धर्मDharmic Data

कर्णपर्व · Karna Parva

अध्याय 14

  1. [स] परत्यागत्य पुनर जिष्णुर अहन संशप्तकान बहून वक्रानुवक्र गमनाद अङ्गारक इव गरहः ॥ 1 ॥

  2. पार्थ बाणहता राजन नराश्वरथकुञ्जराः विचेलुर बभ्रमुर नेदुः पेतुर मम्लुश च मारिष ॥ 2 ॥

  3. धुर्यं धुर्यतरान सूतान रथांश च परिसंक्षिपन पाणीन पाणिगतं शस्त्रं बाहून अपि शिरांसि च ॥ 3 ॥

  4. भल्लैः कषुरैर अर्धचन्द्रैर वत्सदन्तैश च पाण्डवः चिच्छेदामित्र वीराणां समरे परतियुध्यताम ॥ 4 ॥

  5. वाशितार्थे युयुत्सन्तॊ वृषभा वृषभं यथा आपतन्त्य अर्जुनं शूराः शतशॊ ऽथ सहस्रशः ॥ 5 ॥

  6. तेषां तस्य च तद युद्धम अभवल लॊमहर्षणम तरैलॊक्यविजये यादृग दैत्यानां सह वज्रिणा ॥ 6 ॥

  7. तम अविध्यत तरिभिर बाणैर दन्द शूकैर इवाहिभिः उग्रायुधस ततस तस्य शिरः कायाद अपाहरत ॥ 7 ॥

  8. ते ऽरजुनं सर्वतः करुद्धा नानाशस्त्रैर अवीवृषन मरुद्भिः परेषिता मेघा हिमवन्तम इवॊष्णगे ॥ 8 ॥

  9. अस्त्रैर अस्त्राणि संवार्य दविषतां सर्वतॊ ऽरजुनः सम्यग अस्तैः शरैः सर्वान सहितान अहनद बहून ॥ 9 ॥

  10. छिन्नत्रिवेणुजङ्घेषान निहतपार्ष्णि सारथीन संछिन्नरश्मि यॊक्त्राक्षान वयनुकर्ष युगान रथान विध्वस्तसर्वसंनाहान बाणैश चक्रे ऽरजुनस तवरन ॥ 10 ॥

  11. ते रथास तत्र विध्वस्ताः परार्ध्या भान्त्य अनेकशः धनिनाम इव वेश्मानि हतान्य अग्न्यनिलाम्बुभिः ॥ 11 ॥

  12. दविपाः संभिन्नमर्माणॊ वज्राशनिसमैः शरैः पेतुर गिर्यग्रवेश्मानि वज्रवाताग्निभिर यथा ॥ 12 ॥

  13. सारॊहास तुरगाः पेतुर बहवॊ ऽरजुन ताडिताः निर्जिह्वान्त्राः कषितौ कषीणा रुधिरार्द्राः सुदुर्दृशः ॥ 13 ॥

  14. नराश्वनागा नाराचैः संस्यूताः सव्यसाचिना बभ्रमुश चस्खलुः पेतुर नेदुर मम्लुश च मारिष ॥ 14 ॥

  15. अणकैश च शिला धातैर वज्राशनिविषॊपमैः शरैर निजघ्निवान पार्थॊ महेन्द्र इव दानवान ॥ 15 ॥

  16. महार्हवर्माभरणा नानारूपाम्बरायुधाः स रथाः स धवजा वीरा हताः पार्थेन शेरते ॥ 16 ॥

  17. विजिताः पुण्यकर्माणॊ विशिष्टाभिजन शरुताः गताः शरीरैर वसुधाम ऊर्जितैः कर्मभिर दिवम ॥ 17 ॥

  18. अथार्जुन रथं वीरास तवदीयाः समुपाद्रवन नानाजनपदाध्यक्षाः सगणा जातमन्यवः ॥ 18 ॥

  19. उह्यमाना रथाश्वैस ते पत्तयश च जिघांसवः समभ्यधावन्न अस्यन्तॊ विविधं कषिप्रम आयुधम ॥ 19 ॥

  20. तदायुध महावर्षं कषिप्तं यॊधमहाम्बुदैः वयधमन निशितैर बाणैः कषिप्रम अर्जुन मारुतः ॥ 20 ॥

  21. साश्वपत्तिद्विपरथं महाशस्त्रौघम अप्लवम सहसा संतितीर्षन्तं पार्थं शस्त्रास्त्रसेतुना ॥ 21 ॥

