धर्मDharmic Data

द्रोणपर्व · Drona Parva

अध्याय 96

  1. [स] जित्वा यवनकाम्बॊजान युयुधानस ततॊ ऽरजुनम जगाम तव सैन्यस्य मध्येन रथिनां वरः ॥ 1 ॥

  2. शरदंष्ट्रॊ नरव्याघ्रॊ विचित्रकवचच्छविः मृगान वयाघ्रजिवाजिघ्रंस तव सैन्यम अभीषयत ॥ 2 ॥

  3. स रथेन चरन मार्गान धनुर अभ्रामयद भृशम रुक्मपृष्ठं महावेगं रुक्मचन्द्रक संकुलम ॥ 3 ॥

  4. रुक्माङ्गद शिरस तराणॊ रुक्मवर्म समावृतः रुक्मध्वजवरः शूरॊ मेरुशृङ्ग इवाबभौ ॥ 4 ॥

  5. स दनुर मण्डलः संख्ये तेजॊ भास्वररश्मिवान शरदीवॊदितः सूर्यॊ नृसूर्यॊ विरराज ह ॥ 5 ॥

  6. वृषभस्कन्धविक्रान्तॊ वृषभाक्षॊ नरर्षभः तावकानां बभौ मध्ये गवां मध्ये यथा वृषः ॥ 6 ॥

  7. मत्तद्विरदसंकाशं मत्तद्विरदगामिनम परभिन्नम इव मातङ्गं यूथमध्ये वयवस्थितम वयाघ्रा इव जिघांसन्तस तवदीयाभ्यद्रवद रणे ॥ 7 ॥

  8. दरॊणानीकम अतिक्रान्तं भॊजानीकं च दुस्तरम जलसंधार्णवं तीर्त्वा काम्बॊजानां च वाहिनीम ॥ 8 ॥

  9. हार्दिक्य मकरान मुक्तं तीर्णं वै सैन्यसागरम परिवव्रुः सुसंक्रुद्धास तवदीयाः सात्यकिं रथाः ॥ 9 ॥

  10. दुर्यॊधनश चित्रसेनॊ दुःशासनविविंशती शकुनिर दुःसहश चैव युवा दुर्मर्षणः करथः ॥ 10 ॥

  11. अन्ये च बहवः शूराः शस्त्रवन्तॊ दुरासदाः पृष्ठतः सात्यकिं यान्तम अन्वधावन्न अमर्षिताः ॥ 11 ॥

  12. अथ शब्दॊ महान आसीत तव सैन्यस्य मारिष मारुतॊद्धूत वेगस्य सागरस्येव पर्वणि ॥ 12 ॥

  13. तान अभिद्रवतः सर्वान समीक्ष्य शिनिपुंगवः शनैर याहीति यन्तारम अब्रवीत परहसन्न इव ॥ 13 ॥

  14. इदम एति समुद्धूतं धार्तराष्ट्रस्य यद बलम माम एवाभिमुखं तूर्णं गजाश्वरथपत्तिमत ॥ 14 ॥

  15. नादयन वै दिशः सर्वा रथघॊषेण सारथे पृथिवीं चान्तरिक्षं च कम्पयन सागरान अपि ॥ 15 ॥

  16. एतद बलार्णवं तात वारयिष्ये महारणे पौर्णमास्याम इवॊद्धूतं वेलेव सलिलाशयम ॥ 16 ॥

  17. पश्य मे सूत विक्रान्तम इन्द्रस्येव महामृधे एष सैन्यानि शत्रूणां विधमानि शितैः शरैः ॥ 17 ॥

  18. निहतान आहवे पश्य पदात्यश्वरथद्विपान मच्छरैर अग्निसंकाशैर विदेहासून सहस्रशः ॥ 18 ॥

  19. इत्य एवं बरुवतस तस्य सात्यकेर अमितौजसः समीपं सैनिकास ते तु शीघ्रम ईयुर युयुत्सवः जह्य आद्रवस्व तिष्ठेति पश्य पश्येति वादिनः ॥ 19 ॥

  20. तान एवं बरुवतॊ वीरान सात्यकिर निशितैः शरैः जघान तरिशतान अश्वान कुञ्जरांश च चतुःशतान ॥ 20 ॥

  21. स संप्रहारस तुमुलस तस्य तेषां च धन्विनाम देवासुररणप्रख्यः परावर्तत जनक्षयः ॥ 21 ॥

  22. मेघजालनिभं सैन्यं तव पुत्रस्य मारिष परत्यगृह्णाच छिनेः पौत्रः शरैर आशीविषॊपमैः ॥ 22 ॥

