धर्मDharmic Data

द्रोणपर्व · Drona Parva

अध्याय 173

  1. [धृ] तस्मिन्न अतिरथे दरॊणे निहते तत्र संजय मामकाः पाण्डवाश चैव किम अकुर्वन्न अतः परम ॥ 1 ॥

  2. [स] तस्मिन्न अतिरथे दरॊणे निहते पार्षतेन वै कौरवेषु च भग्नेषु कुन्तीपुत्रॊ धनंजयः ॥ 2 ॥

  3. दृष्ट्वा सुमहद आश्चर्यम आत्मनॊ विजयावहम यदृच्छयागतं वयासं पप्रच्छ भरतर्षभ ॥ 3 ॥

  4. संग्रामे निघ्नतः शत्रूञ शरौघैर विमलैर अहम अग्रतॊ लक्षये यान्तं पुरुषं पावकप्रभम ॥ 4 ॥

  5. जवलन्तं शूलम उद्यम्य यां दिशं परतिपद्यते तस्यां दिशि विशीर्यन्ते शत्रवॊ मे महामुने ॥ 5 ॥

  6. न पद्भ्यां सपृशते भूमिं न च शूलं विमुञ्चति शूलाच छूलसहस्राणि निष्पेतुस तस्य तेजसा ॥ 6 ॥

  7. तेन भग्नान अरीन सर्वान मद भग्नान मन्यते जनः तेन दग्धानि सैन्यानि पृष्ठतॊ ऽनुदहाम्य अहम ॥ 7 ॥

  8. भगवंस तन ममाचक्ष्व कॊ वै स पुरुषॊत्तमः शूलपाणिर महान कृष्ण तेजसा सूर्यसंनिभः ॥ 8 ॥

  9. [व] परजापतीनां परथमं तेजसं पुरुषं विभुम भुवनं भूर भुवं देवं सर्वलॊकेश्वरं परभुम ॥ 9 ॥

  10. ईशानं वरदं पार्थ दृष्टवान असि शंकरम तं गच्छ शरणं देवं सर्वादिं भुवनेश्वरम ॥ 10 ॥

  11. महादेवं महात्मानम ईशानं जटिलं शिवम तर्यक्षं महाभुजं रुद्रं शिखिनं चीरवाससम दातारं चैव भक्तानां परसादविहितान वरान ॥ 11 ॥

  12. तस्य ते पार्षदा दिव्या रूपैर नानाविधैर विभॊः वामना जटिला मुण्डा हरस्वग्रीवा महॊदराः ॥ 12 ॥

  13. महाकाया महॊत्साहा महाकर्णास तथापरे आननैर विकृतैः पादैः पार्थ वेषैश च वैकृतैः ॥ 13 ॥

  14. ईदृशैः स महादेवः पूज्यमानॊ महेश्वरः स शिवस तात तेजस्वी परसादाद याति ते ऽगरतः तस्मिन घॊरे तदा पार्थ संग्रामे लॊमहर्षणे ॥ 14 ॥

  15. दरॊणकर्णकृपैर गुप्तां महेष्वासैः परहारिभिः कस तां सेनां तदा पार्थ मनसापि परधर्षयेत ऋते देवान महेष्वासाद बहुरूपान महेश्वरात ॥ 15 ॥

  16. सथातुम उत्सहते कश चिन न तस्मिन्न अग्रतः सथिते न हि भूतं समं तेन तरिषु लॊकेषु विद्यते ॥ 16 ॥

  17. गन्धेनापि हि संग्रामे तस्य करुद्धस्य शत्रवः विसंज्ञा हतभूयिष्ठा वेपन्ति च पतन्ति च ॥ 17 ॥

  18. तस्मै नमस तु कुर्वन्तॊ देवास तिष्ठन्ति वै दिवि ये चान्ये मानवा लॊके ये च सवर्गजितॊ नराः ॥ 18 ॥

  19. ये भक्ता वरदं देवं शिवं रुद्रम उपा पतिम इह लॊके सुखं पराप्य ते यान्ति परमां गतिम ॥ 19 ॥

  20. नमस्कुरुष्व कौन्तेय तस्मै शान्ताय वै सदा रुद्राय शितिकण्ठाय कनिष्ठाय सुवर्चसे ॥ 20 ॥

