[व] एवं पृष्ट्वा सूतपुत्रं हृच छॊकेनार्दितॊ भृशम जये निराशः पुत्राणां धृतराष्ट्रॊ ऽपतत कषितौ ॥ 1 ॥
तं विसंज्ञं निपतितं सिषुचुः परिचारकाः जलेनात्यर्थ शीतेन वीजन्तः पुण्यगन्धिना ॥ 2 ॥
पतितं चैनम आज्ञाय समन्ताद भरत सत्रियः परिवव्रुर महाराजम अस्पृशंश चैव पाणिभिः ॥ 3 ॥
उत्थाप्य चैनं शनकै राजानं पृथिवीतलात आसनं परापयाम आसुर बाष्पकण्ठ्यॊ वराङ्गनाः ॥ 4 ॥
आसनं पराप्य राजा तु मूर्छयाभिपरिप्लुतः निश्चेष्टॊ ऽतिष्ठत तदा वीज्यमानः समन्ततः ॥ 5 ॥
स लब्ध्वा शनकैः संज्ञां वेपमानॊ महीपतिः पुनर गावल्गणिं सूतं पर्यपृच्छद यथातथम ॥ 6 ॥
यत तद उद्यन्न इवादित्यॊ जयॊतिषा परणुदंस तमः आयाद अजातशत्रुर वै कस तं दरॊणाद अवारयत ॥ 7 ॥
परभिन्नम इव मातङ्गं तथ करुद्धं तरस्विनम आसक्तमनसं दीप्तं परति दविरदघातिनम वाशिता संगमे यद्वद अजय्यं परतियूथपैः ॥ 8 ॥
अति चान्यान रणे यॊधान वीरः पुरुषसत्तमः यॊ हय एकॊ हि महाबाहुर निर्दहेद घॊरचक्षुषा कृत्स्नं दुर्यॊधन बलं धृतिमान सत्यसंगरः ॥ 9 ॥
चक्षुर्हणं जये सक्तम इष्वास वररक्षितम दान्तं बहुमतं लॊके के शूराः पर्यवारयन ॥ 10 ॥
के दुष्प्रधर्षं राजानम इष्वास वरम अच्युतम समासेदुर नरव्याघ्रं कौन्तेयं तत्र मामकाः ॥ 11 ॥
तरसैवाभिपत्याथ यॊ वै दरॊणम उपाद्रवत तं भीमसेनम आयान्तं के शूराः पर्यवारयन ॥ 12 ॥
यद आयाज जलदप्रख्यॊ रथः परमवीर्यवान पर्जन्य इव बीभत्सुस तुमुलाम अशनिं सृजन ॥ 13 ॥
ववर्ष शरवर्षाणि वर्षाणि मघवान इव इषुसंबाधम आकाशं कुर्वन कपिवरध्वजः अवस्फूर्जन दिशः सर्वास तलनेमि सवनेन च ॥ 14 ॥
चापविद्युत परभॊ घॊरॊ रथगुल्म बलाहकः रथनेमि घॊषस्तनितः शरशब्दातिबन्धुरः ॥ 15 ॥
रॊषनिर्जित जीमूतॊ मनॊ ऽभिप्राय शीघ्रगः मर्मातिगॊ बाणधारस तुमुलः शॊणितॊदकः ॥ 16 ॥
संफाल्वयन महीं वर्षां मानवैर आस्तरंस तदा गना निष्टनितॊ रौद्रॊ दुर्यॊधनकृतॊद्यमः ॥ 17 ॥
युद्धे ऽभयषिञ्चद विजयॊ गार्ध्रपत्रिः शिलाशितैः गाण्डीवं धारयन धीमान कीदृशं वॊ मनस तदा ॥ 18 ॥
कच चिद गाण्डीवशब्देन न परणश्यत वै बलम यद वः स भैरवं कुर्वन्न अर्जुनॊ भृशम अभ्यगात ॥ 19 ॥
कच चिन नापानुदद दरॊणाद इषुभिर वॊ धनंजयः वातॊ मेघान इवाविध्यन परवाञ शरवनानिलह कॊ हि गाण्डीवधन्वानं नरः सॊढुं रणे ऽरहति ॥ 20 ॥
यत सेनाः समकम्पन्त यद वीरान अस्पृशद भयम के तत्र नाजहुर दरॊणं के कषुद्राः पराद्रवन भयात ॥ 21 ॥
