[स] काल्यमानेषु सैन्येषु शैनेयेन ततस ततः भारद्वाजः शरव्रातैर महद्भिः समवाकिरत ॥ 1 ॥
स संप्रहारस तुमुलॊ दरॊण सात्वतयॊर अभूत पश्यतां सर्वसैन्यानां बलिवास वयॊर इव ॥ 2 ॥
ततॊ दरॊणः शिनेः पौत्रं चित्रैः सर्वायसैः शरैः तरिभिर आशीविषाकारैर ललाटे समविध्यत ॥ 3 ॥
तैर ललाटार्पितैर बाणैर युयुधानस तव अजिह्मगैः वयरॊचत महाराज तरिशृङ्ग इव पर्वतः ॥ 4 ॥
ततॊ ऽसय बाणान अपरान इन्द्राशनिसमस्वनान भारद्वाजॊ ऽनतरप्रेक्षी परेषयाम आस संयुगे ॥ 5 ॥
तान दरॊण चापनिर्मुक्तान दाशार्हः पततः शरान दवाभ्यां दवाभ्यां सुपुङ्खाभ्यां चिच्छेद परमास्त्रवित ॥ 6 ॥
ताम अस्य लघुतां दरॊणः समवेक्ष्य विशां पते परहस्य सहसाविध्यद विंशत्या शिनिपुंगवम ॥ 7 ॥
पुनः पञ्चाशतेषूणां शतेन च समार्पयत लघुतां युयुधानस्य लाघवेन विशेषयन ॥ 8 ॥
समुत्पतन्ति वल्मीकाद यथा करुद्धा महॊरगाः तथा दरॊण रथाद राजन्न उत्पतन्ति तनुच छिदः ॥ 9 ॥
तथैव युयुधानेन सृष्टाः शतसहस्रशः अवाकिरन दरॊण रथं शरा रुधिरभॊजनाः ॥ 10 ॥
लाघवाद दविजमुख्यस्य सात्वतस्य च मारिष विशेषं नाध्यगच्छाम समावास्तां नरर्षभौ ॥ 11 ॥
सात्यकिस तु ततॊ दरॊणं नवभिर नतपर्वभिः आजघान भृशं करुद्धॊ धवजं च निशितैः शरैः सारथिं च शतेनैव भारद्वाजस्य पश्यतः ॥ 12 ॥
लाघवं युयुधानस्य दृष्ट्वा दरॊणॊ महारथ सप्तत्या सात्यकिं विद्ध्वा तुरगांश च तरिभिस तरिभिः धवजम एकेन विव्याध माधवस्य रथे सथितम ॥ 13 ॥
अथापरेण भल्लेन हेमपुङ्खेन पत्रिणा धनुश चिच्छेद समरे माधवस्य महात्मनः ॥ 14 ॥
सात्यकिस तु ततः करुद्धॊ धनुस तयक्त्वा महारथः गदां जग्राह महतीं भारद्वाजाय चाक्षिपत ॥ 15 ॥
ताम आपतन्तीं सहसा पट्टबद्धाम अयस्मयीम नयवारयच छरैर दरॊणॊ बहुभिर बहुरूपिभिः ॥ 16 ॥
अथान्यद धनुर आदाय सात्यकिः सत्यविक्रमः विव्याध बहुभिर वीरं भारद्वाजं शिलाशितैः ॥ 17 ॥
स विद्ध्वा समरे दरॊणं सिंहनादम अमुञ्चत तं वै न ममृषे दरॊणः सर्वशस्त्रभृतां वरः ॥ 18 ॥
तथः शक्तिं गृहीत्वा तु रुक्मदण्डाम अयस्मयीम तरसा परेषयाम आस माधवस्य रथं परति ॥ 19 ॥
अनासाद्य तु शैनेयं सा शक्तिः कालसंनिभा भित्त्वा रथं जगामॊग्रा धरणीं दारुणस्वना ॥ 20 ॥
ततॊ दरॊणं शिनेः पौत्रॊ राजन विव्याध पत्रिणा दक्षिणं भुजम आसाद्य पीडयन भरतर्षभ ॥ 21 ॥
दरॊणॊ ऽपि समरे राजन माधवस्य महद धनुः अर्धचन्द्रेण चिच्छेद रथशक्त्या च सारथिम ॥ 22 ॥
मुमॊह सरथिस तस्य रथशक्त्या समाहतः स रथॊपस्थम आसाद्य मुहूर्तं संन्यषीदत ॥ 23 ॥
चकार सात्यकी राजंस तत्र कर्मातिमानुषम अयॊधयच च यद दरॊणं रश्मीञ जग्राह च सवयम ॥ 24 ॥
ततः शरशतेनैव युयुधानॊ महारथः अविध्यद बराह्मणं संख्ये हृष्टरूपॊ विशां पते ॥ 25 ॥
तस्य दरॊणः शरान पञ्च परेषयाम आस भारत ते तस्य कवचं भित्त्वा पपुः शॊणितम आहवे ॥ 26 ॥
निर्विद्धस तु शरैर घॊरैर अक्रुध्यत सात्यकिर भृशम सायकान वयसृजच चापि वीरॊ रुक्मरथं परति ॥ 27 ॥
ततॊ दरॊणस्य यन्तारं निपात्यैकेषुणा भुवि अश्वान वयद्रावयद बाणैर हतसूतान महात्मनः ॥ 28 ॥
स रथः परद्रुतः संख्ये मण्डलानि सहस्रशः चकार राजतॊ राजन भराजमान इवांशुमान ॥ 29 ॥
अभिद्रवत गृह्णीत हयान दरॊणस्य धावत इति सम चुक्रुशुः सर्वे राजपुत्राः सराजकाः ॥ 30 ॥
ते सात्यकिम अपास्याशु राजन युधि महारथाः यतॊ दरॊणस ततः सर्वे सहसा समुपाद्रवन ॥ 31 ॥
तान दृष्ट्वा परद्रुतान सर्वान सात्वतेन शरार्दितान परभग्नं पुनर एवासीत तव सैन्यं समाकुलम ॥ 32 ॥
वयूहस्यैव पुनर दवारं गत्वा दरॊणॊ वयवस्थितः वातायमानैस तैर अश्वैर हृतॊ वृष्णिशरार्दितैः ॥ 33 ॥
पाण्डुपाञ्चाल संभग्नं वयूहम आलॊक्य वीर्यवान शैनेये नाकरॊद यत्नं वयूहस्यैवाभिरक्षणे ॥ 34 ॥
निवार्य पाण्डुपाञ्चालान दरॊणाग्निः परदहन्न इव तस्थौ करॊधाग्निसंदीप्तः कालसूर्य इवॊदितः ॥ 35 ॥
द्रोणपर्व · Drona Parva
अध्याय 93
Reach this point to mark the section finished.
Continue to अध्याय 94