  22. अथाब्रवीद वासुदेवः पार्थं किं करीडसे ऽनघ संशप्तकान परमथ्यैतांस ततः कर्णवधे तवर ॥ 22 ॥

  23. तथेत्य उक्त्वार्जुनः कषिप्रं शिष्टान संशप्तकांस तदा आक्षिप्य शस्त्रेण बलाद दैत्यान इन्द्र इवावधीत ॥ 23 ॥

  24. आदधत संदधन नाषून दृष्टः कैश चिद रणे ऽरजुनः विमुञ्चन वा शराञ शीघ्रं दृश्यते सम हि कैर अपि ॥ 24 ॥

  25. आश्चर्यम इति गॊविन्दॊ बरुवन्न अश्वान अचॊदयत हंसांस गौरास ते सेनां हंसाः सर इवाविशन ॥ 25 ॥

  26. ततः संग्रामभूमिं तां वर्तमाने जनक्षये अवेक्षमाणॊ गॊविन्दः सव्यसाचिनम अब्रवीत ॥ 26 ॥

  27. एष पार्थ महारौद्रॊ वर्तते भरतक्षयः पृथिव्यां पार्थिवानां वै दुर्यॊधनकृते महान ॥ 27 ॥

  28. पश्य भारत चापानि रुक्मपृष्ठानि धन्विनाम महताम अपविद्धानि कलापान इषुधीस तथा ॥ 28 ॥

  29. जातरूपमयैः पुङ्खैः शरांश च नतपर्वणः तैलधौतांश च नाराचान निर्मुक्तान इव पन्नगान ॥ 29 ॥

  30. हस्तिदन्त तसरून खड्गाञ जातरूपपरिष्कृतान आकीर्णांस तॊमरांश चापांश चित्रान हेमविभूषितान ॥ 30 ॥

  31. वर्माणि चापविद्धानि रुक्मपृष्ठानि भारत सुवर्णविकृतान परासाञ शक्तीः कनकभूषिताः ॥ 31 ॥

  32. जाम्बूनदमयैः पट्टैर बद्धाश च विपुला गदाः जातरूपमयीश चर्ष्टीः पट्टिशान हेमभूषितान ॥ 32 ॥

  33. दण्डैः कनकचित्रैश च विप्रविद्धान परश्वधान अयः कुशान्तान पतितान मुसलानि गुरूणि च ॥ 33 ॥

  34. शतघ्नीः पश्य चित्राश च विपुलान परिघांस तथा चक्राणि चापविद्धानि मुद्गरांश च बहून रणे ॥ 34 ॥

  35. नानाविधानि शस्त्राणि परगृह्य जय गृद्धिनः जीवन्त इव लक्ष्यन्ते गतसत्त्वास तरस्विनः ॥ 35 ॥

  36. गदा विमथितैर गात्रैर मुसलैर भिन्नमस्तकान गजवाजिरथक्षुण्णान पश्य यॊधान सहस्रशः ॥ 36 ॥

  37. मनुष्यगजवाजीनां शरशक्त्यृष्टितॊमरैः निस्त्रिंशैः पट्टिशैः परासैर नखरैर लगुडैर अपि ॥ 37 ॥

  38. शरीरैर बहुधा भिन्नैः शॊणितौघपरिप्लुतैः गतासुभिर अमित्रघ्न संवृता रणभूमयः ॥ 38 ॥

  39. बाहुभिश चन्दनादिग्धैः साङ्गदैः शुभभूषणैः स तलत्रैः स केयूरैर भाति भारत मेदिनी ॥ 39 ॥

  40. साङ्गुलित्रैर भुजाग्रैश च विप्रविद्धैर अलंकृतैः हस्तिहस्तॊपमैश छिन्नैर ऊरुभिश च तरस्विनाम ॥ 40 ॥

  41. बद्धचूडा मणिवरैः शिरॊभिश च सकुण्डलैः निकृत्तैर वृषभाक्षाणां विराजति वसुंधरा ॥ 41 ॥

  42. कबन्धैः शॊणितादिग्धैश छिन्नगात्रशिरॊ धरैः भूर भाति भरतश्रेष्ठ शान्तार्चिर्भिर इवाग्निभिः ॥ 42 ॥

  43. रथान बहुविधान भग्नान हेमकिङ्किणिनः शुभान अश्वांश च बहुधा पश्य शॊणितेन परिप्लुतान ॥ 43 ॥

