[स] शृणुष्वैक मना राजन यन मां तवं परिपृच्छसि दराव्यमाणे बले तस्मिन हार्दिक्येन महात्मना ॥ 1 ॥
लज्जयावनते चापि परहृष्टौश चैव तावकः दवीपॊ य आसीत पाण्डूनाम अगाधे गाधम इच्छताम ॥ 2 ॥
शरुत्वा तु निनदं भीमं तावकानां महाहवे शैनेयस तवरितॊ राजन कृतवर्माणम अभ्ययात ॥ 3 ॥
कृतवर्मा तु हार्दिक्यः शैनेयं निशितैः शरैः अवाकिरत सुसंक्रुद्धस ततॊ ऽकरुध्यत सात्यकिः ॥ 4 ॥
ततः सुनिशितं भल्लं शैनेयः कृतवर्मणे परेषयाम आस समरे शरांश च चतुरॊ ऽपरान ॥ 5 ॥
ते तस्य जघ्निरे वाहान भल्लेनास्याछिनद धनुः पृष्ठरक्षं तथा सूतम अविध्यन निशितैः शरैः ॥ 6 ॥
ततस तं विरथं कृत्वा सात्यकिः सत्यविक्रमः सेनाम अस्यार्दयाम आस शरैः संनतपर्वभिः ॥ 7 ॥
साभज्यताथ पृतना शैनेय शरपीडिता ततः परायाद वै तवरितः सात्यकिः सत्यविक्रमः ॥ 8 ॥
शृणु राजन यद अकरॊत तव सैन्येषु वीर्यवान अतीत्य स महाराज दरॊणानीक महार्णवम ॥ 9 ॥
पराजित्य च संहृष्टः कृतवर्माणम आहवे यन्तारम अब्रवीच छूरः शनैर याहीत्य असंभ्रमम ॥ 10 ॥
दृष्ट्वा तु तव तत सैन्यं रथाश्वद्विपसंकुलम पदातिजनसंपूर्णम अब्रवीत सारथिं पुनः ॥ 11 ॥
यद एतन मेघसंकाशं दरॊणानीकस्य सव्यतः सुमहत कुञ्जरानीकं यस्य रुक्मरथॊ मुखम ॥ 12 ॥
एते हि बहवः सूत दुर्निवार्याश च संयुगे दुर्यॊधन समादिष्टा मदर्थे तयक्तजीविताः राजपुत्रा महेष्वासाः सर्वे विक्रान्तयॊधिनः ॥ 13 ॥
तरिगर्तानां रथॊदाराः सुवर्णविकृतध्वजाः माम एवाभिमुखा वीरा यॊत्स्यमाना वयवस्थिताः ॥ 14 ॥
अत्र मां परापय कषिप्रम अश्वांश चॊदय सारथे तरिगर्तैः सह यॊत्स्यामि भारद्वाजस्य पश्यतः ॥ 15 ॥
ततः परायाच छनैः सूतः सात्वतस्य मते सथितः रथेनादित्यवर्णेन भास्वरेण पताकिना ॥ 16 ॥
तम ऊहुः सारथेर वश्या वल्गमाना हयॊत्तमाः वायुवेगसमाः संख्ये कुन्देन्दु रजतप्रभाः ॥ 17 ॥
आपतन्तं रथं तं तु शङ्खवर्णैर हयॊत्तमैः परिवव्रुस ततः शूरा गजानीकेन सर्वतः किरन्तॊ विविधांस तीक्ष्णान सायकाँल लघुवेधिनः ॥ 18 ॥
सात्वतॊ ऽपि शितैर बाणैर गजानीकम अयॊधयत पर्वतान इव वर्षेण तपान्ते जलदॊ महान ॥ 19 ॥
वज्राशनिसमस्पर्शैर वध्यमानाः शरैर गजाः पराद्रवन रणम उत्सृज्य शिनिवीर्यसमीरितैः ॥ 20 ॥
शीर्णदन्ता विरुधिरा भिन्न मस्तकपिण्डकाः विशीर्णकर्णास्य करा विनियन्तृपताकिनः ॥ 21 ॥
संभिन्नवर्म घण्टाश च संनिकृत्त महाध्वजाः हतारॊहा दिशॊ राजन भेजिरे भरष्टकम्बलाः ॥ 22 ॥
रुवन्तॊ विविधान रावाञ जलदॊपम निस्वनाः नाराचैर वत्सदन्तैश च सात्वतेन विदारिताः ॥ 23 ॥
तस्मिन दरुते गजानीके जलसंधॊ महारथः यत्तः संप्रापयन नागं रजताश्वरथं परति ॥ 24 ॥
रुक्मवर्म करः शूरस तपनीयाङ्गदः शुचिः कुण्डली मुकुटी शङ्खी रक्तचन्दन रूषितः ॥ 25 ॥
शिरसा धारयन दीप्तां तपनीयमयीं सरजम उरसा धारयन निष्कं कण्ठसूत्रं च भास्वरम ॥ 26 ॥
चापं च रुक्मविकृतं विधुन्वन गजमूर्धनि अशॊभत महाराज स विद्युद इव तॊयदः ॥ 27 ॥
