥
तं निहत्य शितैर बाणैर मित्र वर्माणम आक्षिपत वत्सदन्तेन तीक्ष्णेन सारथिं चास्य मारिष ॥ 18 ॥
ततः शरशतैर भूयः संशप्तक गणान वशी पातयाम आस संक्रुद्धः शतशॊ ऽथ सहस्रशः ॥ 19 ॥
ततॊ रजतपुङ्खेन राज्ञः शीर्षं महात्मनः मित्र देवस्य चिच्छेद कषुरप्रेण महायशाः सुशर्माणं च संक्रुद्धॊ जत्रु देशे समार्दयत ॥ 20 ॥
ततः संशप्तकाः सर्वे परिवार्य धनंजयम शस्त्रौघैर ममृदुः करुद्धा नादयन्तॊ दिशॊ दश ॥ 21 ॥
अभ्यर्दितस तु तैर जिष्णुः शक्रतुल्यपराक्रमः ऐन्द्रम अस्त्रम अमेयात्मा परादुश्चक्रे महारथः ततः शरसहस्राणि परादुरासन विशां पते ॥ 22 ॥
धवजानां छिद्यमानानां कार्मुकाणां च संयुगे रथानां सपताकानां तूणीराणां शरैः सह ॥ 23 ॥
अक्षाणाम अथ यॊक्त्राणां चक्राणां रश्मिभिः सह कूबराणां वरूथानां पृषत्कानां च संयुगे ॥ 24 ॥
अश्मनां पततां चैव परासानाम ऋष्टिभिः सह गदानां परिघाणां च शक्तीनां तॊमरैः सह ॥ 25 ॥
शतघ्नीनां सचक्राणां भुजानाम ऊरुभिः सह कण्ठसूत्राङ्गदानां च केयूराणां च मारिष ॥ 26 ॥
हराणाम अथ निष्काणां तनुत्राणां च भारत छत्राणां वयजनानां च शिरसां मुकुटैः सह अश्रूयत महाञ शब्दस तत्र तत्र विशां पते ॥ 27 ॥
सकुण्डलानि सवक्षीणि पूर्णचन्द्र निभानि च शिरांस्य उर्व्याम अदृश्यन्त तारागण इवाम्बरे ॥ 28 ॥
सुस्रग्वीणि सुवासांसि चन्दनेनॊक्षितानि च शरीराणि वयदृश्यन्त हतानां च महीतले गन्धर्वनगराकारं घॊरम आयॊधनं तदा ॥ 29 ॥
निहतै राजपुत्रैश च कषत्रियैश च महाबलैः हस्तिभिः पतितैश चैव तुरगैश चाभवन मही अगम्यमार्गा समरे विशीर्णैर इव पर्वतैः ॥ 30 ॥
नासीच चक्रपथश चैव पाण्डवस्य महात्मनः निघ्नतः शात्रवान भल्लैर हस्त्यश्वं चामितम महत ॥ 31 ॥
आ तुम्बाद अवसीदन्ति रथचक्राणि मारिष रणे विचरतस तस्य तस्मिँल लॊहितकर्दमे ॥ 32 ॥
सीदमानानि चक्राणि समूहुस तुरगा भृशम शरमेण महता युक्ता मनॊमारुतरंहसः ॥ 33 ॥
वध्यमानं तु तत सैन्यं पाण्डुपुत्रेण धन्विना परायशॊ विमुखं सर्वं नावतिष्ठत संयुगे ॥ 34 ॥
ताञ जित्वा समरे जिष्णुः संशप्तक गणान बहून रराज स महाराज विधूमॊ ऽगनिर इव जवलन ॥ 35 ॥
युधिष्ठिरं महाराज विसृजन्तं शरान बहून सवयं दुर्यॊधनॊ राजा परत्यगृह्णाद अभीतवत ॥ 36 ॥
तम आपतन्तं सहसा तव पुत्रं महाबलम धर्मराजॊ दरुतं विद्ध्वा तिष्ठ तिष्ठेति चाब्रवीत ॥ 37 ॥
सा च तं परतिविव्याध नवभिर निशितैः शरैः सारथिं चास्य भल्लेन भृशं करुद्धॊ ऽभयताडयत ॥ 38 ॥
ततॊ युधिष्ठिरॊ राजा हेमपुङ्खाञ शिलीमुखान दुर्यॊधनाय चिक्षेप तरयॊदश शिलाशितान ॥ 39 ॥
चतुर्भिश चतुरॊ वाहांस तस्य हत्वा महारथः पञ्चमेन शिरः कायात सारथेस तु समाक्षिपत ॥ 40 ॥
षष्ठेन च धवजं राज्ञः सप्तमेन च कार्मुकम अष्टमेन तथा खड्गं पातयाम आस भूतले पञ्चभिर नृपतिं चापि धर्मराजॊ ऽरदयद भृशम ॥ 41 ॥
हताश्वात तु रथात तस्माद अवप्लुत्य सुतस तव उत्तमं वयसनं पराप्तॊ भूमाव एव वयतिष्ठत ॥ 42 ॥
तं तु कृच्छ्रगतं दृष्ट्वा कर्ण दरौणिकृपादयः अभ्यवर्तन्त सहिताः परीप्सन्तॊ नराधिपम ॥ 43 ॥
अथ पाण्डुसुताः सर्वे परिवार्य युधिष्ठिरम अभ्ययुः समरे राजंस ततॊ युद्धम अवर्तत ॥ 44 ॥
अथ तूर्यसहस्राणि परावाद्यन्त महामृधे कष्वेडाः किललिला शब्दाः परादुरासन महीपते यद अभ्यगच्छन समरे पाञ्चालाः कौरवैः सह ॥ 45 ॥
