धर्मDharmic Data

कर्णपर्व · Karna Parva

अध्याय 1

  1. [व] ततॊ दरॊणे हते राजन दुर्यॊधनमुखा नृपाः भृशम उद्विग्नमनसॊ दरॊणपुत्रम उपागमन ॥ 1 ॥

  2. ते दरॊणम उपशॊचन्तः कश्मलाभिहतौजसः पर्युपासन्त शॊकार्तास ततः शारद्वती सुतम ॥ 2 ॥

  3. मुहूर्तं ते समाश्वास्य हेतुभिः शास्त्रसंमितैः रात्र्यागमे महीपालाः सवानि वेश्मानि भेजिरे ॥ 3 ॥

  4. विशेषतः सूतपुत्रॊ राजा चैव सुयॊधनः दुःशासनॊ ऽथ शकुनिर न निद्राम उपलेभिरे ॥ 4 ॥

  5. ते वेश्मस्व अपि कौरव्य पृथ्वीशा नाप्नुवन सुखम चिन्तयन्तः कषयं तीव्रं निद्रां नैवॊपलेभिरे ॥ 5 ॥

  6. सहितास ते निशायां तु दुर्यॊधन निवेशने अतिप्रचण्डाद विद्वेषात पाण्डवानां महात्मनाम ॥ 6 ॥

  7. यत तद दयूतपरिक्लिष्टां कृष्णाम आनिन्यिरे सभाम तत समरन्तॊ ऽनवतप्यन्त भृशम उद्विग्नचेतसः ॥ 7 ॥

  8. चिन्तयन्तश च पार्थानां तान कलेशान दयूतकारितान कृच्छ्रेण कषणदां राजन निन्युर अब्द शतॊपमाम ॥ 8 ॥

  9. ततः परभाते विमले सथिता दिष्टस्य शासने चक्रुर आवश्यकं सर्वे विधिदृष्टेन कर्मणा ॥ 9 ॥

  10. ते कृत्वावश्य कार्याणि समाश्वस्य च भारत यॊगम आज्ञापयाम आसुर युद्धाय च विनिर्ययुः ॥ 10 ॥

  11. कर्णं सेनापतिं कृत्वा कृतकौतुक मङ्गलाः वाचयित्वा दविजश्रेष्ठान दधि पात्रघृताक्षतैः ॥ 11 ॥

  12. निष्कैर गॊभिर हिरण्येन वासॊभिश च महाधनैः वर्ध्यमाना जयाशीर्भिः सूतमागधबन्दिभिः ॥ 12 ॥

  13. तथैव पाण्डवा राजन कृतसर्वाह्णिक करियाः शिबिरान निर्ययू राजन युद्धाय कृतनिश्चयाः ॥ 13 ॥

  14. ततः परववृते युद्धं तुमुलं रॊमहर्षणम कुरूणां पाण्डवानां च परस्परवधैषिणाम ॥ 14 ॥

  15. तयॊर दवे दिवसे युद्धं कुरुपाण्डवसेनयॊः कर्णे सेनापतौ राजन्न अभूद अद्भुतदर्शनम ॥ 15 ॥

  16. ततः शत्रुक्षयं कृत्वा सुमहान्तं रणे वृषः पश्यतां धार्तराष्ट्राणां फल्गुनेन निपातितः ॥ 16 ॥

  17. ततस तत संजयः सर्वं गत्वा नागाह्वयं पुरम आचख्यौ धृतराष्ट्राय यद्वृत्तं कुरुजाङ्गले ॥ 17 ॥

  18. [ज] आपगेयं हतं शरुत्वा दरॊणं च समरे परैः यॊ जगाम पराम आर्तिं वृद्धॊ राजाम्बिका सुतः ॥ 18 ॥

  19. स शरुत्वा निहतं कर्णं दुर्यॊधनहितैषिणम कथं दविज वरप्राणान अधारयत दुःखितः ॥ 19 ॥

  20. यस्मिञ जयाशां पुत्राणाम अमन्यत स पार्थिवः तस्मिन हते स कौरव्यः कथं पराणान अधारयत ॥ 20 ॥

  21. दुर्मरं बत मन्ये ऽहं नृषां कृच्छ्रे ऽपि वर्तताम यत्र कर्णं हतं शरुत्वा नात्यजज जीवितं नृपः ॥ 21 ॥

  22. तथा शांतनवं वृद्धं बरह्मन बाह्लिकम एव च दरॊणं च सॊमदत्तं च भूरिश्रवसम एव च ॥ 22 ॥

  23. तथैव चान्यान सुहृदः पुत्रपौत्रांश च पातितान शरुत्वा यन नाजहात पराणांस तन मन्ये दुष्करं दविज ॥ 23 ॥

  24. एतन मे सर्वम आचक्ष्व विस्तरेण तपॊधन न हि तृप्यामि पूर्वेषां शृण्वानश चरितं महत ॥ 24 ॥