के वा तत्र तनूस तयक्त्वा परतीपं मृत्युम आव्रजन अमानुषाणां जेतारं युद्धेष्व अपि धनंजयम ॥ 22 ॥
न च वेगं सिताश्वस्य विशक्ष्यन्तीह मामकाः गाण्डीवस्य च निर्घॊषं परावृड जलदनिस्वनम ॥ 23 ॥
विष्वक्सेनॊ यस्य यन्ता यॊद्धा चैव धनंजयः अशक्यः स रथॊ जेतुं मन्ये देवासुरैर अपि ॥ 24 ॥
सुकुमारॊ युवा शूरॊ दर्शनीयश च पाण्डवः मेधावी निपुणॊ धीमान युधि सत्यपराक्रमः ॥ 25 ॥
आरावं विपुलं कुर्वन वयथयन सर्वकौरवान यदायान नकुलॊ धीमान के शूराः पर्यवारयन ॥ 26 ॥
आशीविष इव करुद्धः सहदेवॊ यदाभ्ययात शत्रूणां कदनं जुर्वञ जेतासौ दुर्जयॊ युधि ॥ 27 ॥
आर्य वरतम अमॊघेषुं हरीमन्तम अपराजितम दरॊणायाभिमुखं यान्तं के शूराः पर्यवारयन ॥ 28 ॥
यः स सौवीरराजस्य परमथ्य महतीं चमूम आदत्त महिषीं भॊज्यां काम्यां सर्वाङ्गशॊभनाम ॥ 29 ॥
सत्यं धृतिश च शौर्यं च बरह्मचर्यं च केवलम सर्वाणि युयुधाने ऽसमिन नित्यानि पुरुषर्षभे ॥ 30 ॥
बलिनं सत्यकर्माणम अदीनम अपराजितम वासुदेव समं युद्धे वासुदेवाद अनन्तरम ॥ 31 ॥
युक्तं धनंजय परेष्ये शूरम आचार्य कर्मणि पार्थेन समम अस्त्रेषु कस तं दरॊणाद अवारयत ॥ 32 ॥
वृष्णीनां परवरं वीरं शूरं सर्वधनुष्मताम रामेण समम अस्त्रेषु यशसा विक्रमेण च ॥ 33 ॥
सत्यं धृतिर दमः शौर्यं बरह्मचर्यम अनुत्तमम सात्वते तानि सर्वाणि तरैलॊक्यम इव केशवे ॥ 34 ॥
तम एवं गुन संपन्नं दुर्वारम अपि दैवतैः समासाद्य महेष्वासं के वीराः पर्यवारयन ॥ 35 ॥
पाञ्चालेषूत्तमं शूरम उत्तमाभिजन परियम नित्यम उत्तमकर्माणम उत्तमौजसम आहवे ॥ 36 ॥
युक्तं धनंजय हिते ममानर्थाय चॊत्तमम यम वैश्रवणादित्य महेन्द्रवरुणॊपमम ॥ 37 ॥
महारथसमाख्यातं दरॊणायॊद्यन्तम आहवे तयजन्तं तुमुले पराणान के शूराः पर्यवारयन ॥ 38 ॥
एकॊ ऽपसृत्य चेदिभ्यः पाण्डवान यः समाश्रितः धृष्टकेतुं तमायान्तं दरॊणात कः समवारयत ॥ 39 ॥
यॊ ऽवधीत केतुमाञ शूरॊ राजपुत्रं सुदर्शनम अपरान्त गिरिद्वारे कस तं दरॊणाद अवारयत ॥ 40 ॥
सत्रीपूर्वॊ यॊ नरव्याघ्रॊ यः स वेद गुणागुणान शिखण्डिनं याज्ञसेनिम अम्लान मनसं युधि ॥ 41 ॥
देवव्रतस्य समरे हेतुं मृत्यॊर महात्मनः दरॊणायाभिमुखं यान्तं के वीराः पर्यवारयन ॥ 42 ॥
यस्मिन्न अभ्यधिका वीरे गुणाः सर्वे धनंजयात यस्मिन्न अस्त्राणि सत्यं च बरह्मचर्यं च नित्यदा ॥ 43 ॥
वासुदेव समं वीर्ये धनंजय समं बले तेजसादित्यसदृशं बृहस्पतिसमं मतौ ॥ 44 ॥