  21. कपर्दिने करालाय हर्यक्ष्णे वरदाय च याम्यायाव्यक्त केशाय सद्वृत्ते शंकराय च ॥ 21 ॥

  22. काम्याय हरि नेत्राय सथाणवे पुरुषाय च हरि केशाय मुण्डाय कृशायॊत्तरणाय च ॥ 22 ॥

  23. भास्कराय सुतीर्थाय देवदेवाय रंहसे बहुरूपाय शर्वाय परियाय परियवाससे ॥ 23 ॥

  24. उष्णीषिणे सुवक्त्राय सहस्राक्षाय मीढुषे गिरिशाय परशान्ताय पतये चीरवाससे ॥ 24 ॥

  25. हिरण्यबाहवे चैव उग्राय पतये दिशाम पर्जन्यपतये चैव भूतानां पतये नमः ॥ 25 ॥

  26. वृक्षाणां पतये चैव अपां च पतये तथा वृक्षैर आवृतकायाय सेनान्ये मध्यमाय च ॥ 26 ॥

  27. सरुव हस्ताय देवाय धन्विने भार्गवाय च बहुरूपाय विश्वस्य पतये चीरवाससे ॥ 27 ॥

  28. सहस्रशिरसे चैव सहस्रनयनाय च सहस्रबाहवे चैव सहस्रचरणाय च ॥ 28 ॥

  29. शरणं पराप्य कौन्तेय वरदं भुवनेश्वरम उमापतिं विरूपाक्षं दक्षयज्ञनिबर्हणम परजानां पतिम अव्यग्रं भूतानां पतिम अव्ययम ॥ 29 ॥

  30. कपर्दिनं वृषावर्तं वृषनाभं वृषध्वजम वृषदर्पं वृषपतिं वृषशृङ्गं वृषर्षभम ॥ 30 ॥

  31. वृषाङ्कं वृषभॊदारं वृषभं वृषभेक्षणम वृषायुधं वृषशरं वृषभूतं महेश्वरम ॥ 31 ॥

  32. महॊदरं महाकायं दवीपिचर्म निवासिनम लॊकेशं वरदं मुण्डं बरह्मण्यं बराह्मण परियम ॥ 32 ॥

  33. तरिशूलपाणिं वरदं खड्गचर्म धरं परभुम पिनाकिनं खण्ड परशुं लॊकानां पतिम ईश्वरम परपद्ये शरणं देवं शरण्यं चीरवाससम ॥ 33 ॥

  34. नमस तस्मै सुरेशाय यस्य वैश्वरणः सखा सुवाससे नमॊ नित्यं सुव्रताय सुधन्विने ॥ 34 ॥

  35. सरुव हस्ताय देवाय सुखधन्वाय धन्विने धन्वन्तराय धनुषे धन्वाचार्याय धन्विने ॥ 35 ॥

  36. उग्रायुधाय देवाय नमः सुरवराय च नमॊ ऽसतु बहुरूपाय नमश च बहुधन्विने ॥ 36 ॥

  37. नमॊ ऽसतु सथाणवे नित्यं सुव्रताय सुधन्विने नमॊ ऽसतु तरिपुरघ्नाय भग घनाय च वै नमः ॥ 37 ॥

  38. वनस्पतीनां पतये नराणां पतये नमः अपां च पतये नित्यं यज्ञानां पतये नमः ॥ 38 ॥

  39. पूष्णॊ दन्तविनाशाय तर्यक्षाय वरदाय च नीलकण्ठाय पिङ्गाय सवर्णकेशाय वै नमः ॥ 39 ॥

  40. कर्माणि चैव दिव्यानि महादेवस्य धीमतः तानि ते कीर्तयिष्यामि यथा परज्ञं यथा शरुतम ॥ 40 ॥

  41. न सुरा नासुरा लॊके न गन्धर्वा न राक्षसाः सुखम एधन्ति कुपिते तस्मिन्न अपि गुहा गताः ॥ 41 ॥

  42. विव्याध कुपितॊ यज्ञं निर्भयस तु भवस तदा धनुषा बाणम उत्सृज्य स घॊषं विननाद च ॥ 42 ॥

  43. ते न शर्म कुतः शान्तिं लेभिरे सम सुरास तदा विद्रुते सहसा यज्ञे कुपिते च महेश्वरे ॥ 43 ॥