तम आपतन्तं सहसा मागधस्य गजॊत्तमम सात्यकिर वारयाम आस वेलेवॊद्वृत्तम अर्णवम ॥ 28 ॥
नागं निवारितं दृष्ट्वा शैनेयस्य शरॊत्तमैः अक्रुध्यत रणे राजञ जलसंधॊ महाबलः ॥ 29 ॥
ततः करुद्धॊ महेष्वासॊ मार्गणैर भारसाधनैः अविध्यत शिनेः पौत्रं जलसंधॊ महॊरसि ॥ 30 ॥
ततॊ ऽपरेण भल्लेन पीतेन निशितेन च अस्यतॊ वृष्णिवीरस्य निचकर्त शरासनम ॥ 31 ॥
सात्यकिं छिन्नधन्वानं परहसन्न इव भारत अविध्यन मागधॊ वीरः पञ्चभिर निशितैः शरैः ॥ 32 ॥
स विद्धॊ बहुभिर बाणैर जलसंधेन वीर्यवान नाकम्पत महाबाहुस तद अद्भुतम इवाभवत ॥ 33 ॥
अचिन्तयन वै स शरान नात्यर्थं संभ्रमाद बली धनुर अन्यत समादाय तिष्ठ तिष्ठेत्य उवाच ह ॥ 34 ॥
एतावद उक्त्वा शैनेयॊ जलसंधं महॊरसि विव्याध षष्ट्या सुभृशं शराणां परहसन्न इव ॥ 35 ॥
कषुरप्रेण च पीतेन मुष्टिदेशे महद धनुः जलसंधस्य चिच्छेद विव्याध च तरिभिः शरैः ॥ 36 ॥
जलसंधस तु तत तयक्त्वा स शरं वै शरासनम तॊमरं वयसृजत तूर्णं सात्यकिं परति मारिष ॥ 37 ॥
स निर्भिद्य भुजं सव्यं माधवस्य महारणे अभ्यगाद धरणीं घॊरः शवसन्न इव महॊरगः ॥ 38 ॥
निर्भिन्ने तु भुजे सव्ये सात्यकिः सत्यविक्रमः तरिंशद्भिर विशिखैस तीक्ष्णैर जलसंधम अताडयत ॥ 39 ॥
परगृह्य तु ततः खड्गं जलसंधॊ महाबलः आर्षभं चर्म च महच छतचन्द्रम अलंकृतम तत आविध्य तं खड्गं सात्वतायॊत्ससर्ज ह ॥ 40 ॥
शैनेयस्य धनुश छित्त्वा स खड्गॊ नयपतन महीम अलातचक्रवच चैव वयरॊचत महिं गतः ॥ 41 ॥
अथान्यद धनुर आदाय सर्वकायावदारणम शालस्कन्धप्रतीकाशम इन्द्राशनिसमस्वनम विस्फार्य विव्यधे करुद्धॊ जलसंधं शरेण ह ॥ 42 ॥
ततः साभरणॊ बाहू कषुराभ्यां माधवॊत्तमः साङ्गदौ जलसंधस्य चिच्छेद परहसन्न इव ॥ 43 ॥
तौ बाहू परिघप्रख्यौ पेततुर गजसत्तमात वसुंधर धराद भरष्टौ पञ्चशीर्षाव इवॊरगौ ॥ 44 ॥
ततः सुदंष्ट्रं सुहनु चारुकुण्डलम उन्नसम कषुरेणास्य तृतीयेन शिरश चिच्छेद सात्यकिः ॥ 45 ॥
तत पातित शिरॊ बाहुकबन्धं भीमदर्शनम दविरदं जलसंधस्य रुधिरेणाभ्यषिञ्चत ॥ 46 ॥
जलसंधं निहत्याजौ तवरमाणस तु सात्वतः नैषादिं पातयाम आस गजस्कन्धाद विशां पते ॥ 47 ॥
रुधिरेणावसिक्ताङ्गॊ जलसंधस्य कुञ्जरः विलम्बमानम अवहत संश्लिष्टं परम आसनम ॥ 48 ॥
शरार्दितः सात्वतेन मर्दमानः सववाहिनीम घॊरम आर्तस्वरं कृत्वा विदुद्राव महागजः ॥ 49 ॥
हाहाकारॊ महान आसीत तव सैन्यस्य मारिष जलसंधं हतं दृष्ट्वा वृष्णीनाम ऋषभेण ह ॥ 50 ॥
विमुखाश चाभ्यधावन्त तव यॊधाः समन्ततः पलायने कृतॊत्साहा निरुत्साहा दविषज जये ॥ 51 ॥
एतस्मिन्न अन्तरे राजन दरॊणः शस्त्रभृतां वरः अभ्ययाज जवनैर अश्वैर युयुधानं महारथम ॥ 52 ॥
तम उदीर्णं तथा दृष्ट्वा शैनेयं कुरुपुंगवाः दरॊणेनैव सह करुद्धाः सात्यकिं पर्यवारयन ॥ 53 ॥
ततः परववृते युद्धं कुरूणां सात्वतस्य च दरॊणस्य च रणे राजन घॊरं देवासुरॊपमम ॥ 54 ॥
द्रोणपर्व · Drona Parva
अध्याय 91
Reach this point to mark the section finished.
Continue to अध्याय 92