[धृ] यथा संशप्तकैः सार्धम अर्जुनस्याभवद रणः अन्येषां च मदीयानां पाण्डवैस तद बरवीहि मे ॥ 1 ॥
[स] शृणु राजन यथावृत्तं संग्रामं बरुवतॊ मम वीराणां शत्रुभिः सार्धं देहपाप्म परणाशनम ॥ 2 ॥
पार्थः संशप्तक गणं परविश्यार्णव संनिभम वयक्षॊभयद अमित्रघ्नॊ महावात इवार्णवम ॥ 3 ॥
शिरांस्य उन्मथ्य वीराणां शितैर भल्लैर धनंजयः पूर्णचन्द्राभवक्त्राणि सवक्षिभ्रू दशनानि च संतस्तार कषितिं कषिप्रं विनालैर नलिनैर इव ॥ 4 ॥
सुवृत्तान आयतान पुष्टांश चन्दनागुरुभूषितान सायुधान स तनुत्राणान पञ्चास्यॊरग संनिभान बाहून कषुरैर अमित्राणां विचकर्तार्जुनॊ रणे ॥ 5 ॥
धुर्यान धुर्यतरान सूतान धवजांश चापानि सायकान पाणीन अरत्नान असकृद भल्लैश चिच्छेद पाण्डवः ॥ 6 ॥
दविपान हयान रथांश चैव सारॊहान अर्जुनॊ रणे शरैर अनेकसाहस्रै राजन निन्ये यमक्षयम ॥ 7 ॥
तं परवीरं परतीयाता नर्दमाना इवर्षभाः वाशितार्थम अभिक्रुद्धा हुंकृत्वा चाभिदुद्रुवुः निघ्नन्तम अभिजघ्नुस ते शरैः शृङ्गैर इवर्षभाः ॥ 8 ॥
तस्य तेषां च तद युद्धम अभवल लॊमहर्षणम तरैलॊक्यविजये यादृग दैत्यानां सह वज्रिणा ॥ 9 ॥
अस्त्रैर अस्त्राणि संवार्य दविषतां सर्वतॊ ऽरजुनः इषुभिर बहुभिस तूर्णं विद्ध्वा पराणान ररास सः ॥ 10 ॥
छिन्नत्रिवेणुचक्राक्षान हतयॊधाश्वसारथीन विध्वस्तायुध तूणीरान समुन्मथित केतनान ॥ 11 ॥
संछिन्नयॊक्त्र रश्मीकान वि तरिवेणून वि कूबरान विध्वस्तबन्धुर अयुगान विशस्तायुध मण्डलान रथान विशकलीकुर्वन महाभ्राणीव मारुतः ॥ 12 ॥
विस्मापयन परेक्षणीयं दविषातां भयवर्धनम महारथसहस्रस्य समं कर्मार्जुनॊ ऽकरॊत ॥ 13 ॥
सिद्धदेवर्षिसंघाश च चारणाश चैव तुष्टुवुः देवदुन्दुभयॊ नेदुः पुष्पवर्षाणि चापतन केशवार्जुनयॊर मूर्ध्नि पराह वाक चाशरीरिणी ॥ 14 ॥
चन्द्रार्कानिल वह्नीनां कान्ति दीप्तिबलद्युतीः यौ सदा बिभ्रतुर वीरौ ताव इमौ केशवार्जुनौ ॥ 15 ॥
बरह्मेशानाव इवाजय्यौ वीराव एकरथे सथितौ सर्वभूतवरौ वीरौ नरनारायणाव उभौ ॥ 16 ॥
इत्य एतन महद आश्चर्यं दृष्ट्वा शरुत्वा च भारत अश्वत्थामा सुसंयत्तः कृष्णाव अभ्यद्रवद रणे ॥ 17 ॥
अथ पाण्डवम अस्यन्तं यम कालान्तकाञ शरान सेषुणा पाणिनाहूय हसन दरौणिर अथाब्रवीत ॥ 18 ॥
