[धृ] एवं बहुविधं सैन्यम एवं परविचितं वरम वयूढम एवं यथान्यायम एवं बहु च संजय ॥ 1 ॥
नित्यं पूजितम अस्माभिर अभिकामं च नः सदा परौढम इत्य अद्भुताकारं पुरस्ताद दृढविक्रमम ॥ 2 ॥
नातिवृद्धम अबालं च न कृशं नातिपीवरम लघुवृत्तायतप्राणं सारगात्रम अनामयम ॥ 3 ॥
आत्तसंनाहसंपन्नं बहुशस्त्रपरिच्छदम शस्त्रग्रहणविद्यासु बह्वीषु परिनिष्ठितम ॥ 4 ॥
आरॊहे पर्यवस्कन्दे सरणे सान्तरप्लुते सम्यक्प्रहरणे याने वयपयाने च कॊविदम ॥ 5 ॥
नागेष्व अश्वेषु बहुशॊ रथेषु च परीक्षितम परीक्ष्य च यथान्यायं वेतनेनॊपपादितम ॥ 6 ॥
न गॊष्ठ्या नॊपचारेण न संबन्ध निमित्ततः नानाहूतॊ न हय अभृतॊ मम सैन्ये बभूव ह ॥ 7 ॥
कुलीनार्य जनॊपेतं तुष्टपुष्टम अनुद्धतम कृतमानॊपकारम च यशस्वि च मनस्वि च ॥ 8 ॥
सचिवैश चापरैर मुख्यैर बहुभिर मुख्यकर्मभिः लॊकपालॊपमैस तात पालितं नरसत्तमैः ॥ 9 ॥
बहुभिः पार्थिवैर गुप्तम अस्मत्प्रियचिकीर्षुभिः अस्मान अभिसृतैः कामात सबलैः सपदानुगैः ॥ 10 ॥
महॊदधिम इवापूर्णम आपगाभिः समन्ततः अपक्षैः पक्षिसंकाशै रथैर अश्वैश च संवृतम ॥ 11 ॥
यॊधाक्षय्य जलं भीमं वाहनॊर्मितरङ्गिणम कषेपण्यसिगदाशक्तिशरप्रासझषाकुलम ॥ 12 ॥
धवजभूषणसंबाधं रत्नपट्टेन संचितम वाहनैर अपि धावद्भिर वायुवेगविकम्पितम ॥ 13 ॥
दरॊण गम्भीरपातालं कृतवर्म महाह्रदम जलसंध महाग्राहं कर्ण चन्द्रॊदयॊद्धतम ॥ 14 ॥
गते सैन्यार्णवं भित्त्वा तरसा पाण्डवर्षभे संजयैक रथेनैव युयुधाने च मामकम ॥ 15 ॥
तत्र शेषं न पश्यामि परविष्टे सव्यसाचिनि सात्वते च रथॊदारे मम सैन्यस्य संजय ॥ 16 ॥
तौ तत्र समतिक्रान्तौ दृष्ट्वाभीतौ तरस्विनौ सिन्धुराजं च संप्रेक्ष्य गाण्डीवस्येषु गॊचरे ॥ 17 ॥
किं तदा कुरवः कृत्यं विदधुः कालचॊदिताः दारुणैकायने काले कथं वा परतिपेदिरे ॥ 18 ॥
गरस्तान हि कौरवान मन्ये मृत्युना तात संगतान विक्रमॊ हि रणे तेषां न तथा दृश्यते ऽदय वै ॥ 19 ॥
अक्षतौ संयुगे तत्र परविष्टौ कृष्ण पाण्डवौ न च वारयिता कश चित तयॊर अस्तीह संजय ॥ 20 ॥
भृताश च बहवॊ यॊधाः परीक्ष्यैव महारथाः वेतनेन यथायॊग्यं परियवादेन चापरे ॥ 21 ॥
अकारणभृतस तात मम सैन्ये न विद्यते कर्मणा हय अनुरूपेण लभ्यते भक्त वेतनम ॥ 22 ॥
न च यॊधॊ ऽभवत कश चिन मम सैन्ये तु संजय अल्पदानभृतस तात न कुप्य भृतकॊ नरः ॥ 23 ॥
