[स] दुःशासन रथं दृष्ट्वा समीपे पर्यवस्थितम भारद्वाजस ततॊ वाक्यं दुःशासनम अथाब्रवीत ॥ 1 ॥
दुःशासन रथाः सर्वे कस्माद एते परविद्रुताः कच चित कषेमं तु नृपतेः कच चिज जीवति सैन्धवः ॥ 2 ॥
राजपुत्रॊ भवान अत्र राजभ्राता महारथः किमर्थं दरवसे युद्धे यौवराज्यम अवाप्य हि ॥ 3 ॥
सवयं वैरं महत कृत्वा पाञ्चालैः पाण्डवैः सह एकं सात्यकिम आसाद्य कथं भीतॊ ऽसि संयुगे ॥ 4 ॥
न जानीषे पुरा तवं तु गृह्णन्न अक्षान दुरॊदरे शरा हय एते भविष्यन्ति दारुणाशीविषॊपमाः ॥ 5 ॥
अप्रियाणां च वचनं पाण्डवेषु विशेषतः दरौपद्याश च परिक्लेशस तवन मूलॊ हय अभवत पुरा ॥ 6 ॥
कव ते मानश च दर्पश च कव च तद वीर गर्जितम आशीविषसमान पार्थान कॊपयित्वा कव यास्यसि ॥ 7 ॥
शॊच्येयं भारती सेना राजा चैव सुयॊधनः यस्य तवं कर्कशॊ भराता पलायनपरायणः ॥ 8 ॥
ननु नाम तवया वीर दीर्यमाणा भयार्दिता सवबाहुबलम आस्थाय रक्षितव्या हय अनीकिनी स तवम अद्य रणं तयक्त्वा भीतॊ हर्षयसे परान ॥ 9 ॥
विद्रुते तवयि सैन्यस्य नायके शत्रुसूदन कॊ ऽनयः सथास्यति संग्रामे भीतॊ भीते वयपाश्रये ॥ 10 ॥
एकेन सात्वतेनाद्य युध्यमानस्य चानघ पलायने तव मतिः संग्रामाद धि परवर्तते ॥ 11 ॥
यदा गाण्डीवधन्वानं भीमसेनं च कौरव यमौ च युधि दरष्टासि तदा तवं किं करिष्यसि ॥ 12 ॥
युधि फल्गुन बाणानां सूर्याग्निसमतेजसाम न तुल्याः सात्यकिशरा येषां भीतः पलायसे ॥ 13 ॥
यदि तावत कृता बुद्धिः पलायनपरायणा पृथिवीधर्मराजस्य शमेनैव परदीयताम ॥ 14 ॥
यावत फल्गुन नाराचा निर्मुक्तॊरग संनिभाः नाविशन्ति शरीरं ते तावत संशाम्य पाण्डवैः ॥ 15 ॥
यावत ते पृथिवीं पार्था हत्वा भरातृशतं रणे नाक्षिपन्ति महात्मानस तावत संशाम्य पाण्डवैः ॥ 16 ॥
यावन न करुध्यते राजा धर्मपुत्रॊ युधिष्ठिरः कृष्णश च समरश्लाघी तावत संशाम्य पाण्डवैः ॥ 17 ॥
यावद भीमॊ महाबाहुर विगाह्य महतीं चमूम सॊदरांस ते न मृद्नाति तावत संशमयाण्डवैः ॥ 18 ॥
पूर्वम उक्तश च ते भराता भीष्मेण स सुयॊधनः अजेयाः पाण्डवाः संख्ये सौम्य संशाम्य पाण्डवैः न च तत कृतवान मन्दस तव भराता सुयॊधनः ॥ 19 ॥
स युद्धे धृतिम आस्थाय यत्तॊ युध्यस्व पाण्डवैः गच्छ तूर्णं रथेनैव तत्र तिष्ठति सात्यकिः ॥ 20 ॥