यदि मां मन्यसे वीर पराप्तम अर्हम इवातिथिम ततः सर्वात्मनाद्य तवं युद्धातिथ्यं परयच्छ मे ॥ 19 ॥
एवम आचार्य पुत्रेण समाहूतॊ युयुत्सया बहु मेने ऽरजुनॊ ऽऽतमानम इदं चाह जनार्दनम ॥ 20 ॥
संशप्तकाश च मे वध्या दरौणिर आह्वयते च माम यद अत्रानन्तरं पराप्तं परशाधि तवं महाभुज ॥ 21 ॥
एवम उक्तॊ ऽवहत पार्थं कृष्णॊ दरॊणात्मजान्तिकम जैत्रेण विधिनाहूतं वायुर इन्द्रम इवाध्वरे ॥ 22 ॥
तम आमन्त्र्यैक मनसा केशवॊ दरौणिम अब्रवीत अश्वत्थामन सथिरॊ भूत्वा परहराशु सहस्व च ॥ 23 ॥
निर्वेष्टुं भर्तृपिण्डं हि कालॊ ऽयम उपजीविनाम सूक्ष्मॊ विवादॊ विप्राणां सथूलौ कषात्रौ जयाजयौ ॥ 24 ॥
यां न संक्षमसे मॊहाद दिव्यां पार्थस्य सत्क्रियाम ताम आप्तुम इच्छन युध्यस्व सथिरॊ भूत्वाद्य पाण्डवम ॥ 25 ॥
इत्य उक्तॊ वासुदेवेन तथेत्य उक्त्वा दविजॊत्तमः विव्याध केशवं षष्ट्या नाराचैर अर्जुनं तरिभिः ॥ 26 ॥
तस्यार्जुनः सुसंक्रुद्धस तरिभिर भल्लैः शरासनम चिच्छेदाथान्यद आदत्त दरौणिर घॊरतरं धनुः ॥ 27 ॥
स जयं कृत्वा निमेषात तद विव्याधार्जुन केशवौ तरिभिः शरैर वासुदेवं सहस्रेण च पाण्डवम ॥ 28 ॥
ततः शरसहस्राणि परयुतान्य अर्बुदानि च ससृजे दरौणिर आयस्तः संस्तभ्य च रणे ऽरजुनम ॥ 29 ॥
इषुधेर धनुषॊ जयाया अङ्गुलीभ्यश च मारिष बाह्वॊः कराभ्याम उरसॊ वदनघ्राणनेत्रतः ॥ 30 ॥
कर्णाभ्यां शिरसॊ ऽङगेभ्यॊ लॊम वर्त्मभ्य एव च रथध्वजेभ्यश च शरा निष्पेतुर बरह्मवादिनः ॥ 31 ॥
शरजालेन महता विद्ध्वा केशव पाण्डवौ ननाद मुदितॊ दरौणिर महामेघौघनिस्वनः ॥ 32 ॥
तस्य नानदतः शरुत्वा पाण्डवॊ ऽचयुतम अब्रवीत पश्य माधव दौरात्म्यं दरॊणपुत्रस्य मां परति ॥ 33 ॥
वधप्राप्तौ मन्यते नौ परवेश्य शरवेश्मनि एषॊ ऽसय हन्मि संकल्पं शिक्षया च बलेन च ॥ 34 ॥
अश्वत्थाम्नः शरान अस्तांश छित्त्वैकैकं तरिधा तरिधा वयधमद भरतश्रेष्ठॊ नीहारम इव मारुतः ॥ 35 ॥
ततः संशप्तकान भूयः साश्वसूत रथद्विपान धवजपत्तिगणान उग्रैर बाणैर विव्याध पाण्डवः ॥ 36 ॥
ये ये ददृशिरे तत्र यद यद रूपं यथा यथा ते ते तत तच छरैर वयाप्तं मेनिरे ऽऽतमानम एव च ॥ 37 ॥
ते गाण्डीवप्रणुदिता नानारूपाः पतत्रिणः करॊशे साग्रे सथितान घनन्ति दविपांश च पुरुषान रणे ॥ 38 ॥
