[स] ते किरन्तः शरव्रातान सर्वे यत्ताः परहारिणः तवरमाणा महाराज युयुधानम अयॊधयन ॥ 1 ॥
तं दरॊणः सप्त सप्तत्या जघान निशितैः शरैः दुर्मर्षणॊ दवादशभिर दुःसहॊ दशभिः शरैः ॥ 2 ॥
विकर्णश चापि निशितैस तरिंशद्भिः कङ्कपत्रिभिः विव्याध सव्ये पार्श्वे तु सतनाभ्याम अन्तरे तथा ॥ 3 ॥
दुर्मुखॊ दशभिर बाणैस तथा दुःशासनॊ ऽषटभिः चित्रसेनश च शैनेयं दवाभ्यां विव्याध मारिष ॥ 4 ॥
दुर्यॊधनश च महता शरवर्षेण माधवम अपीडयद रणे राजञ शूराश चान्ये महारथाः ॥ 5 ॥
सर्वतः परतिविद्धस तु तव पुत्रैर महारथैः तान परत्यविध्यच छैनेयः पृथक्पृथग अजिह्मगैः ॥ 6 ॥
भारद्वाजं तरिभिर बाणैर दुःसहं नवभिस तथा विकर्णं पञ्चविंशत्या चित्रसेनं च सप्तभिः ॥ 7 ॥
दुर्मर्षणं दवादशभिश चतुर्भिश च विविंशतिम सत्यव्रतं च नवभिर विजयं दशभिः शरैः ॥ 8 ॥
ततॊ रुक्माङ्गदं चापं विधुन्वानॊ महारथः अभ्ययात सात्यकिस तूर्णं पुत्रं तव महारथम ॥ 9 ॥
राजानं सर्वलॊकस्य सर्वशस्त्रभृतां वरम शरैर अभ्याहनद गाढं ततॊ युद्धम अभूत तयॊः ॥ 10 ॥
विमुञ्चन्तौ शरांस तीक्ष्णान संदधानौ च सायकान अदृश्यं समरे ऽनयॊन्यं चक्रतुस तौ महारथौ ॥ 11 ॥
सात्यकिः कुरुराजेन निर्विद्धॊ बह्व अशॊभत अस्रवद रुधिरं भूरि सवरसं चन्दनॊ यथा ॥ 12 ॥
सात्वतेन च बाणौघैर निर्विद्धस तनयस तव शातकुम्भमयापीडॊ बभौ यूप इवॊच्छ्रितः ॥ 13 ॥
माधवस तु रणे राजन कुरुराजस्य धन्विनः धनुश चिच्छेद सहसा कषुरप्रेण हसन्न इव अथैनं छिन्नधन्वानं शरैर बहुभिर आचिनॊत ॥ 14 ॥
निर्भिन्नश च शरैस तेन दविषता कषिप्रकारिणा नामृष्यत रणे राजा शत्रॊर विजयलक्षणम ॥ 15 ॥
अथान्यद धनुर आदाय हेमपृष्ठं दुरासदम विव्याध सात्यकिं तूर्णं सायकानां शतेन ह ॥ 16 ॥
सॊ ऽतिविद्धॊ बलवता पुत्रेण तव धन्विना अमर्षवशम आपन्नस तव पुत्रम अपीडयत ॥ 17 ॥
पीडितं नृपतिं दृष्ट्वा तव पुत्रा महारथाः सात्वतं शरवर्षेण छादयाम आसुर अञ्जसा ॥ 18 ॥
स छाद्यमानॊ बहुभिस तव पुत्रैर महारथैः एकैकं पञ्चभिर विद्ध्वा पुनर विव्याध सप्तभिः ॥ 19 ॥
दुर्यॊधनं च तवरितॊ विव्याधाष्टभिर आशुगैः परहसंश चास्य चिच्छेद कार्मुकं रिपुम ईषणम ॥ 20 ॥
नागं मणिमयं चैव शरैर धवजम अपातयत हत्वा तु चतुरॊ वाहांश चतुर्भिर निशितैः शरैः सारथिं पातयाम आस कषुरप्रेण महायशाः ॥ 21 ॥
एतस्मिन्न अन्तरे चैव कुरुराजं महारथम अवाकिरच छरैर हृष्टॊ बहुभिर मर्मभेदिभिः ॥ 22 ॥
स वध्यमानः समरे शैनेयस्य शरॊत्तमैः पराद्रवत सहसा राजन पुत्रॊ दुर्यॊधनस तव आप्लुतश च ततॊ यानं चित्रसेनस्य धन्विनः ॥ 23 ॥