नरा नरैः समाजग्मुर वारणा वरवारणैः रथाश च रथिभिः सार्धं हयाश च हयसादिभिः ॥ 46 ॥
दवंद्वान्य आसन महाराज परेक्षणीयानि संयुगे विस्मापनान्य अचिन्त्यानि शस्त्रवन्त्य उत्तमानि च ॥ 47 ॥
अयुध्यन्त महावेगाः परस्परवधैषिणः अन्यॊन्यं समरे जघ्नुर यॊधव्रतम अनुष्ठिताः न हि ते समरं चक्रुः पृष्ठतॊ वै कथं चन ॥ 48 ॥
मुहूर्तम एव तद युद्धम आसीन मधुरदर्शनम तत उन्मत्तवद राजन निर्मर्यादम अवर्तत ॥ 49 ॥
रथी नागं समासाद्य विचरन रणमूर्धनि परेषयाम आस कालाय शरैः संनतपर्वभिः ॥ 50 ॥
नागा हयान समासाद्य विक्षिपन्तॊ बहून अथ दरावयाम आसुर अत्युग्रास तत्र तत्र तदा तदा ॥ 51 ॥
विद्राव्य च बहून अश्वान नागा राजन बलॊत्कटाः विषाणैश चापरे जघ्नुर ममृदुश चापरे भृशम ॥ 52 ॥
साश्वारॊहांश च तुरगान विषाणैर बिभिदू रणे अपरांश चिक्षिपुर वेगात परगृह्यातिबलास तथा ॥ 53 ॥
पादातैर आहता नागा विवरेषु समन्ततः चक्रुर आर्तस्वरं घॊरं वयद्रवन्त दिशॊ दश ॥ 54 ॥
पदातीनां तु सहसा परद्रुतानां महामृधे उत्सृज्याभरणं तूर्णम अवप्लुत्य रणाजिरे ॥ 55 ॥
निमित्तं मन्यमानास तु परिणम्य महागजाः जगृहुर बिभिदुश चैव चित्राण्य आभरणानि च ॥ 56 ॥
परतिमानेषु कुम्भेषु दन्तवेष्टेषु चापरे निगृहीता भृशं नागाः परासतॊमर शक्तिभिः ॥ 57 ॥
निगृह्य च गदाः के चित पार्श्वस्थैर भृशदारुणैः रथाश्वसादिभिस तत्र संभिन्ना नयपतन भुवि ॥ 58 ॥
सरथं सादिनं तत्र अपरे तु महागजाः भूमाव अमृद्नन वेगेन सवर्माणं पताकिनम ॥ 59 ॥
रथं नागाः समासाद्य धुरि गृह्य च मारिष वयाक्षिपन सहसा तत्र घॊररूपे महामृधे ॥ 60 ॥
नाराचैर निहतश चापि निपपात महागजः पर्वतस्येव शिखरं वज्रभग्नं महीतले ॥ 61 ॥
यॊधा यॊधान समासाद्य मुष्टिभिर वयहनन युधि केशेष्व अन्यॊन्यम आक्षिप्य चिच्छिदुर बिभिदुः सह ॥ 62 ॥
उद्यम्य च भुजाव अन्यॊ निक्षिप्य च महीतले पदा चॊरः समाक्रम्य सफुरतॊ वयहनच छिरः ॥ 63 ॥
मृतम अन्यॊ महाराज पद्भ्यां ताडितवांस तदा जीवतश च तथैवान्यः शस्त्रं काये नयमज्जयत ॥ 64 ॥
मुष्टियुद्धं महच चासीद यॊधानां तत्र भारत तथा केशग्रहश चॊग्रॊ बाहुयुद्धं च केवलम ॥ 65 ॥
समासक्तस्य चान्येन अविज्ञातस तथापरः जहार समरे पराणान नानाशस्त्रैर अनेकधा ॥ 66 ॥
संसक्तेषु च यॊधेषु वर्तमाने च संकुले कबन्धान्य उत्थितानि सम शतशॊ ऽथ सहस्रशः ॥ 67 ॥
लॊहितैः सिच्यमानानि शस्त्राणि कवचानि च महारङ्गानुरक्तानि वस्त्राणीव चकाशिरे ॥ 68 ॥
एवम एतन महायुद्धं दारुणं भृशसंकुलम उन्मत्तरङ्गप्रतिमं शब्देनापूरयज जगत ॥ 69 ॥
नैव सवे न परे राजन विज्ञायन्ते शरातुराः यॊद्धव्यम इति युध्यन्ते राजानॊ जय गृद्धिनः ॥ 70 ॥
सवान सवे जघ्नुर महाराज परांश चैव समागतान उभयॊः सेनयॊर वीरैर वयाकुलं समपद्यत ॥ 71 ॥
रथैर भग्नैर महाराज वारणैश च निपातितैः हयैश च पतितैस तत्र नरैश च विनिपातितैः ॥ 72 ॥
अगम्यरूपा पृथिवी मांसशॊणितकर्दमा कषणेनासीन महाराज कषतजौघप्रवर्तिनी ॥ 73 ॥
पाञ्चालान अवधीत कर्णस तरिगर्तांश च धनंजयः भीमसेनः कुरून राजन हस्त्यनीकं च सर्वशः ॥ 74 ॥
एवम एष कषयॊ वृत्तः कुरुपाण्डवसेनयॊः अपराह्णे महाराज काङ्क्षन्त्यॊर विपुलं जयम ॥ 75 ॥
कर्णपर्व · Karna Parva
अध्याय 19
Reach this point to mark the section finished.
Continue to अध्याय 20