भल्लैश छिन्नाः कराः पेतुः करिणां मदकर्षिणाम छिन्ना यथा परशुभिः परवृद्धाः शरदि दरुमाः ॥ 39 ॥
पश्चात तु शैलवत पेतुस ते गजाः सह सादिभिः वज्रिवज्रप्रमथिता यथैवाद्रिचयास तथा ॥ 40 ॥
गन्धर्वनगराकारान विधिवत कल्पितान रथान विनीतजवनान्य उक्तान आस्थितान युद्धदुर्मदान ॥ 41 ॥
शरैर विशकलीकुर्वन्न अमित्रान अभ्यवीवृषत अलंकृतान अश्वसादीन पतिंश चाहन्धनंजयः ॥ 42 ॥
धनंजय युगान्तार्कः संशप्तक महार्णवम वयशॊषयत दुःशॊषं तीव्रैः शरगभस्तिभिः ॥ 43 ॥
पुनर दरौणिमहाशैलं नाराचैः सूर्यसंनिभैः निर्बिभेद महावेगैस तवरन वज्रीव पर्वतम ॥ 44 ॥
तम आचार्य सुतः करुद्धः साश्वयन्तारम आशुगैः युयुत्सुर नाशकद यॊद्धुं पार्थस तान अन्तराच्छिनत ॥ 45 ॥
ततः परमसंक्रुद्धः काण्डकॊशान अवासृजत अश्वत्थामाभिरूपाय गृहान अतिथये यथा ॥ 46 ॥
अथ संशप्तकांस तयक्त्वा पाण्डवॊ दरौणिम अभ्ययात अपाङ्क्तेयम इव तयक्त्वा दाता पाङ्क्तेयम अर्थिनम ॥ 47 ॥
ततः समभवद युद्धं शुक्राङ्गिरस वर्चसॊः नक्षत्रम अभितॊ वयॊम्नि शुक्राङ्गिरसयॊर इव ॥ 48 ॥
संतापयन्ताव अन्यॊन्यं दीप्तैः शरगभस्तिभिः लॊकत्रास कराव आस्तां विमार्गस्थौ गरहाव इव ॥ 49 ॥
ततॊ ऽविध्यद भरुवॊर मध्ये नाराचेनार्जुनॊ भृशम स तेन विबभौ दरौणिर ऊर्ध्वरश्मिर यथा रविः ॥ 50 ॥
अथ कृष्णौ शरशतैर अश्वत्थाम्नार्दितौ भृशम सरश्मि जालनिकरौ युगान्तार्काव इवासतुः ॥ 51 ॥
ततॊ ऽरजुनः सर्वतॊ धारम अस्त्रम; अवासृजद वासुदेवाभिगुप्तः दरौणायनिं चाभ्यहनत पृषत्कैर; वज्राग्निवैवस्वतदण्डकल्पैः ॥ 52 ॥
स केशवं चार्जुनं चातितेजा; विव्याध मर्मस्व अतिरौद्र कर्मा बाणैः सुमुक्तैर अतितीव्र वेगैर; यैर आहतॊ मृत्युर अपि वयथेत ॥ 53 ॥
दरौणेर इषून अर्जुनः संनिवार्य; वयायच्छतस तद दविगुणैः सुपुङ्खैः तं साश्वसूत धवजम एकवीरम; आवृत्य संशप्तक सैन्यम आर्छत ॥ 54 ॥
धनूंषि बाणान इषुधीर धनुर्ज्याः; पाणीन भुजान पाणिगतं च शस्त्रम छत्राणि केतूंस तुरगान अथैषां; वस्त्राणि माल्यान्य अथ भूषणानि ॥ 55 ॥
चर्माणि वर्माणि मनॊरथांश च; परियाणि सर्वाणि शिरांसि चैव चिच्छेद पार्थॊ दविषतां परमुक्तैर; बाणैः सथितानाम अपराङ्मुखानाम ॥ 56 ॥