तवया हीनं बलं हय एतद विद्रविष्यति भारत आत्मार्थं यॊधय रणे सात्यकिं सत्यविक्रमम ॥ 21 ॥
एवम उक्तस तव सुतॊ नाब्रवीत किं चिद अप्य असौ शरुतं चाश्रुतवत कृत्वा परायाद येन स सात्यकिः ॥ 22 ॥
सैन्येन महता युक्तॊ मलेच्छानाम अनिवर्तिनाम आसाद्य च रणे यत्तॊ युयुधानम अयॊधयत ॥ 23 ॥
दरॊणॊ ऽपि रथिनां शरेष्ठः पाञ्चालान पाण्डवांस तथा अभ्यद्रवत संक्रुद्धॊ जवम आस्थाय मध्यमम ॥ 24 ॥
परविश्य च रणे दरॊणः पाञ्चालानां वरूथिनीम दरवयाम आस यॊधान वै शतशॊ ऽथ सहस्रशः ॥ 25 ॥
ततॊ दरॊणॊ महाराज नाम विश्राव्य संयुगे पाण्डुपाञ्चाल मत्स्यानां परचक्रे कदनं महत ॥ 26 ॥
तं जयन्तम अनीकानि भारद्वाजं ततस ततः पाञ्चाल पुत्रॊ दयुतिमान वीर केतुः समभ्ययात ॥ 27 ॥
स दरॊणं पञ्चभिर विद्ध्वा शरैः संनतपर्वभिः धवजम एकेन विव्याध सारथिं चास्य सप्तभिः ॥ 28 ॥
तत्राद्भुतं महाराज दृष्टवान अस्मि संयुगे यद दरॊणॊ रभसं युद्धे पाञ्चाल्यं नाभ्यवर्तत ॥ 29 ॥
संनिरुद्धं रणे दरॊणं पाञ्चाला वीक्ष्य मारिष आवव्रुः सर्वतॊ राजन धर्मपुत्र जयैषिणः ॥ 30 ॥
ते शरैर अग्निसंकाशैस तॊमरैश च महाधनैः शस्त्रैश च विविधै राजन दरॊणम एकम अवाकिरन ॥ 31 ॥
निहत्य तान बाणगणान दरॊणॊ राजन समन्ततः महाजलधरान वयॊम्नि मातरिश्वा विवान इव ॥ 32 ॥
ततः शरं महाघॊरं सूर्यपावक संनिभम संदधे परवीरघ्नॊ वीर केतुरथं पति ॥ 33 ॥
स भित्त्वा तु शरॊ राजन पाञ्चाल्यं कुलनन्दनम अभ्यगाद धरणीं तूर्णं लॊहितार्द्रॊ जवलन्न इव ॥ 34 ॥
ततॊ ऽपतद रथात तूर्णं पाञ्चाल्यः कुलनन्दनः पर्वताग्राद इव महांश चम्पकॊ वायुपीडितः ॥ 35 ॥
तस्मिन हते महेष्वासे राजपुत्रे महाबले पाञ्चालास तवरिता दरॊणं समन्तात पर्यवारयन ॥ 36 ॥
चित्रकेतुः सुधन्वा च चित्रवर्मा च भारत तथा चित्ररथश चैव भरातृव्यसनकर्षिताः ॥ 37 ॥
अभ्यद्रवन्त सहिता भारद्वाजं युयुत्सवः मुञ्चन्तः शरवर्षाणि तपान्ते जलदा इव ॥ 38 ॥
स वध्यमानॊ बहुधा राजपुत्रैर महारथैः वयश्व सूत रथांश चक्रे कुमारान कुपितॊ रणे ॥ 39 ॥
तथापरैः सुनिशितैर भल्लैस तेषां महायशाः पुष्पाणीव विचिन्वन हि सॊत्तमाङ्गान्य अपातयत ॥ 40 ॥
ते रथेभ्यॊ हताः पेतुः कषितौ राजन सुवर्चसः देवासुरे पुरा युद्धे यथा दैतेय दानवाः ॥ 41 ॥
