[स] आत्मापराधात संभूतं वयसनं भरतर्षभ पराप्य पराकृतवद वीर न तवं शॊचितुम अर्हसि ॥ 1 ॥
तव निर्गुणतां जञात्वा पक्षपातं सुतेषु च दवैधी भावं तथा धर्मे पाण्डवेषु च मत्सरम आर्तप्रलापांश च बहून मनुजाधिप सत्तम ॥ 2 ॥
सर्वलॊकस्य तत्त्वज्ञः सर्वलॊकगुणः परभु वासुदेवस ततॊ युद्धं कुरूणाम अकरॊन महत ॥ 3 ॥
आत्मापराधात सुमहान पराप्तस ते विपुलः कषयः न हि ते सुकृतं किं चिद आदौ मध्ये च भारत दृश्यते पृष्ठतश चैव तवन मूकॊ हि पराजयः ॥ 4 ॥
तस्माद अद्य सथिरॊ भूत्वा जञात्वा लॊकस्य निर्णयम शृणु युद्धं यथावृत्तं घॊरं देवासुरॊपमम ॥ 5 ॥
परविष्टे तव सैन्यं तु शैनेये सत्यविक्रमे भीमसेनमुखाः पार्थाः परतीयुर वाहिनीं तव ॥ 6 ॥
आगच्छतस तान सहस करुद्ध रूपान सहानुगान दधारैकॊ रणे पाण्डून कृतवर्मा महारथः ॥ 7 ॥
यथॊद्वृत्तं धारयते वेला वै सलिलार्णवम पाण्डुसैन्यं तथा संख्ये हार्दिक्यः समवारयत ॥ 8 ॥
तत्राद्भुतम अमन्यन्त हार्दिक्यस्य पराक्रमम यद एनं सहिताः पार्था नातिचक्रमुर आहवे ॥ 9 ॥
ततॊ भीमस तरिभिर विद्ध्वा कृतवर्माणम आयसैः शङ्खं दध्मौ महाबाहुर हर्षयन सर्वपाण्डवान ॥ 10 ॥
सहदेवस तु विंशत्या धर्मराजश च पञ्चभिः शतेन नकुलश चापि हार्दिक्यं समविध्यत ॥ 11 ॥
दरौपदेयास तरिसप्तत्या सप्तभिश च घटॊत्कचः धृष्टद्युम्नस तरिभिश चापि कृतवर्माणम आर्दयत विराटॊ दरुपदश चैव याज्ञसेनिश च पञ्चभिः ॥ 12 ॥
शिखण्डी चापि हार्दिक्यं विद्ध्वा पञ्चभिर आशुगैः पुनर विव्याध विंशत्या सायकानां हसन्न इव ॥ 13 ॥
कृतवर्मा ततॊ राजन सर्वतस तान महारथान एकैकं पञ्चभिर विद्ध्वा भीमं विव्याध सप्तभिः धनुर धवजं च संयत्तॊ रथाद भूमाव अपातयत ॥ 14 ॥
अथैनं छिन्नधन्वानं तवरमाणॊ महारथः आजघानॊरसि करुद्धः सप्तत्या निशितैः शरैः ॥ 15 ॥
स गाढविद्धॊ बलवान हार्दिक्यस्य शरॊत्तमैः चचाल रथमध्यस्थः कषितिकम्पे यथाचलः ॥ 16 ॥
भीमसेनं तथा दृष्ट्वा धर्मराज पुरॊगमाः विसृजन्तः शरान घॊरान कृतवर्माणम आर्दयन ॥ 17 ॥
तं तथा कॊष्ठकी कृत्यरथवंशेन मारिष विव्यधुः सायकैर हृष्टा रक्षार्थं मारुतेर मृधे ॥ 18 ॥
परतिलभ्य ततः संज्ञां भीमसेनॊ महाबलः शक्तिं जग्राह समरे हेमदण्डाम अयस्मयीम चिक्षेप च रथात तूर्णं कृतवर्म रथं परति ॥ 19 ॥
सा भीम भुजनिर्मुक्ता निर्मुक्तॊरग संनिभा कृतवर्माणम अभितः परजज्वाल सुदारुणा ॥ 20 ॥
ताम आपतन्तीं सहसा युगान्ताग्निसमप्रभाम दवाभ्यां शराभ्यां हार्दिक्यॊ निचकर्त दविधा तदा ॥ 21 ॥
सा छिन्ना पतिता भूमौ शक्तिः कनकभूषणा दयॊतयन्ती दिशॊ राजन महॊल्केव दिवश चयुता शक्तिं विनिहतां दृष्ट्वा भीमश चुक्रॊध वै भृशम ॥ 22 ॥
ततॊ ऽनयद धनुर आदाय वेगवत सुमहास्वनम भीमसेनॊ रणे करुद्धॊ हार्दिक्यं समवारयत ॥ 23 ॥
अथैनं पञ्चभिर बाणैर आजघान सतनान्तरे भीमॊ भीमबलॊ राजंस तव दुर्मन्त्रितेन ह ॥ 24 ॥