  25. [व] हते कर्णे महाराज निशि गावल्गणिस तदा दीनॊ ययौ नागपुरम अश्वैर वातसमैर जवे ॥ 25 ॥

  26. स हास्तिनपुरं गत्वा भृशम उद्विग्नमानसः जगाम धृतराष्ट्रस्य कषयं परक्षीणबान्धवम ॥ 26 ॥

  27. स समुद्वीक्ष्य राजानं कश्मलाभिहतौजसम ववन्दे पराञ्जलिर भूत्वा मूर्ध्ना पादौ नृपस्य ह ॥ 27 ॥

  28. संपूज्य च यथान्यायं धृतराष्ट्रं महीपतिम हा कष्टम इति चॊक्त्वा स ततॊ वचनम आददे ॥ 28 ॥

  29. संजयॊ ऽहं कषितिपते कच चिद आस्ते सुखं भवान सवदॊषेणापदं पराप्य कच चिन नाद्य विमुह्यसि ॥ 29 ॥

  30. हितान्य उक्तानि विदुर दरॊण गाङ्गेय केशवैः अगृहीतान्य अनुस्मृत्य कच चिन न कुरुषे वयथाम ॥ 30 ॥

  31. राम नारद कण्वैश च हितम उक्तं सभा तले न गृहीतम अनुस्मृत्य कच चिन न कुरुषे वयथाम ॥ 31 ॥

  32. सुहृदस तवद्धिते युक्तान भीष्मद्रॊणमुखान परैः निहतान युधि संस्मृत्य कच चिन न कुरुषे वयथाम ॥ 32 ॥

  33. तम एवं वादिनं राजा सूतपुत्रं कृताञ्जलिम सुदीर्घम अभिनिःश्वस्य दुःखार्त इदम अब्रवीत ॥ 33 ॥

  34. गाङ्गेये निहते शूरे दिव्यास्त्रवति संजय दरॊणे च परमेष्वासे भृशं मे वयथितं मनः ॥ 34 ॥

  35. यॊ रथानां सहस्राणि दंशितानां दशैव हि अहन्य अहनि तेजस्वी निजघ्ने वसु संभवः ॥ 35 ॥

  36. स हतॊ यज्ञसेनस्य पुत्रेणेह शिखण्डिना पाण्डवेयाभिगुप्तेन भृशं मे वयथितं मनः ॥ 36 ॥

  37. भार्गवः परददौ यस्मै परमास्त्रं महात्मने साक्षाद रामेण यॊ बाल्ये धनुर्वेद उपाकृतः ॥ 37 ॥

  38. यस्य परसादात कौन्तेया राजपुत्रा महाबलाः महारथत्वं संप्राप्तास तथान्ये वसुधाधिपाः ॥ 38 ॥

  39. तं दरॊणं निहतं शरुत्वा धृष्टद्युम्नेन संयुगे सत्यसंधं महेष्वासं भृशं मे वयथितं मनः ॥ 39 ॥

  40. तरैलॊक्ये यस्य शास्त्रेषु न पुमान विद्यते समः तं दरॊणं निहतं शरुत्वा किम अकुर्वत मामकाः ॥ 40 ॥

  41. संशप्तकानां च बले पाण्डवेन महात्मना धनंजयेन विक्रम्य गमिते यमसादनम ॥ 41 ॥

  42. नारायणास्त्रे निहते दरॊणपुत्रस्य धीमतः हतशेषेष्व अनीकेषु किम अकुर्वत मामकाः ॥ 42 ॥

  43. विप्रद्रुतान अहं मन्ये निमग्नः शॊकसागरे परवमानान हते दरॊणे सन्ननौकान इवार्णवे ॥ 43 ॥

  44. दुर्यॊधनस्य कर्णस्य भॊजस्य कृतवर्मणः मद्रराजस्य शल्यस्य दरौणेश चैव कृपस्य च ॥ 44 ॥

  45. मत पुत्र शेषस्य तथा तथान्येषां च संजय विप्रकीर्णेष्व अनीकेषु मुखवर्णॊ ऽभवत कथम ॥ 45 ॥

  46. एतत सर्वं यथावृत्तं तत्त्वं गावल्गणे रणे आचक्ष्व पाण्डवेयानां मामकानां च सर्वशः ॥ 46 ॥

  47. [स] पाण्डवेयैर हि यद्वृत्तं कौरवेयेषु मारिष तच छरुत्वा मा वयथां कार्षीद इष्टे न वयथते मनः ॥ 47 ॥

  48. यस्माद अभावी भावी वा भवेद अर्थॊ नरं परति अप्राप्तौ तस्य वा पराप्तौ न कश चिद वयथते बुधः ॥ 48 ॥

  49. [धृ] न वयथा शृण्वतः का चिद विद्यते मम संजय दिष्टम एतत पुरा मन्ये कथयस्व यथेच्छकम ॥ 49 ॥

Reach this point to mark the section finished.

Continue to अध्याय 2

Previous: अध्याय 173