[धृ] संप्रमृद्य महत सैन्यं यान्तं शैनेयम अर्जुनम निर्ह्रीका मम ते पुत्राः किम अकुर्वत संजय ॥ 1 ॥
कथं चैषां तथा युद्धे धृतिर आसीन मुमूर्षताम शैनेय चरितं दृष्ट्वा सदृशं सव्यसाचिनः ॥ 2 ॥
किं नु वक्ष्यन्ति ते कषात्रम ऐन्यमध्ये पराजिताः कथं च सात्यकिर युद्धे वयतिक्रान्तॊ महायशाः ॥ 3 ॥
कथं च मम पुत्राणां जीवतां तत्र संजय शैनेयॊ ऽभिययौ युद्धे तन ममाचक्ष्व तत्त्वतः ॥ 4 ॥
अत्यद्भुतम इदं तात तवत्सकाशाच छृणॊम्य अहम एकस्य बहुभिर युद्धं शत्रुभिर वै महारथैः ॥ 5 ॥
विपरीतम अहं मन्ये मन्दभाग्यान सुतान परति यत्रावध्यन्त समरे सात्वतेन महात्मना ॥ 6 ॥
एकस्य हि न पर्याप्तं मत सैन्यं तस्य संजय करुद्धस्य युयुधानस्य सर्वे तिष्ठन्तु पाण्डवाः ॥ 7 ॥
निर्जित्य समरे दरॊणं कृतिनं युद्धदुर्मदम यथा पशुगणान सिंहॊ ऽदवद धन्ता सुतान मम ॥ 8 ॥
कृतवर्मादिभिः शूरैर यतैर बहुभिर आहवे युयुधानॊ न शकितॊ हन्तुं यः पुरुषर्षभः ॥ 9 ॥
नैतद ईदृशकं युद्धं कृतवांस तत्र फल्गुनः यादृशं कृतवान युद्धं शिनेर नप्ता महायशाः ॥ 10 ॥
[स] तव दुर्मन्तिते राजन दुर्यॊधनकृतेन च शृणुष्वावहितॊ भूत्वा यत्ते वक्ष्यामि भारत ॥ 11 ॥
ते पुनः संन्यवर्तन्त कृत्वा संशप्तकान मिथः परां युद्धे पतिं कृत्वा पुत्रस्य तव शासनात ॥ 12 ॥
तरीणि सादिसहस्राणि दुर्यॊधन पुरॊगमाः शकाः काम्बॊजबाह्लीका यवनाः पारदास तथा ॥ 13 ॥
कुणिन्दास तङ्गणाम्बष्ठाः पैशाचाश च स मन्दराः अभ्यद्रवन्त शैनेयं शलभाः पावकं यथा ॥ 14 ॥
युक्ताश च पार्वतीयानां रथाः पाषाण यॊधिनाम शूराः पञ्चशता राजञ शैनेयं समुपाद्रवन ॥ 15 ॥
ततॊ रथसहस्रेण महारथशतेन च दविरदानां सहस्रेण दविसाहस्रैश च वाजिभिः ॥ 16 ॥
शरवर्षाणि मुञ्चन्तॊ विविधानि महारथाः अभ्यद्रवन्त शैनेयम असंख्येयाश च पत्तयः ॥ 17 ॥
तांश च संचॊदयन सर्वान घनतैनम इति भारत दुःशासनॊ महाराज सात्यक्तिं पर्यवारयत ॥ 18 ॥
तत्राद्भुतम अपश्याम शैनेय चरितं महत यद एकॊ बहुभिः सार्धम असंभ्रान्तम अयुध्यत ॥ 19 ॥
अवधीच च रथानीकं दविरदानां च तद बलम सादिनश चैव तान सर्वान दस्यून अपि च सर्वशः ॥ 20 ॥
तत्र चक्रैर विमथितैर मग्नैश च परमायुधैः अक्षैश च बहुधा भग्नैर ईषा दण्डकबन्धुरैः ॥ 21 ॥
कूबरैर मथितैश चापि धवजैश चापि निपातितैः वर्मभिश चामरैश चैव वयवकीर्णा वसुंधरा ॥ 22 ॥
सरग्भिर आभरणैर वस्त्रैर अनुकर्षैश च मारिष संछन्ना वसुधा तत्र दयौर गरहैर इव भारत ॥ 23 ॥
गिरिरूपधराश चापि पतिताः कुञ्जरॊत्तमाः अञ्जनस्य कुले जाता वामनस्य च भारत सुप्रतीक कुले जाता महापद्मकुले तथा ॥ 24 ॥
ऐरावण कुले चैव तथान्येषु कुलेषु च जाता दन्ति वरा राजञ शेरते बहवॊ हताः ॥ 25 ॥
वनायुजान पार्वतीयान कान्बॊजारट्ट बाल्हिकान तथा हयवरान राजन निजघ्ने तत्र सात्यकिः ॥ 26 ॥
नानादेशसमुत्थांश च नाना जात्यांश च पत्तिनः निजघ्ने तत्र शैनेयः शतशॊ ऽथ सहस्रशः ॥ 27 ॥
तेषु परकाल्यमानेषु दस्यून दुःशासनॊ ऽबरवीत निवर्तध्वम अधर्मज्ञा युध्यध्वं किं सृतेन वः ॥ 28 ॥