  23. परच्छाद्यमानः समरे शरजालैः स वीर्यवान असंभ्रमं महाराज तावकान अवहीद बहून ॥ 23 ॥

  24. आश्चर्यं तत्र राजेन्द्र सुमहद दृष्टवान अहम न मॊघः सायकः कश चित सात्यकेर अभवत परभॊ ॥ 24 ॥

  25. रथनागाश्वकलिलः पदात्यूर्मि समाकुलः शैनेय वेलाम आसाद्य सथितः सैन्यमहार्णवः ॥ 25 ॥

  26. संभ्रान्तनरनागाश्वम आवर्तत मुहुर मुहुः तत सैन्यम इषुभिस तेन वध्यमानं समन्ततः बभ्राम तत्र तत्रैव गावः शीतार्दिता इव ॥ 26 ॥

  27. पदातिनं रथं नागं सादिनं तुरगं तथा अविद्धं तत्र नाद्राक्षं युयुधानस्य सायकैः ॥ 27 ॥

  28. न तादृक कदनं राजन कृतवांस तत्र फल्गुनः यादृक कषयम अनीकानाम अकरॊत सात्यकिर नृप अत्यर्जुनं शिनेः पौत्रॊ युध्यते भरतर्षभ ॥ 28 ॥

  29. ततॊ दुर्यॊधनॊ राजा सात्वतस्य तरिभिः शरैः विव्याध सूतं निशितैश चतुर्भिश चतुरॊ हयान ॥ 29 ॥

  30. सात्यकिं च तरिभिर विद्ध्वा पुनर विव्याध सॊ ऽषटभिः दुःशासनः षॊडशभिर विव्याध शिनि पुंगवम ॥ 30 ॥

  31. शकुनिः पञ्चविंशत्या चित्रसेनश चपञ्चभिः दुःसहः पञ्चदशभिर विव्याधॊरसि सात्यकिम ॥ 31 ॥

  32. उत्स्मयन वृष्णिशार्दूलस तथा बाणैः समाहतः तान अविध्यन महाराज सर्वान एव तरिभिस तरिभिः ॥ 32 ॥

  33. गाढविद्धान अरीक कृत्वा मार्गणैः सॊ ऽतितेजनैः शैनेयः शयेनवत संख्ये वयचरल लघुविक्रमः ॥ 33 ॥

  34. सौबलस्य धनुश छित्त्वा हस्तावापं निकृत्य च दुर्यॊधनं तरिभिर बाणैर अभ्यविध्यत सतनान्तरे ॥ 34 ॥

  35. चित्रसेनं शतेनैव दशभिर दुःसहं तथा दुःशासनं च विंशत्या विव्याध शिनिपुंगवः ॥ 35 ॥

  36. अथान्यद धनुर आदाय सयालस तव विशां पते अष्टभिः सात्यकिं विद्ध्वा पुनर विव्याध पञ्चभिः ॥ 36 ॥

  37. दुःशासनश च दशभिर दुःसहश च तरिभिः शरैः दुर्मुखश च दवादशभी राजन विव्याध सात्यकिम ॥ 37 ॥

  38. दुर्यॊधनस तरिसप्तत्या विद्ध्वा भारत माधवम ततॊ ऽसय निशितैर बाणैस तरिभिर विव्याध सारथिम ॥ 38 ॥

  39. तान सर्वान सहिताञ शूरान यतमानान महारथान पञ्चभिः पञ्चभिर बाणैः पुनर विव्याध सात्यकिः ॥ 39 ॥

  40. ततः स रथिनां शरेष्ठस तव पुत्रस्य सारथिम आजघानाशु भल्लेन स हतॊ नयपतद भुवि ॥ 40 ॥

  41. पातिते सारथौ तस्मिंस तव पुत्र रथः परभॊ वातायमानैस तैर अश्वैर अपानीयत संगरात ॥ 41 ॥

  42. ततस तव सुता राजन सैनिकाश च विशां पते राज्ञॊ रथम अभिप्रेक्ष्य विद्रुताः शतशॊ ऽभवन ॥ 42 ॥

  43. विद्रुतं तत्र तत सैन्यं दृष्ट्वा भारत सात्यकिः अवाकिरच छैरैस तीक्ष्णै रुक्मपुङ्खैः शिलाशितैः ॥ 43 ॥

  44. विद्राव्य सर्वसैन्यानि तावकानि समन्ततः परययौ सात्यकी राजञ शवेताश्वस्य रथं परति ॥ 44 ॥

  45. तं शरान आददानं च रक्षमाणं च सारथिम आत्मानं मॊचयन्तं च तावकाः समपूजयन ॥ 45 ॥

Reach this point to mark the section finished.

Continue to अध्याय 97

Previous: अध्याय 95