  44. तेन जयातलघॊषेण सर्वे लॊकाः समाकुलाः बभूवुर वशगाः पार्थ निपेतुश च सुरासुराः ॥ 44 ॥

  45. आपश चुक्षुभिरे सर्वाश चकम्पे च वसुंधरा पर्वताश च वयशीर्यन्त दिशॊ नागाश च मॊहिताः ॥ 45 ॥

  46. अन्धाश च तमसा लॊका न परकाशन्त संवृताः जघ्निवान सह सूर्येण सर्वेणां जयॊतिषां परभाः ॥ 46 ॥

  47. चुक्रुशुर भयभीताश च शान्तिं चक्रुस तथैव च ऋषयः सर्वभूतानाम आत्मनश च सुखैषिणः ॥ 47 ॥

  48. पूषाणम अभ्यद्रवत शंकरः परहसन्न इव पुरॊडाशं भक्षयतॊ दशनान वै वयशातयत ॥ 48 ॥

  49. ततॊ निश्चक्रमुर देवा वेपमाना नताः सम तम पुनश च संदधे दीप्तं देवानां निशितं शरम ॥ 49 ॥

  50. रुद्रस्य यज्ञभागं च विशिष्टं ते नव अकल्पयन भयेन तरिदशा राजञ शरणं च परपेदिरे ॥ 50 ॥

  51. तेन चैवातिकॊपेन स यज्ञः संधितस तदा यत्ताश चापि सुरा आसन यत्ताश चाद्यापि तं परति ॥ 51 ॥

  52. असुराणां पुराण्य आसंस तरीणि वीर्यवतां दिवि आयसं राजतं चैव सौवर्णम अपरं महत ॥ 52 ॥

  53. आयसं तारकाक्षस्य कमलाक्षस्य राजतम सौवर्णं परमं हय आसीद विद्युन्मालिन एव च ॥ 53 ॥

  54. न शक्तस तानि मघवान भेत्तुं सर्वायुधैर अपि अथ सर्वे ऽमरा रुद्रं जग्मुः शरणम अर्दिताः ॥ 54 ॥

  55. ते तम ऊचुर महात्मानं सर्वे देवाः स वासवाः रुद्र रौद्रा भविष्यन्ति पशवः सर्वकर्मसु निपातयिष्यसे चैनान असुरान भुवनेश्वर ॥ 55 ॥

  56. स तथॊक्तस तथेत्य उक्त्वा देवानां हितकाम्यया अतिष्ठत सथाणुभूतः स सहस्रं परिवत्सरान ॥ 56 ॥

  57. यदा तरीणि समेतानि अन्तरिक्षे पुराणि वै तरिपर्वणा तरिशल्येन तेन तानि बिभेद सः ॥ 57 ॥

  58. पुराणि न च तं शेकुर दानवाः परतिवीक्षितुम शरं कालाग्निसंयुक्तं विष्णुसॊमसमायुतम ॥ 58 ॥

  59. बालम अङ्कगतं कृत्वा सवयं पञ्च शिखं पुनः उमा जिज्ञासमाना वै कॊ यम इत्य अब्रवीत सुरान ॥ 59 ॥

  60. बाहुं सवज्रं शक्रस्य करुद्धस्यास्तम्भयत परभु स एष भगवान देवः सर्वलॊकेश्वरः परभुः ॥ 60 ॥

  61. न संबुबुधिरे चैनं देवास तं भुवनेश्वरम स परजापतयः सर्वे बालार्कसदृशप्रभम ॥ 61 ॥

  62. अथाभ्येत्य ततॊ बरह्मा दृष्ट्वा च स महेश्वरम अयं शरेष्ठ इति जञात्वा ववन्दे तं पितामहः ॥ 62 ॥

  63. ततः परसादयाम आसुर उमां रुद्रं च ते सुराः अभवच च पुनर बाहुर यथा परकृतिवज्रिणः ॥ 63 ॥

  64. तेषां परसन्नॊ भगवान सपत्नीकॊ वृषध्वजः देवानां तरिदशश्रेष्ठॊ दक्षयज्ञविनाशनः ॥ 64 ॥

  65. स वै रुद्रः स च शिवः सॊ ऽगनिः शर्वः स सर्ववित स चेन्द्रश चैव वायुश च सॊ ऽशविनौ स च विद्युतः ॥ 65 ॥