  44. यॊधानां च महाशङ्खान पाण्डुरांश च परकीर्णकान निरस्तजिह्वान मातङ्गाञ शयानान पर्वतॊपमान ॥ 44 ॥

  45. वैजयन्ती विचित्रांश च हतांश च गजयॊधिनः वारणानां परिस्तॊमान सुयुक्ताम्बर कम्बलान ॥ 45 ॥

  46. विपाटिना विचित्राश च रूपचित्राः कुथास तथा भिन्नाश च बहुधा घण्टाः पतद्भिश चूर्णिता गजैः ॥ 46 ॥

  47. वैडूर्य मणिदण्डांश च पतितान अङ्कुशान भुवि बद्धाः सादिध्वजाग्रेषु सुवर्णविकृताः कशाः ॥ 47 ॥

  48. विचित्रान मणिचित्रांश च जातरूपपरिष्कृतान अश्वास्तर परिस्तॊमान राङ्कवान्पतितान भुवि ॥ 48 ॥

  49. चूडामणीन नरेन्द्राणां विचित्राः काञ्चनस्रजः छत्राणि चापविद्धानि चामार वयजनानि च ॥ 49 ॥

  50. चन्द्र नक्षत्रभासैश च वदनैश चारुकुण्डलैः कॢप्त शमश्रुभिर अत्यर्थं वीराणां समलंकृतैः वदनैः पश्य संछन्नां महीं शॊणितकर्दमाम ॥ 50 ॥

  51. स जीवांश च नरान पश्य कूजमानान समन्ततः उपास्यमानान बहुभिर नयस्तशस्त्रैर विशां पते ॥ 51 ॥

  52. जञातिभिः सहितैस तत्र रॊदमानैर मुहुर मुहुः वयुत्क्रान्तान अपरान यॊधांश छादयित्वा तरस्विनः पुनर युद्धाय गच्छन्ति जय गृद्धाः परमन्यवः ॥ 52 ॥

  53. अपरे तत्र तत्रैव परिधावन्ति मानिनः जञातिभिः पतितैः शूरैर याच्यमानास तथॊदकम ॥ 53 ॥

  54. जलार्थं च गताः के चिन निष्प्राणा बहवॊ ऽरजुन संनिवृत्ताश च ते शूरास तान दृष्ट्वैव विचेतसः ॥ 54 ॥

  55. जलं दृष्ट्वा परधावन्ति करॊशमानाः परस्परम जलं पीत्वा मृतान पश्य पिबतॊ ऽनयांश च भारत ॥ 55 ॥

  56. परित्यज्य परियान अन्ये बान्धवान बान्धवप्रिय वयुत्क्रान्ताः समदृश्यन्त तत्र तत्र महारणे ॥ 56 ॥

  57. पश्यापरान नरश्रेष्ठ संदष्टौष्ठ पुटान पुनः भरुकुटी कुटिलैर वक्त्रैः परेक्षमाणान समन्ततः ॥ 57 ॥

  58. एतत तवैवानुरूपं कर्मार्जुन महाहवे दिवि वा देवराजस्य तवया यत्कृतम आहवे ॥ 58 ॥

  59. एवं तां दर्शयन कृष्णॊ युद्धभूमिं किरीटिने गच्छन्न एवाशृणॊच छब्दं दुर्यॊधन बले महत ॥ 59 ॥

  60. शङ्खदुन्दुभिनिर्घॊषान भेरी पणवमिश्रितान रथाश्वगजनादांश च शस्त्त्र शब्दांश च दारुणान ॥ 60 ॥

  61. परविश्य तद बलं कृष्णस तुरगैर वातवेगिभिः पाण्ड्येनाभ्यर्दितां सेनां तवदीयां वीक्ष्य धिष्ठितः ॥ 61 ॥

  62. सहि नानाविधैर बाणैर इष्वास परवरॊ युधि नयहनद दविषतां वरातान गतासून अन्तकॊ यथा ॥ 62 ॥

  63. गजवाजिमनुष्याणां शरीराणि शितैः शरैः भित्त्वा परहरतां शरेष्ठॊ विदेहासूंश चकार सः ॥ 63 ॥

  64. शत्रुप्रवीरैर अस्तानि नानाशस्त्राणि सायकैः भित्त्वा तान अहनत पाण्ड्यः शत्रूञ शक्र इवासुरान ॥ 64 ॥

Reach this point to mark the section finished.

Continue to अध्याय 15

Previous: अध्याय 13