पूजिता हि यथाशक्त्या दानमानासनैर मया तथा पुत्रैश च मे तात जञातिभिश च स बान्धवैः ॥ 24 ॥
ते च पराप्यैव संग्रामे निर्जिताः सव्यसाचिना शैनेयेन परामृष्टाः किम अन्यद भागधेयतः ॥ 25 ॥
रक्ष्यते यश च संग्रामे ये च संजय रक्षिणः एकः साधारणः पन्था रक्ष्यस्य सह रक्षिभिः ॥ 26 ॥
अर्जुनं समरे दृष्ट्वा सैन्धवस्याग्रतः सथितम पुत्रॊ मम भृशं मूढः किं कार्यं परत्यपद्यत ॥ 27 ॥
सात्यकिं च रणे दृष्ट्वा परविशन्तम अभीतवत किं नु दुर्यॊधनः कृत्यं पराप्तकालम अमन्यत ॥ 28 ॥
सर्वशस्त्रातिगौ सेनां परविष्टौ रथसत्तमौ दृष्ट्वा कां वै धृतिं युद्धे परत्यपद्यन्त मामकाः ॥ 29 ॥
दृष्ट्वा कृष्णं तु दाशार्हम अर्जुनार्थे वयवस्थितम शिनीनाम ऋषभं चैव मन्ये शॊचन्ति पुत्रकाः ॥ 30 ॥
दृष्ट्वा सेनां वयतिक्रान्तां सात्वतेनार्जुनेन च पलायमानांश च कुरून मन्ये शॊचन्ति पुत्रकाः ॥ 31 ॥
विद्रुतान रथिनॊ दृष्ट्वा निरुत्साहान दविषज जये पलायने कृतॊत्साहान मन्ये शॊचन्ति पुत्रकाः ॥ 32 ॥
शून्यान कृतान रथॊपस्थान सात्वतेनार्जुनेन च हतांश च यॊधान संदृश्य मन्ये शॊचन्ति पुत्रकाः ॥ 33 ॥
वयश्व नागरथान दृष्ट्वा तत्र वीरान सहस्रशः धावमानान रणे वयग्रान मन्ये शॊचन्ति पुत्रकाः ॥ 34 ॥
विवीरांश च कृतानाश्वान विरथांश च कृतान नरान तत्र सात्यकिपार्थाभ्यां मन्ये शॊचन्ति पुत्रकाः ॥ 35 ॥
पत्तिसंघान रणे दृष्ट्वा धावमानांश च सर्वशः निराशा विजये सर्वे मन्ये शॊचन्ति पुत्रकाः ॥ 36 ॥
दरॊणस्य समतिक्रान्ताव अनीकम अपराजितौ कषणेन दृष्ट्वा तौ वीरौ मन्ये शॊचन्ति पुत्रकाः ॥ 37 ॥
संमूढॊ ऽसमि भृशं तात शरुत्वा कृष्ण धनंजयौ परविटौ मामकं सैन्यं सात्वतेन सहाच्युतौ ॥ 38 ॥
तस्मिन परविष्टे पृतनां शिनीनां परवरे रथे भॊजानीकं वयतिक्रान्ते कथम आसन हि कौरवाः ॥ 39 ॥
तथा दरॊणेन समरे निगृहीतेषु पाण्डुषु कथं युद्धम अभूत तत्र तन ममाचक्ष्व संजय ॥ 40 ॥
दरॊणॊ हि बलवाञ शूरः कृतास्त्रॊ दृढविक्रमः पाञ्चालास तं महेष्वासं परत्ययुध्यन कथं रणे ॥ 41 ॥
बद्धवैरास तथा दरॊणे धर्मराज जयैषिणः भारद्वाजस तथा तेषु कृतवैरॊ महारथः ॥ 42 ॥
अर्जुनश चापि यच चक्रे सिन्धुराजवधं परति तन मे सर्वं समाचक्ष्व कुशलॊ हय असि संजय ॥ 43 ॥
द्रोणपर्व · Drona Parva
अध्याय 89
Reach this point to mark the section finished.
Continue to अध्याय 90