हाहाभूतं जगच चासीद दृष्ट्वा राजानम आहवे गरस्यमानं सात्यकिना खे सॊमम इव राहुणा ॥ 24 ॥
तं तु शब्दं महच छरुत्वा कृतवर्मा महारथः अभ्ययात सहसा तत्र यत्रास्ते माधवः परभुः ॥ 25 ॥
विधुन्वानॊ धनुःश्रेष्ठं चॊदयंश चैव वाजिनः भर्त्सयन सारथिं चॊग्रं याहि याहीति स तवरः ॥ 26 ॥
तम आपतन्तं संप्रेक्ष्य वयादितास्यम इवान्तकम युयुधानॊ महाराज यन्तारम इदम अब्रवीत ॥ 27 ॥
कृतवर्मा रथेनैष दरुतम आपतते शरी परत्युद्याहि रथेनैनं परवरं सर्वधन्विनाम ॥ 28 ॥
ततः परजविताश्वेन विधिवत कल्पितेन च आससाद रणे भॊजं परतिमानं धनुष्मताम ॥ 29 ॥
ततः परमसंक्रुद्धौ जवलन्ताव इव पावकौ समेयातां नरव्याघ्रौ वयाघ्राव इव तरस्विनौ ॥ 30 ॥
कृतवर्मा तु शैनेयं षड्विंशत्या समार्पयत निशितैः सायकैस तीक्ष्णैर यन्तारं चास्य सप्तभिः ॥ 31 ॥
चतुरश च हयॊदारांश चतुर्भिः परमेषुभिः अविध्यत साधु दान्तान वै सैन्धवान सात्वतस्य ह ॥ 32 ॥
रुक्मध्वजॊ रुक्मपृष्ठं महद विस्फार्य कार्मुकम रुक्माङ्गदी रुक्मवर्मा रुक्मपुङ्खान अवाकिरत ॥ 33 ॥
ततॊ ऽशीतिं शिनेः पौत्रः सायकान कृतवर्मणे पराहिणॊत तवरया युक्तॊ दरष्टुकामॊ धनंजयम ॥ 34 ॥
सॊ ऽतिविद्धॊ बलवता शत्रुणा शत्रुतापनः समकम्पत दुर्धर्षः कषितिकम्पे यथाचलः ॥ 35 ॥
तरिषष्ट्या चतुरॊ ऽसयाश्वान सप्तभिः सारथिं शरैः विव्याध निशितैस तूर्णं सात्यकिः कृतवर्मणः ॥ 36 ॥
सुवर्णपुङ्खं विशिखं समाधाय स सात्यकिः वयसृजत तं महाज्वालं संक्रुद्धम इव पन्नगम ॥ 37 ॥
सॊ ऽविशत कृतवर्माणं यमदण्डॊपमः शरः जाम्बूनदविचित्रं च वर्म निर्भिद्य भानुमत अभ्यगाद धरणीम उग्रॊ रुधिरेण समुक्षितः ॥ 38 ॥
संजातरुधिरश चाजौ सात्वतेषुभिर अर्दितः परचलन धनुर उत्सृज्य नयपतत सयन्दनॊत्तमे ॥ 39 ॥
स सिंहदंष्ट्रॊ जानुभ्याम आपन्नॊ ऽमितविक्रमः शरार्दितः सात्यकिना रथॊपस्थे नरर्षभः ॥ 40 ॥
सहस्रबाहॊः सदृशम अक्षॊभ्यम इव सागरम निवार्य कृतवर्माणं सात्यकिः परययौ ततः ॥ 41 ॥
खड्गशक्ति धनुः कीर्णां जगाश्वरथसंकुलाम परवर्तितॊग्र रुधिरां शतशः कषत्रियर्षभैः ॥ 42 ॥
परेक्षतां सर्वसैन्यानां मध्येन शिनिपुंगवः अभ्यगाद वाहिनीं भित्त्वा गृह्य चान्यान महद धनुः ॥ 43 ॥
समाश्वास्य च हार्दिक्यॊ गृह्य चान्यन महद धनुः तस्थौ तत्रैव बलवान वारयन युधि पाण्डवान ॥ 44 ॥
द्रोणपर्व · Drona Parva
अध्याय 92
Reach this point to mark the section finished.
Continue to अध्याय 93