  66. स भवः स च पर्जन्यॊ महादेवः स चानघः स चन्द्रमाः स चेशानः स सूर्यॊ वरुणश च सः ॥ 66 ॥

  67. स कालः सॊ ऽनतकॊ मृत्युः स यमॊ रात्र्यहानि च मासार्ध मासा ऋतवः संध्ये संवत्सरश च सः ॥ 67 ॥

  68. स च धाता विधाता च विश्वात्मा विश्वकर्मकृत सर्वासां देवतानां च धारयत्य अवपुर वपुः ॥ 68 ॥

  69. सर्वैर देवैः सतुतॊ देवः सैकदा बहुधा च सः शतधा सहस्रधा चैव तथा शतसहस्रधा ॥ 69 ॥

  70. ईदृशः स महादेवॊ भूयश च भगवान अजः न हि सर्वे मया शक्या वक्तुं भगवतॊ गुणाः ॥ 70 ॥

  71. सर्वैर गरहैर गृहीतान वै सर्वपापसमन्वितान स मॊचयति सुप्रीतः शरण्यः शरणागतान ॥ 71 ॥

  72. आयुर आरॊग्यम ऐश्वर्यं वित्तं कामांश च पुष्कलान स ददाति मनुष्येभ्यः स चैवाक्षिपते पुनः ॥ 72 ॥

  73. सेन्द्रादिषु च देवेषु तस्य चैश्वर्यम उच्यते स चैव वयाहृते लॊके मनुष्याणां शुभाशुभे ॥ 73 ॥

  74. ऐश्वर्याच चैव कामानाम ईश्वरः पुनर उच्यते महेश्वरश च भूतानां महताम ईश्वरश च सः ॥ 74 ॥

  75. बहुभिर बहुधा रूपैर विश्वं वयाप्नॊति वै जगत अस्य देवस्य यद वक्त्रं समुद्रे तद अतिष्ठत ॥ 75 ॥

  76. एष चैव शमशानेषु देवॊ वसति नित्यशः यजन्त्य एनं जनास तत्र वीर सथान इतीश्वरम ॥ 76 ॥

  77. अस्य दीप्तानि रूपाणि घॊराणि च बहूनि च लॊके यान्य अस्य कुर्वन्ति मनुष्याः परवदन्ति च ॥ 77 ॥

  78. नामधेयानि लॊकेषु बहून्य अत्र यथार्थवत निरुच्यन्ते महत्त्वाच च विभुत्वात कर्मभिस तथा ॥ 78 ॥

  79. वेदे चास्य समाम्नातं शतरुद्रीयम उत्तमम नाम्ना चानन्त रुद्रेति उपस्थानं महात्मनः ॥ 79 ॥

  80. स कामानां परभुर देवॊ ये दिव्या ये च मानुषाः स विभुः स परभुर देवॊ विश्वं वयाप्नुवते महत ॥ 80 ॥

  81. जयेष्ठं भूतं वदन्त्य एनं बराह्मणा मुनयस तथा परथमॊ हय एष देवानां मुखाद अस्यानलॊ ऽभवत ॥ 81 ॥

  82. सर्वथा यत पशून पाति तैश च यद रमते पुनः तेषाम अधिपतिर यच च तस्मात पशुपतिः समृतः ॥ 82 ॥

  83. नित्येन बरह्मचर्येण लिङ्गम अस्य यदा सथितम महयन्ति च लॊकाश च महेश्वर इति समृतः ॥ 83 ॥

  84. ऋषयश चैव देवाश च गन्धर्वाप्सरसस तथा लिङ्गम अस्यार्चयन्ति सम तच चाप्य ऊर्ध्वं समास्थितम ॥ 84 ॥

  85. पूज्यमाने ततस तस्मिन मॊदते स महेश्वरः सुखी परीतश च भवति परहृष्टश चैव शंकरः ॥ 85 ॥

  86. यद अस्य बहुधा रूपं भूतभव्य भवत सथितम सथावरं जङ्गमं चैव बहुरूपस ततः समृतः ॥ 86 ॥

  87. एकाक्षॊ जाज्वलन्न आस्ते सर्वतॊ ऽकषिमयॊ ऽपि वा करॊधाद्यश चाविशल लॊकांस तस्माच छर्व इति समृतः ॥ 87 ॥

