धर्मDharmic Data

कर्णपर्व · Karna Parva

अध्याय 13

  1. [स] अथॊत्तरेण पाण्डूनां सेनायां धवनिर उत्थितः रथनागाश्वपत्तीनां दण्डधारेण वध्यताम ॥ 1 ॥

  2. निवर्तयित्वा तु रथं केशवॊ ऽरजुनम अब्रवीत वाहयन्न एव तुरगान गरुडानिलरंहसः ॥ 2 ॥

  3. मागधॊ ऽथाप्य अतिक्रान्तॊ दविरदेन परमाथिना भगदत्ताद अनवरः शिक्षया च बलेन च ॥ 3 ॥

  4. एनं हत्वा निहन्तासि पुनः संशप्तकान इति वाक्यान्ते परापयत पार्थं दण्डधारान्तिकं परति ॥ 4 ॥

  5. स मागधानां परवरॊ ऽङकुश गरहॊ; गरहेष्व असह्यॊ विकचॊ यथा गरहः सपत्नसेनां परममाथ दारुणॊ; महीं समग्रां विकचॊ यथा गरहः ॥ 5 ॥

  6. सुकल्पितं दानव नागसंनिभं; महाभ्रसंह्रादम अमित्रमर्दनम रथाश्वमातङ्गगणान सहस्रशः; समास्थितॊ हन्ति शरैर दविपान अपि ॥ 6 ॥

  7. रथान अधिष्ठाय स वाजिसारथीन; रथांश च पद्भिस तवरितॊ वयपॊथयत दविपांश च पद्भ्यां चरणैः करेण च; दविपास्थितॊ हन्ति स कालचक्रवत ॥ 7 ॥

  8. नरांश च कार्ष्णायस वर्म भूषणान; निपात्य साश्वान अपि पत्तिभिः सह वयपॊथयद दन्ति वरेण शुष्मिणा; स शब्दवत सथूलनडान यथातथा ॥ 8 ॥

  9. अथार्जुनॊ जयातलनेमि निस्वने; मृदङ्गभेरीबहु शङ्खनादिते नराश्वमातङ्गसहस्रनादितै; रथॊत्तमेनाभ्यपतद दविपॊत्तमम ॥ 9 ॥

  10. ततॊ ऽरजुनं दवादशभिः शरॊत्तमैर; जनार्दनं षॊडशभिः समार्दयत स दण्डधारस तुरगांस तरिभिस तरिभिस; ततॊ ननाद परजहास चासकृत ॥ 10 ॥

  11. ततॊ ऽसय पार्थः स गुणेषु कार्मुकं; चकर्त भल्लैर धवजम अप्य अलंकृतम पुनर नियन्तॄन सह पादगॊप्तृभिस; ततस तु चुक्रॊध गिरिव्रजेश्वरः ॥ 11 ॥

  12. ततॊ ऽरजुनं भिन्नकटेन दन्तिना; घनाघनेन अनिलतुल्यरंहसा अतीव चुक्षॊभयिषुर जनार्दनं; धनंजयं चाभिजघान तॊमरैः ॥ 12 ॥

  13. अथास्य बाहू दविपहस्तसंनिभौ; शिरश च पूर्णेन्दुनिभाननं तरिभिः कषुरैः परचिच्छेद सहैव पाण्डवस; ततॊ दविपं बाणशतैः समार्दयत ॥ 13 ॥

  14. स पार्थ बाणैस तपनीयभूषणैः; समारुचत काञ्चनवर्म भृद दविपः तथा चकाशे निशि पर्वतॊ यथा; दवाग्निना परज्वलितौषधि दरुमः ॥ 14 ॥

  15. स वेदनार्तॊ ऽमबुदनिस्वनॊ नदंश; चलन भरमन परस्खलितॊ ऽऽतुरॊ दरवन पपात रुग्णः सनियन्तृकस तथा; यथा गिरिर वज्रनिपात चूर्णितः ॥ 15 ॥

  16. हिमावदातेन सुवर्णमालिना; हिमाद्रिकूटप्रतिमेन दन्तिना हते रणे भरातरि दण्ड आव्रजज; जिघांसुर इन्द्रावरजं धनंजयम ॥ 16 ॥

  17. स तॊमरैर अर्ककरप्रभैस तरिभिर; जनार्दनं पञ्चभिर एव चार्जुनम समर्पयित्वा विननाद चार्दर्यस; ततॊ ऽसय बाहू विचकर्त पाण्डवः ॥ 17 ॥

  18. कषुर परकृत्तौ सुभृशं स तॊमरौ; चयुताङ्गदौ चन्दनरूषितौ भुजौ गजात पतन्तौ युगपद विरेजतुर; यथाद्रिशृङ्गात पतितौ महॊरगौ ॥ 18 ॥

  19. अथार्धचन्द्रेण हृतं किरीटिना; पपात दण्डस्य शिरः कषितिं दविपात तच छॊणिताभं निपतद विरेजे; दिवाकरॊ ऽसताद इव पश्चिमां दिशम ॥ 19 ॥

  20. अथ दविपं शवेतनगाग्र संनिभं; दिवाकरांशु परतिमैः शरॊत्तमैः बिभेद पार्तः स पपात नानदन; हिमाद्रिकूटः कुलिशाहतॊ यथा ॥ 20 ॥

  21. ततॊ ऽपरे तत्प परतिमा जगॊत्तमा; जिगीषवः संयति सव्यसाचिनम तथा कृतास तेन यथैव तौ दविपौ; ततः परभग्नं सुमहद रिपॊर बलम ॥ 21 ॥

  22. गजा रथाश्वाः पुरुषाश च संघशः; परस्परघ्नाः परिपेतुर आहवे परस्परप्रस्खलिताः समाहता; भृशं च तत तत कुलभाषिणॊ हताः ॥ 22 ॥

  23. अथार्जुनं सवे परिवार्य सैनिकाः; पुरंदरं देवगणा इवाब्रुवन अभैष्म यस्मान मरणाद इव परजाः; स वीर दिष्ट्या निहतस तवया रिपुः ॥ 23 ॥

  24. न चेत परित्रास्य इमाञ जनान भयाद; दविषद्भिर एवं बलिभिः परपीडितान तथाभविष्यद दविषतां परमॊदनं; यथा हतेष्व एष्व इह नॊ ऽरिषु तवया ॥ 24 ॥

  25. इतीव भूयश च सुहृद्भिर ईरिता; निशम्य वाचः सुमनास ततॊ ऽरजुनः यथानुरूपं परतिपूज्य तं जनं; जगाम संशप्तक संघहा पुनः ॥ 25 ॥

Reach this point to mark the section finished.

Continue to अध्याय 14

Previous: अध्याय 12