[स] ततॊ दुःशासनॊ राजञ शैनेयं समुपाद्रवत किरञ शरसहस्राणि पर्जन्य इव वृष्टिमान ॥ 1 ॥
स विद्ध्वा सात्यकिं षष्ट्या तथा षॊडशभिः शरैः नाकम्पयत सथितं युद्धे मैनाकम इव पर्वतम ॥ 2 ॥
स तु दुःशासनं वीरः सायकैर आवृणॊद भृशम मशकं समनुप्राप्तम ऊर्ण नाभिर इवॊर्णया ॥ 3 ॥
दृष्ट्वा दुःशासनं राजा तथा शरशताचितम तरिगर्तांश चॊदयाम आस युयुधान रथं परति ॥ 4 ॥
ते ऽगच्छन युयुधानस्य समीपं करूर कारिणः तरिगर्तानां तरिसाहस्रा रथा युद्धविशारदाः ॥ 5 ॥
ते तु तं रथवंशेन महता पर्यवारयन सथिरां कृत्वा मतिं युद्धे भूत्वा संशप्तका मिथः ॥ 6 ॥
तेषां परयततां युद्धे शरवर्षाणि मुञ्चताम यॊधान पञ्चशतान मुख्यान अग्रानीके वयपॊथयत ॥ 7 ॥
ते ऽपतन्त हतास तूर्णं शिनिप्रवर सायकैः महामारुत वेगेन रुग्णा इव महाद्रुमाः ॥ 8 ॥
रथैश च बहुधा छिन्नैर धवजैश चैव विशां पते हयैश च कनकापीडैः पतितैस तत मेदिनी ॥ 9 ॥
शैनेय शरसंकृत्तैः शॊणितौघपरिप्लुतैः अशॊभत महाराज कुंशुकैर इव पुष्पितैः ॥ 10 ॥
ते वध्यमानाः समरे युयुधानेन तावकाः तरातारं नाध्यगच्छन्त पङ्कमग्ना इव दविपाः ॥ 11 ॥
ततस ते पर्यवर्तन्त सर्वे दरॊण रथं परति भयात पतगराजस्य गर्तानीव महॊरगाः ॥ 12 ॥
हत्वा पञ्चशतान यॊधाञ शरैर आशीविषॊपमैः परायात स शनकैर वीरॊ धनंजयरथं पति ॥ 13 ॥
तं परयान्तं नरश्रेष्ठं पुत्रॊ दुःशासनस तव विव्याध नवभिस तूर्णं शरैः संनतपर्वभिः ॥ 14 ॥
स तु तं परतिविव्याध पञ्चभिर निशितैः शरैः रुक्मपुङ्खैर महेष्वासॊ गार्ध्रपत्रैर अजिह्मगैः ॥ 15 ॥
सात्यकिं तु महाराज परहसन्न इव भारत दुःशासनस तरिभिर विद्ध्वा पुनर विव्याध पञ्चभिः ॥ 16 ॥
शैनेयस तव पुत्रं तु विद्ध्वा पञ्चभिर आशुगैः धनुश चास्य रणे छित्त्वा विस्मयन्न अर्जुनं ययौ ॥ 17 ॥
ततॊ दुःशासनः करुद्धॊ विष्णि वीराय गच्छते सर्वपारशवीं शक्तिं विससर्ज जिघांसया ॥ 18 ॥
तां तु शक्तिं तदा घॊरां तव पुत्रस्य सात्यकिः चिच्छेद शतधा राजन निशितैः कङ्कपत्रिभिः ॥ 19 ॥
अथान्यद धनुर आदाय पुत्रस तव जनेश्वर सात्यकिं दशभिर विद्ध्वा सिंहनादं ननाद ह ॥ 20 ॥
सात्यकिस तु रणे करुद्धॊ मॊहयित्वा सुतं तव शरैर अग्निशिखाकारैर आजघान सतनान्तरे सर्वायसैस तीक्ष्णवक्त्रैर अष्टाभिर विव्यधे पुनः ॥ 21 ॥
दुःशासनस तु विंशत्या सात्यकिं परत्यविध्यत सात्वतॊ ऽपि महाराज तं विव्याध सतनान्तरे तरिभिर एव महावेगैः शरैः संनतपर्वभिः ॥ 22 ॥
ततॊ ऽसय वाहान निशितैः शरैर जघ्ने महारथः सारथिं च सुसंक्रुद्धः शरैः संनतपर्वभिः ॥ 23 ॥
धनुर एकेन भल्लेन हस्तावापं च पञ्चभिः धवजं च रथशक्तिं च भल्लाभ्यां परमास्त्रवित चिच्छेद विशिखैस तीक्ष्णैस तथॊभौ पार्ष्णिसारथी ॥ 24 ॥
स छिन्नधन्वा विरथॊ हताश्वॊ हतसारथिः तरिगर्तसेनापतिना सवरथेनापवाहितः ॥ 25 ॥
तम अभिद्रुत्य शैनेयॊ मुहूर्तम इव भारत न जघान महाबाहुर भीमसेन वचः समरन ॥ 26 ॥
भीमसेनेन हि वधः सुतानां तव भारत परतिज्ञातः सभामध्ये सर्वेषाम एव संयुगे ॥ 27 ॥
तथा दुःशासनं जित्वा सात्यकिः संयुगे परभॊ जगाम तवरितॊ राजन येन यातॊ धनंजयः ॥ 28 ॥
द्रोणपर्व · Drona Parva
अध्याय 99
Reach this point to mark the section finished.
Continue to अध्याय 100