भॊजस तु कषतसर्वाङ्गॊ भीमसेनेन मारिष रक्ताशॊक इवॊत्फुल्लॊ वयभ्राजत रणाजिरे ॥ 25 ॥
ततः करुद्धस तरिभिर बाणैर भीमसेनं हसन्न इव अभिहत्य दृढं युद्धे तान सर्वान परत्यविध्यत ॥ 26 ॥
तरिभिस तरिभिर महेष्वासॊ यतमानान महारथान ते ऽपि तं परत्यविध्यन्त सप्तभिः सप्तभिः शरैः ॥ 27 ॥
शिखण्डिनस ततः करुद्धः कषुरप्रेण महारथः धनुश चिच्छेद समरे परहसन्न इव भारत ॥ 28 ॥
शिखण्डी तु ततः करुद्धश छिन्ने धनुषि सत्वरम असिं जग्राह समरे शतचन्द्रं च भास्वरम ॥ 29 ॥
भरमयित्वा महाचर्म चामीकरविभूषितम तम असिं परेषयाम आस कृतवर्म रथं परति ॥ 30 ॥
स तस्य स शरं चापं छित्त्वा संख्ये महान असिः अभ्यगाद धरणीं राजंश चयुतं जयॊतिर इवाम्बरात ॥ 31 ॥
एतस्मिन्न एव काले तु तवरमाणा महारथाः विव्यधुः सायकैर गाढं कृतवर्माणम आहवे ॥ 32 ॥
अथान्यद धनुर आदाय तयक्त्वा तच च महद धनुः विशीर्णं भरतश्रेष्ठ हार्दिक्यः परवीरहा ॥ 33 ॥
विव्याध पाण्डवान युद्धे तरिभिस तरिभिर अजिह्मगैः शिखण्डिनं च विव्याध तरिभिः पञ्चभिर एव च ॥ 34 ॥
धनुर अन्यत समादाय शिखण्डी तु महायशाः अवारयत कूर्मनखैर आशुगैर हृदिकात्मजम ॥ 35 ॥
ततः करुद्धॊ रणे राजन हृदिकस्यात्म संभवः अभिदुद्राव वेगेन याज्ञसेनिं महारथम ॥ 36 ॥
भीष्मस्य समरे राजन मृत्यॊर हेतुं महात्मनः विदर्शयन बलं शूरः शार्दूल इव कुञ्जरम ॥ 37 ॥
तौ दिशागजसंकाशौ जवलिताव इव पावकौ समासेदतुर अन्यॊन्यं शरसंघैर अरिंदमौ ॥ 38 ॥
विधुन्वानौ धनुःश्रेष्ठे संदधानौ च सायकान विसृजन्तौ च शतशॊ गभस्तीन इव भास्करौ ॥ 39 ॥
तापयन्तौ शरैस तीक्ष्णैर अन्यॊन्यं तौ महारथौ युगान्तप्रतिमौ वीरौ रेजतुर भास्कराव इव ॥ 40 ॥
कृतवर्मा तु रभसं याज्ञसेनिं महारथम विद्ध्वेषूणां तरिसप्तत्या पुनर विव्याध सप्तभिः ॥ 41 ॥
स गाढविद्धॊ वयथितॊ रथॊपस्थ उपाविशत विसृजन सशरं चापं मूर्छयाभिपरिप्लुतः ॥ 42 ॥
तं विषण्णं रथे दृष्ट्वा तावका भरतर्षभ हार्दिक्यं पूजयाम आसुर वासांस्य आदुधुवुश च ह ॥ 43 ॥
शिखण्डिनं तथा जञात्वा हार्दिक्य शरपीडितम अपॊवाह रणाद यन्ता तवरमाणॊ महारथम ॥ 44 ॥
सादितं तु रथॊपस्थे दृष्ट्वा पार्थाः शिखण्डिनम परिवव्रू रथैस तूर्णं कृतवर्माणम आहवे ॥ 45 ॥
तत्राद्भुतं परं चक्रे कृतवर्मा महारथः यद एकः समरे पार्थान वारयाम आस सानुगान ॥ 46 ॥
पार्थाञ जित्वाजयच चेदीन पाञ्चालान सृञ्जयान अपि केकयांश च महावीर्यान कृतवर्मा महारथः ॥ 47 ॥
ते वध्यमानाः समरे हार्दिक्येन सम पाण्डवाः इतश चेतश च धावन्तॊ नैव चक्रुर धृतिं रणे ॥ 48 ॥
जित्वा पाण्डुसुतान युद्धे भीमसेनपुरॊगमान हार्दिक्यः समरे ऽतिष्ठद विधूम इव पावकः ॥ 49 ॥
ते दराव्यमाणाः समरे हार्दिक्येन महारथाः विमुखाः समपद्यन्त शरवृष्टिभिर अर्दिताः ॥ 50 ॥
द्रोणपर्व · Drona Parva
अध्याय 90
Reach this point to mark the section finished.
Continue to अध्याय 91