  88. धूम्रं रूपं च यत तस्य धूर्जटिस तेन उच्यते विश्वे देवाश च यत तस्मिन विश्वरूपस ततः समृतः ॥ 88 ॥

  89. तिस्रॊ देवीर यदा चैव भजते भुवनेश्वरः दयाम अपः पृथिवीं चैव तर्यम्बकश च ततः समृतः ॥ 89 ॥

  90. समेधयति यन नित्यं सर्वार्थान सर्वकर्मसु शिवम इच्छन मनुष्याणां तस्माद एश शिवः समृतः ॥ 90 ॥

  91. सहस्राक्षॊ ऽयुताक्षॊ वा सर्वतॊ ऽकषिमयॊ ऽपि वा यच च विश्वं महत पाति महादेवस ततः समृतः ॥ 91 ॥

  92. दहत्य ऊर्ध्वं सथितॊ यच च पराणॊत्पत्तिः सथितिश च यत सथितलिङ्गश च यन नित्यं तस्मात सथाणुर इति समृतः ॥ 92 ॥

  93. विषमस्थः शरीरेषु समश च पराणिनाम इह स वायुर विषमस्थेषु पराणापानशरीरिषु ॥ 93 ॥

  94. पूजयेद विग्रहं यस तु लिङ्गं वापि समर्चयेत लिङ्गं पूजयिता नित्यं महतीं शरियम अश्नुते ॥ 94 ॥

  95. ऊरुभ्याम अर्धम आग्नेयं सॊमार्धं च शिवा तनुः आत्मनॊ ऽरधं च तस्याग्निः सॊमॊ ऽरधं पुनर उच्यते ॥ 95 ॥

  96. तैजसी महती दीप्ता देवेभ्यश च शिवा तनुः भास्वती मानुषेष्व अस्य तनुर घॊराग्निर उच्यते ॥ 96 ॥

  97. बरह्मचर्यं चरत्य एष शिवा यास्य तनुस तया यास्य घॊरतरा मूर्तिः सर्वान अत्ति तयेश्वरः ॥ 97 ॥

  98. यन निर्दहति यत तीक्ष्णॊ यद उग्रॊ यत परतापवान मांसशॊणितमज्जादॊ यत ततॊ रुद्र उच्यते ॥ 98 ॥

  99. एष देवॊ महादेवॊ यॊ ऽसौ पार्थ तवाग्रतः संग्रामे शात्रवान निघ्नंस तवया दृष्टः पिनाक धृक ॥ 99 ॥

  100. एष वै भगवान देवः संग्रामे यति ते ऽगरतः येन दत्तानि ते ऽसत्राणि यैस तवया दानवा हताः ॥ 100 ॥

  101. धन्यं यशस्यम आयुष्यं पुण्यं वेदैश च संज्ञितम देवदेवस्य ते पार्थ वयाख्यात्म शतरुद्रियम ॥ 101 ॥

  102. सर्वार्थसाधकं पुण्यं सर्वकिल्बिष नाशनम सर्वपापप्रशमनं सर्वदुःखभयापहम ॥ 102 ॥

  103. चतुर्विधम इदं सतॊत्रं यः शृणॊति नरः सदा विजित्य सर्वाञ शत्रून स रुद्र लॊके महीयते ॥ 103 ॥

  104. चरितं महात्मनॊ दिव्यं सांग्रामिकम इदं शुभम पठन वै शतरुद्रीयं शृण्वंश च सततॊत्थितः ॥ 104 ॥

  105. भक्तॊ विश्वेश्वरं देवं मानुषेषु तु यः सदा वरान स कामाँल लभते परसन्ने तर्यम्बके नरः ॥ 105 ॥

  106. गच्छ युध्यस्व कौन्तेय न तवास्ति पराजयः यस्य मन्त्री च गॊप्ता च पार्श्वतस ते जनार्दनः ॥ 106 ॥

  107. [स] एवम उक्त्वार्जुनं संख्ये पराशर सुतस तदा जगाम भरतश्रेष्ठ यथागतम अरिंदम ॥ 107 ॥

Reach this point to mark the section finished.

Continue to अध्याय 1

Previous: अध्याय 172