[धृ] किं तस्यां मम सेनायां नासन के चिन महारथाः ये तथा सात्यकिं यान्तं नैवाघ्नन नाप्य अवारयन ॥ 1 ॥
एकॊ हि समरे कर्मकृतवान सत्यविक्रमः शक्रतुल्यबलॊ युद्धे महेन्द्रॊ दानवेष्व इव ॥ 2 ॥
अथ वा शून्यम आसीत तद येन यातः स सात्यकिः एकॊ वै बहुलाः सेनाः परमृद्नन पुरुषर्षभः ॥ 3 ॥
कथं च युध्यमानानाम अपक्रान्तॊ महात्मनाम एकॊ बहूनां शैनेयस तन ममाचक्ष्व संजय ॥ 4 ॥
[स] राजन सेना समुद्यॊगॊ रथनागाश्वपत्तिमान तुमुलस तव सैन्यानां युगान्तसदृशॊ ऽभवत ॥ 5 ॥
आह्णिकेषु समूहेषु तव सैन्यस्य मानद नास्ति लॊके समः कश चित समूह इति मे मतिः ॥ 6 ॥
तत्र देवाः सम भाषन्ते चारणाश च समागताः एतद अन्ताः समूहा वै भविष्यन्ति महीतले ॥ 7 ॥
न चैव तादृशः कश चिद वयूह आसीद विशां पते यादृग जयद्रथ वधे दरॊणेन विहितॊ ऽभवत ॥ 8 ॥
चण्डवाताभिपन्नानां समौद्राणाम इव सवनः रणे ऽभवद बलौघानाम अन्यॊन्यम अभिधावताम ॥ 9 ॥
पार्थिवानां समेतानां बहून्य आसन नरॊत्तम तवद बले पाण्डवानां च सहस्राणि शतानि च ॥ 10 ॥
संरब्धानां परवीराणां समरे दृढकर्मणाम तत्रासीत सुमहाञ शब्दस तुमुलॊ लॊमहर्षणः ॥ 11 ॥
अथाक्रन्दद भीमसेनॊ धृष्टद्युम्नश च मारिष नकुलः सहदेवश च धर्मराजश च पाण्डवः ॥ 12 ॥
आगच्छत परहरत बलवत परिधावत परविष्टाव अरिसेनां हि वीरौ माधव पाण्डवौ ॥ 13 ॥
यथासुखेन गच्छेतां जयद्रथवधं परति तथा परकुरुते कषिप्रम इति सैन्यान्य अचॊदयत तयॊर अभावे कुरवः कृतार्थाः सयुर वयं जिताः ॥ 14 ॥
ते यूयं सहिता भूत्वा तूर्णम एव बलार्णवम कषॊभयध्वं महावेगाः पवनाः सागरं यथा ॥ 15 ॥
भीमसेनेन ते राजन पाञ्चाल्येन च चॊदिताः आजघ्नुः कौरवान संख्ये तयक्त्वासून आत्मनः परियान ॥ 16 ॥
इच्छन्तॊ निधनं युद्धे शस्त्रैर उत्तमतेजसः सवर्गार्थं मित्रकार्यार्थं नाभ्यरक्षन्त जीवितम ॥ 17 ॥
तथैव तावका राजन परार्थयन्तॊ महद यशः आर्यां युद्धे मतिं कृत्वा युद्ध्यायैवॊपतस्थिरे ॥ 18 ॥
तस्मिंस तु तुमुले युद्धे वर्तमाने महाभये हत्वा सर्वाणि सैन्यानि परायात सात्यकिर अर्जुनम ॥ 19 ॥
कवचानां परभास तत्र सूर्यरश्मि विचित्रिताः दृष्टीः संख्ये सैनिकानां परतिजघ्नुः समन्ततः ॥ 20 ॥
तथा परयतमानेषु पाण्डवेयेषु निर्भयः दुर्यॊधनॊ महाराज वयगाहत महद बलम ॥ 21 ॥
स संनिपातस तुमुलस तेषां तस्य च भारत अभवत सर्वसैन्यानाम अभाव करणॊ महान ॥ 22 ॥
[धृ] तथागतेषु सैन्येषु तथा कृच्छ्रगतः सवयम कच चिद दुर्यॊधनः सूत नाकार्षीत पृष्ठतॊ रणम ॥ 23 ॥
एकस्य च बहूनां च संनिपातॊ महाहवे विशेषतॊ नृपतिना विषमः परतिभाति मे ॥ 24 ॥
सॊ ऽतयन्तसुखसंवृद्धॊ लक्ष्म्या लॊकस्य चेश्वरः एकॊ बहून समासाद्य कच चिन नासीत पराङ्मुखः ॥ 25 ॥
[स] राजन सग्रामम आश्चर्यं तव पुत्रस्य भारत एकस्य च बहूनां च शृणुष्व गदतॊ ऽदभुतम ॥ 26 ॥
दुर्यॊधनेन सहसा पाण्डवी पृतना रणे नलिनी दविरदेनेव समन्ताद विप्रलॊडिता ॥ 27 ॥
तथा सेनां कृतां दृष्ट्वा तत्र पुत्रेण कौरव भीमसेनपुरॊगास तं पाञ्चालाः समुपाद्रवन ॥ 28 ॥
स भीमसेनं दशभिर माद्रीपुत्रौ तरिभिस तरिभिः विराटद्रुपदौ षड्भिः शतेन च शिखण्डिनम ॥ 29 ॥
धृष्टद्युम्नं च विंशत्या धर्मपुत्रं च सप्तभिः केकयान दशभिर विद्ध्वा दरौपदेयांस तरिभिस तरिभिः ॥ 30 ॥
शतशश चापरान यॊधान सद्विपांश च रथान रणे शरैर अवचकर्तॊग्रैः करुद्धॊ ऽनतक इव परजाः ॥ 31 ॥
न संदधन विमुञ्चन वा मण्डलीकृतकार्मुकः अदृश्यत रिपून निघ्नञ शिक्षयास्त्र बलेन च ॥ 32 ॥
तस्य तान निघ्नतः शत्रून हेमपृष्ठं महद धनुः भल्लाभ्यां पाण्डवॊ जयेष्ठस तरिधा चिच्छेद मारिष ॥ 33 ॥
विव्याध चैनं बहुभिः सम्यग अस्तैः शितैः शरैः वर्माण्य आशु समासाद्य ते भग्नाः कषितिम आविशन ॥ 34 ॥
ततः परमुदिताः पार्थाः परिवव्रुर युधिष्ठिरम यथा वृत्रवधे देवा मुदा शक्रं महर्षिभिः ॥ 35 ॥
अथ दुर्यॊधनॊ राजा दृढम आदाय कार्मुकम तिष्ठ तिष्ठेति राजानं बरुवन पाण्डवम अभ्ययात ॥ 36 ॥
तं तथा वादिनं राजंस तव पुत्रं महारथम परत्युद्ययुः परमुदिताः पाञ्चाला जयगृद्धिनः ॥ 37 ॥
तान दरॊणः परतिजग्राह परीप्सन युधि पाण्डवम चण्डवातॊद्धुतान मेघान स जलान अचलॊ यथा ॥ 38 ॥
तत्र राजन महान आसीत संग्रामॊ भूरिवर्धनः रुद्रस्याक्रीड संकाशः संहारः सर्वदेहिनाम ॥ 39 ॥
द्रोणपर्व · Drona Parva
अध्याय 100
Reach this point to mark the section finished.
Continue to अध्याय 101