धर्मDharmic Data

द्रोणपर्व · Drona Parva

अध्याय 95

  1. [स] ततः स सात्यकिर धीमान महात्मा वृष्णिपुंगवः सुदर्शनं निहत्याजौ यन्तारम इदम अब्रवीत ॥ 1 ॥

  2. रथाश्वनागकलिलं शरशक्त्यूर्मिमालिनम खड्गमत्स्यं गदा गराहं शूरायुध महास्वनम ॥ 2 ॥

  3. पराणापहारिणं रौद्रं वादित्रॊत्क्रुष्ट नादितम यॊधानाम असुखस्पर्शं दुर्धर्षम अजयैषिणाम ॥ 3 ॥

  4. तीर्णाः सम दुस्तरं तात दरॊणानीक महार्णवम जलसंध बलेनाजौ पुरुषादैर इवावृतम ॥ 4 ॥

  5. अतॊ ऽनयं पृतना शेषं मन्ये कुनदिकाम इव तर्तव्याम अल्पसलिलां चेदयाश्वान असंभ्रमम ॥ 5 ॥

  6. हस्तप्राप्तम अहं मन्ये सांप्रतं सव्यसाचिनम निर्जित्य दुर्धरं दरॊणं सपदानुगम आहवे ॥ 6 ॥

  7. हार्दिक्यं यॊधवर्यं च पराप्तं मन्ये धनंजयम न हि मे जायते तरासॊ दृष्ट्वा सैन्यान्य अनेकशः वह्नेर इव परदीप्तस्य गरीष्मे शुष्कं तृणॊलपम ॥ 7 ॥

  8. पश्य पाण्डवमुख्येन यातां भूमिं किरीटिना पत्त्यश्वरथनागौघैः पतितैर विषमीकृताम ॥ 8 ॥

  9. अभ्याशस्थम अहं मन्ये शवेताश्वं कृष्णसारथिम स एष शरूयते शब्दॊ गाण्डीवस्यामितौजसः ॥ 9 ॥

  10. यादृशानि निमित्तानि मम परादुर्भवन्ति वै अनस्तं गत आदित्ये हन्ता सैन्धवम अर्जुनः ॥ 10 ॥

  11. शनैर विश्रम्भयन्न अश्वान याहि यत्तॊ ऽरिवाहिनीम यत्रैते सतनुत्राणाः सुयॊधनपुरॊगमाः ॥ 11 ॥

  12. दंशिताः करूरकर्माणः काम्बॊजा युद्धदुर्मदाः शरबाणासन धरा यवनाश च परहारिणः ॥ 12 ॥

  13. शकाः किराता दरदा बर्बरास ताम्रलिप्तकाः अन्ये च बहवॊ मलेच्छा विविधायुधपाणयः माम एवाभिमुखाः सर्वे तिष्ठन्ति समरार्थिनः ॥ 13 ॥

  14. एतान सरथनागाश्वान निहत्याजौ स पत्तिनः इदं दुर्गं महाघॊरं तीर्णम एवॊपधारय ॥ 14 ॥

  15. [स] न संभ्रमॊ मे वार्ष्णेय विद्यते सत्यविक्रम यद्य अपि सयात सुसंक्रुद्धॊ जामदग्न्यॊ ऽगरतः सथितः ॥ 15 ॥

  16. दरॊणॊ वा रथिनां शरेष्ठः कृपॊ मद्रेश्वरॊ ऽपि वा तथापि संभ्रमॊ न सयात तवाम आश्रित्य महाभुज ॥ 16 ॥

  17. तवया सुहववॊ युद्धे निर्जिताः शत्रुसूदन न च मे संभ्रमः कश चिद भूतपूर्वः कदा चन किम उ चैतत समासाद्य वीर संयुगगॊष्पदम ॥ 17 ॥

  18. आयुस्मन कतरेण तवा परापयामि धनंजयम केषां करुद्धॊ ऽसि वार्ष्णेय केषां मृत्युर उपस्थितः केषं संयमनीम अद्य गन्तुम उत्सहते मनः ॥ 18 ॥

  19. के तवां युधि पराक्रान्तं कालान्तकयमॊपमम दृष्ट्वा विक्रमसंपन्नं विद्रविष्यन्ति संयुगे केषां वैवस्वतॊ राजा समरते ऽदय महाभुज ॥ 19 ॥

  20. [स] मुण्डान एतान हनिष्यामि दानवान इव वासवः परतिज्ञां पारयिष्यामि काम्बॊजान एव मा वह अद्यैषां कदनं कृत्वा कषिप्रं यास्यामि पाण्डवम ॥ 20 ॥

  21. अद्य दरक्ष्यन्ति मे वीर्यं कौरवाः स सुयॊधनाः मुण्डानीके हते सूत सर्वसैन्येषु चासकृत ॥ 21 ॥

  22. अद्य कौरव सैन्यस्य दीर्यमाणस्य संयुगे शरुत्वा विरावं बहुधा संतप्स्यति सुयॊधनः ॥ 22 ॥