सुकल्पिताः सयन्दनवाजिनागाः; समास्थिताः कृतयत्नैर नृवीरैः पार्थेरितैर बाणगणैर निरस्तास; तैर एव सार्धं नृवरैर निपेतुः ॥ 57 ॥
पद्मार्क पूर्णेन्दुसमाननानि; किरीटमाला मुकुटॊत्कटानि भल्लार्ध चन्द्र कषुर हिंसितानि; परपेतुर उर्व्यां नृशिरांस्य अजस्रम ॥ 58 ॥
अथ विपैर देवपतिद्विपाभैर; देवारि दर्पॊल्बण मन्युदर्पैः कलिङ्ग वङ्गाङ्गनिषादवीरा; जिघांसवः पाण्डवम अभ्यधावन ॥ 59 ॥
तेषां दविपानां विचकर्त पार्थॊ; वर्माणि मर्माणि करान नियन्तॄन धवजाः पताकाश च ततः परपेतुर; वज्राहतानीव गिरेः शिरांसि ॥ 60 ॥
तेषु पररुग्णेषु गुरॊस तनूजं; बाणैः किरीटी नव सूर्यवर्णैः परच्छादयाम आस महाभ्रजालैर; वायुः समुद्युक्तम इवांशुमन्तम ॥ 61 ॥
ततॊ ऽरजुनेषून इषुभिर निरस्य; दरौणिः शरैर अर्जुन वासुदेवौ परच्छादयित्व दिवि चन्द्रसूर्यौ; ननाद सॊ ऽमभॊद इवातपान्ते ॥ 62 ॥
तम अर्जुनस तांश च पुनस तवदीयान; अभ्यर्दितस तैर अविकृत्त शस्त्रैः बाणान्ध कारं सहसैव कृत्वा; विव्याध सर्वान इषुभिः सुपुङ्खैः ॥ 63 ॥
नाप्य आददत संदधन नैव मुञ्चन; बाणान रणे ऽदृश्यत सव्यसाची हतांश च नागांस तुरगान पदातीन; संस्यूत देहान ददृशू रथांश च ॥ 64 ॥
संधाय नाराचवरान दशाशु; दरौणिस तवरन्न एकम इवॊत्ससर्ज तेषां च पञ्चार्जुनम अभ्यविध्यन; पञ्चाच्युतं निर्बिभिदुः सुमुक्ताः ॥ 65 ॥
तैर आहतौ सर्वमनुष्यमुख्याव; असृक कषरन्तौ धनदेन्द्र कल्पौ समाप्तविद्येन यथाभिभूतौ; हतौ सविद एतौ किम उ मेनिरे ऽनये ॥ 66 ॥
अथार्जुनं पराह दशार्ह नाथः; परमाद्यसे किं जहि यॊधम एतम कुर्याद धि दॊषं समुपेक्षितॊ ऽसौ; कष्टॊ भवेद वयाधिर इवाक्रियावान ॥ 67 ॥
तथेति चॊक्त्वाच्युतम अप्रमादी; दरौणिं परयत्नाद इषुभिस ततक्ष छित्त्वाश्वरश्मींस तुरगान अविध्यत; ते तं रणाद ऊहुर अतीव दूरम ॥ 68 ॥
आवृत्य नेयेष पुनस तु युद्धं; पार्थेन सार्धं मतिमान विमृश्य जानञ जयं नियतं वृष्णिवीरे; धनंजये चाङ्गिरसां वरिष्ठः ॥ 69 ॥
परतीप काये तु रणाद अश्वत्थाम्नि हृते हयैः मन्त्रौषधिक्रिया दानैर वयाधौ देहाद इवाहृते ॥ 70 ॥
संशप्तकान अभिमुखौ परयातौ केशवार्जुनौ वातॊद्धूत पताकेन सयन्दनेनौघनादिना ॥ 71 ॥
कर्णपर्व · Karna Parva
अध्याय 12
Reach this point to mark the section finished.
Continue to अध्याय 13