तान निहत्य रणे राजन भारद्वाजः परतापवान कार्मुकं भरामयाम आस हेमपृष्ठं दुरासदम ॥ 42 ॥
पाञ्चालान निहतान दृष्ट्वा देवकल्पान महारथान धृष्टद्युम्नॊ भृशं करुद्धॊ नेत्राभ्यां पातयञ जलम अभ्यवर्तत संग्रामे करुद्धॊ दरॊण रथं परति ॥ 43 ॥
ततॊ हाहेति सहसा नादः समभवन नृप पाञ्चाल्येन रणे दृष्ट्वा दरॊणम आवारितं शरैः ॥ 44 ॥
संछाद्यमानॊ बहुधा पार्षतेन महात्मना न विव्यथे ततॊ दरॊणः समयन्न एवान्वयुध्यत ॥ 45 ॥
ततॊ दरॊणं महाराज पाञ्चाल्यः करॊधमूर्छितः आजघानॊरसि करुद्धॊ नवत्या नतपर्वणाम ॥ 46 ॥
स गाढविद्धॊ बलिना भारद्वाजॊ महायशाः निषसाद रथॊपस्थे कश्मलं च जगाम ह ॥ 47 ॥
तं वै तथागतं दृष्ट्वा धृष्टद्युम्नः पराक्रमी समुत्सृज्य धनुस तूर्णम असिं जग्राह वीर्यवान ॥ 48 ॥
अवप्लुत्य रथाच चापि तवरितः स महारथः आरुरॊह रथं तूर्णं भारद्वाजस्य मारिष हर्तुम ऐच्छच छिरः कायात करॊधसंरक्तलॊचनः ॥ 49 ॥
परत्याश्वस्तस ततॊ दरॊणॊ धनुर गृह्य महाबलः शरैर वैतस्तिकै राजन नित्यमासन्न यॊधिभिः यॊधयाम आस समरे धृषद्युम्नं महारथम ॥ 50 ॥
ते हि वैतस्तिका नाम शरा आसन्न यॊधिनः दरॊणस्य विदिता राजन धृष्टद्युम्नम अवाक्षिपन ॥ 51 ॥
स वध्यमानॊ बहुभिः सायकैस तैर महाबलः अवप्लुत्य रथात तूर्णं भग्नवेगः पराक्रमी ॥ 52 ॥
आरुह्य सवरथं वीरः परगृह्य च महद धनुः विव्याध समरे दरॊणं धृष्टद्युम्नॊ महारथः ॥ 53 ॥
तद अद्भुतं तयॊर युद्धं भूतसंघा हय अपूजयन कत्रियाश च महाराज ये चान्ये तत्र सैनिकाः ॥ 54 ॥
अवश्यं समरे दरॊणॊ धृष्टद्युम्नेन संगतः वशम एष्यति नॊ राज्ञः पाञ्चाला इति चुक्रुशुः ॥ 55 ॥
दरॊणस तु तवरितॊ युद्धे धृष्टद्युम्नस्य सारथेः शिरः परच्यावयाम आस फलं पक्वं तरॊर इव ततस ते परद्रुता वाहा राजंस तस्य महात्मनः ॥ 56 ॥
तेषु परद्रवमाणेषु पाञ्चालान सृञ्जयांस तथा वयद्रावयद रणे दरॊणस तत्र तत्र पराक्रमी ॥ 57 ॥
विजित्य पाण्डुपाञ्चालान भारद्वाजः परतापवान सवं वयूहं पुनर आस्थाय सथिरॊ ऽभवद अरिंदमः न चैनं पाण्डवा युद्धे जेतुम उत्सहिरे परभॊ ॥ 58 ॥
द्रोणपर्व · Drona Parva
अध्याय 98
Reach this point to mark the section finished.
Continue to अध्याय 99