  23. अद्य पाण्डवमुख्यस्य शवेताश्वस्य महात्मनः आचार्यक कृतं मार्गं दर्शयिष्यामि संयुगे ॥ 23 ॥

  24. अद्य मद्बाणनिहतान यॊधमुख्यान सहस्रशः दृष्ट्वा दुर्यॊधनॊ राजा पश्चात तापं गमिष्यति ॥ 24 ॥

  25. अद्य मे कषिप्रहस्तस्य कषिपतः सायकॊत्तमान अलातचक्रप्रतिमं धनुर दरक्ष्यन्ति कौरवाः ॥ 25 ॥

  26. मत्सायकचिताङ्गानां रुधिरं सरवतां बहु सैनिकानां वधं दृष्ट्वा संतप्स्यति सुयॊधनः ॥ 26 ॥

  27. अद्य मे करुद्ध रूपस्य निघ्नतश च वरान वरान दविर अर्जुनम इमं लॊकं मंस्यते स सुयॊधनः ॥ 27 ॥

  28. अद्य राजसहस्राणि निहतानि मया रणे दृष्ट्वा दुर्यॊधनॊ राजा संतप्स्यति महामृधे ॥ 28 ॥

  29. अद्य सनेहं च भक्तिं च पाण्डवेषु महात्मसु हत्वा राजसहस्राणि दर्शयिष्यामि राजसु ॥ 29 ॥

  30. [स] एवम उक्तस तदा सूतः शिक्षितान साधु वाहिनः शशाङ्कसंनिकाशान वै वाजिनॊ ऽचूचुदद भृशम ॥ 30 ॥

  31. ते पिबन्त इवाकाशं युयुधानं हयॊत्तमाः परापयन यवनाञ शीघ्रं मनः पवनरंहसः ॥ 31 ॥

  32. सात्यकिं ते समासाद्य पृतनास्व अनिवर्तिनम बहवॊ लघुहस्ताश च शरवर्षैर अवाकिरन ॥ 32 ॥

  33. तेषाम इषून अथास्त्राणि वेगवन नतपर्वभिः अच्छिनत सात्यकी राजन नैनं ते पराप्नुवञ शराः ॥ 33 ॥

  34. रुक्मपुङ्खैः सुनिशितैर गार्ध्रपत्रैर अजिह्मगैः उच्चकर्त शिरांस्य उग्रॊ यवनानां भुजान अपि ॥ 34 ॥

  35. शैक्यायसानि वर्माणि कांस्यानि च समन्ततः भित्त्वा देहांस तथा तेषां शरा जग्मुर महीतलम ॥ 35 ॥

  36. ते हन्यमाना वीरेण मलेच्छाः सात्यकिना रणे शतशॊ नयपतंस तत्र वयसवॊ वसुधातले ॥ 36 ॥

  37. सुपूर्णायत मुक्तैस तान अव्यवच्छिन्न पिण्डितैः पञ्चषट सप्त चाष्टौ च बिभेद यवनाञ शरैः ॥ 37 ॥

  38. काम्बॊजानां सहस्रैस तु शकानां च विशां पते शबराणां किरातानां बर्बराणां तथैव च ॥ 38 ॥

  39. अगम्यरूपां पृथिवीं मांसशॊणितकर्दमाम कृतवांस तत्र शैनेयः कषपयंस तावकं बलम ॥ 39 ॥

  40. दस्यूनां स शिरस तराणैः शिरॊभिर लूनमूर्धजैः तत्र तत्र मही कीर्णा विबर्हैर अण्डजैर इव ॥ 40 ॥

  41. रुधिरॊक्षितसर्वाङ्गैस तैस तद आयॊधनं बभौ कबन्हैः संवृतं सर्वं ताम्राभ्रैः खम इवावृतम ॥ 41 ॥

  42. वज्राशनिसमस्पर्शैः सुपर्वभिर अजिह्मगैः ते साश्वयाना निहताः समावव्रुर वसुंधराम ॥ 42 ॥

  43. अल्पावशिष्टाः संभग्नाः कृच्छ्रप्राणा विचेतसः जिताः संख्ये महाराज युयुधानेन दंशिताः ॥ 43 ॥

  44. पार्ष्णिभिश च कशाभिश च ताडयन्तस तुरंगमान जवम उत्तमम आस्थाय सर्वतः पराद्रवन भयात ॥ 44 ॥

  45. काम्बॊजसैन्यं विद्राव्य दुर्जयं युधि भारत यवनानां च तत सैन्यं शकानां च महद बलम ॥ 45 ॥

  46. स ततः पुरुषव्याघ्रः सात्यकिः सत्यविक्रमः परहृष्टस तावकाञ जित्वा सूतं याहीत्य अचॊदयत ॥ 46 ॥

  47. तं यान्तं पृष्ठगॊप्तारम अर्जुनस्य विशां पते चारणाः परेक्ष्य संहृष्टास तवदीयाश चाप्य अपूजयन ॥ 47 ॥

Reach this point to mark the section finished.

Continue to अध्याय 96

Previous: अध्याय 94