तांश चापि सर्वान संप्रेक्ष्य पुत्रॊ दुःशासनस तव पाषाण यॊधिनः शूरान पार्वतीयान अचॊदयत ॥ 29 ॥
अश्मयुद्धेषु कुशला नैतज जानाति सात्यकिः अश्मयुद्धम अजानन्तं घनतैनं युद्धकामुकम ॥ 30 ॥
तथैव कुरवः सर्वे नाश्म युद्धविशारदाः अभिद्रवत मा भैष्ट न वः पराप्स्यति सात्यकिः ॥ 31 ॥
ततॊ गजशिशु परख्यैर उपलैः शैलवासिनः उद्यतैर युयुधानस्य सथिता मरणकाङ्क्षिणः ॥ 32 ॥
कषेपणीयैस तथाप्य अन्ये सात्वतस्य वधैषिणः चॊदितास तव पुत्रेण रुरुधुः सर्वतॊदिशम ॥ 33 ॥
तेषाम आपतताम एव शिला युद्धं चिकीर्षताम सात्यकिः पतिसंधाय तरिंशतं पराहिणॊच छरान ॥ 34 ॥
ताम अश्मवृष्टिं तुमुलां पार्वतीयैः समीरिताम बिभेदॊरग संकाशैर नाराचैः शिनिपुंगवः ॥ 35 ॥
तैश अश्मचूर्णैर दीप्यद्भिः खद्यॊतानाम इव वरजैः परायः सैन्यान्य अवध्यन्त हाहाभूतानि मारिष ॥ 36 ॥
ततः पञ्चशताः शूराः समुद्यतमहाशिलाः निकृत्तबाहवॊ राजन निपेतुर धरणीतले ॥ 37 ॥
पाषाण यॊधिनः शूरान यतमानान अवस्थितान अवधीद बहुसाहस्रांस तद अद्भुतम इवाभवत ॥ 38 ॥
ततः पुनर बस्त मुखैर अश्मवृष्टिं समन्ततः अयॊ हस्तैः शूलहस्तैर दैरदैः खश तङ्गणैः ॥ 39 ॥
अम्बष्ठैश च कुणिन्दैश च कषिप्तां कषिप्तां स सात्यकिः नाराचैः परतिविव्याध परेक्षमाणॊ महाबलः ॥ 40 ॥
अद्रीणां भिद्यमानानाम अन्तरिक्षे शितैः शरैः शब्देन पराद्रवन राजन गजाश्वरथपत्तयः ॥ 41 ॥
अश्मपूर्णैः समाकीर्णा मनुष्याश च वयांसि च नाशक्नुवन्न अवस्थातुं भरमरैर इव दंशिताः ॥ 42 ॥
हतशिष्टा विरुधिरा भिन्नमस्तक पिण्डिकाः कुञ्जराः संयवर्तन्त युयुधान रथं परथि ॥ 43 ॥
ततः शब्दः समभवत तव सैन्यस्य मारिष माधवेनार्द्यमानस्य सागरस्येव दारुणः ॥ 44 ॥
तं शब्दं तुमुलं शरुत्वा दरॊणॊ यन्तारम अब्रवीत एष सूत रणे करुद्धः सात्वतानां महारथः ॥ 45 ॥
दारयन बहुधा सैन्यं रणे चरति कालवत यत्रैष शब्दस तुमुलस तत्र सूत रथं नय ॥ 46 ॥
पाषाण यॊधिभिर नूनं युयुधानः समागतः तथा हि रथिनः सर्वे हरियन्ते विद्रुतैर हयैः ॥ 47 ॥
विशस्त्र कवचा रुग्णास तत्र तत्र पतन्ति च न शक्नुवन्ति यन्तारः संयन्तुं तुमुले हयान ॥ 48 ॥
इत्य एवं बरुवतॊ राजन भारद्वाजस्य धीमतः परत्युवाच ततॊ यन्ता दरॊणं शस्त्रभृतां वरम ॥ 49 ॥
आयुष्मन दरवते सैन्यं कौरवेयं समन्ततः पश्य यॊधान रणे भिन्नान धावमानांस ततस ततः ॥ 50 ॥
एते च सहिताः शूराः पाञ्चालाः पाण्डवैः सह तवाम एव हि जिघांसन्तः पराद्रवन्ति समन्ततः ॥ 51 ॥
अत्र कार्यं समाधत्स्व पराप्तकालम अरिंदम सथाने वा गमने वापि दूरं यातश च सात्यकिः ॥ 52 ॥
तथैवं वदतस तस्य भारद्वाजस्य मारिष परत्यदृश्यत शैनेयॊ निघ्नन बहुविधान रथान ॥ 53 ॥
ते वध्यमानाः समरे युयुधानेन तावकाः युयुधान रथं तयक्त्वा दरॊणानीकाय दुद्रुवुः ॥ 54 ॥
यैस तु दुःशासनः सार्धं रथैः पूर्वं नयवर्तत ते भीतास तव अभ्यधावन्त सर्वे दरॊण रथं परति ॥ 55 ॥
द्रोणपर्व · Drona Parva
अध्याय 97
Reach this point to mark the section finished.
Continue to अध्याय 98