अभिमन्युं महात्मानं वयात्ताननम इवान्तकम दरॊणायाभिमुखं यान्तं के वीराः पर्यवारयन ॥ 45 ॥
तरुणस तव अरुणप्रख्यः सौभद्रः परवीरहा यदाभ्याद्रवत दरॊणं तदासीद वॊ मनः कथम ॥ 46 ॥
दरौपदेया नरव्याघ्राः समुद्रम इव सिन्धवः यद दरॊणम आद्रवन संख्ये के वीरास तान अवारयन ॥ 47 ॥
ये ते दवादश वर्षाणि करीडाम उत्सृज्य बालकाः अस्त्रार्थम अवसन भीष्मे बिभ्रतॊ वरतम उत्तमम ॥ 48 ॥
कषत्रं जयः कषत्रदेवः कषत्रधर्मा च मानिनः धृष्टद्युम्नात्मजा वीराः के तान दरॊणाद अवारयन ॥ 49 ॥
शताद विशिष्टं यं युद्धे समपश्यन्त वृष्णयः चेकितानं महेष्वासं कस तं दरॊणाद अवारयत ॥ 50 ॥
वार्धक्षेमिः कलिङ्गानां यः कन्याम आहरद युधि अनाधृष्टिर अदीनात्मा कस तं दरॊणाद अवारयत ॥ 51 ॥
भरातरः पञ्च कैकेया धार्मिकाः सत्यविक्रमाः इन्द्र गॊपक वर्णाश च रक्तवर्मायुध धवजाः ॥ 52 ॥
मातृष्वसुः सुता वीराः पाण्डवानां जयार्थिनः तान दरॊणं हन्तुम आयातान के वीराः पर्यवारयन ॥ 53 ॥
यं यॊधयन्तॊ राजानॊ नाजयन वारणावते षण मासान अभिसंरब्धा जिघांसन्तॊ युधां पतिम ॥ 54 ॥
धनुष्मतां वरं शूरं सत्यसंधं महाबलम दरॊणात कस तं नरव्याघ्रं युयुत्सुं परत्यवारयत ॥ 55 ॥
यः पुत्रं काशिराजस्य वाराणस्यां महारथम समरे सत्रीषु गृध्यन्तं भल्लेनापहरद रथात ॥ 56 ॥
धृष्टद्युम्नं महेष्वासं पार्थानां मन्त्रधारिणम युक्तं दुर्यॊधनानर्थे सृष्टं दरॊण वधाय च ॥ 57 ॥
निर्दहन्तं रणे यॊधान दारयन्तं च सर्वशः दरॊणायाभिमुखं यान्तं के वीराः पर्यवारयन ॥ 58 ॥
उत्सङ्ग इव संवृद्धं दरुपदस्यास्त्रवित्तमम शैखण्डिनं कषत्रदेवं के तं दरॊणाद अवारयन ॥ 59 ॥
य इमां पृथिवीं कृत्स्नां चर्म वत्सम अवेष्टयत महता रथवंशेन मुख्यारिघ्नॊ महारथः ॥ 60 ॥
दशाश्वमेघान आजह्रे सवन्नपानाप्त दक्षिणान निरर्गलान सर्वमेधान पुत्रवत पालयन परजाः ॥ 61 ॥
पिबन्त्यॊ दक्षिणां यस्य गङ्गा सरॊतः समापिबन तावतीर गा ददौ वीर उशीनर सुतॊ ऽधवरे ॥ 62 ॥
न पूर्वे नापरे चक्रुर इदं के चन मानवाः इति संचुक्रुशुर देवाः कृते कर्मणि दुष्करे ॥ 63 ॥
पश्यामस तरिषु लॊकेषु न तं संस्थास्नुचारिषु जातं वापि जनिष्यं वा दवितीयं वापि संप्रति ॥ 64 ॥
अन्यम औशीनराच छैब्याद धुरॊ वॊढारम इत्य उत गतिं यस्य न यास्यन्ति मानुषा लॊकवासिनः ॥ 65 ॥
तस्य नप्तारम आयान्तं शैब्यं कः समवारयत दरॊणायाभिमुखं यान्तं वयात्ताननम इवान्तकम ॥ 66 ॥
विराटस्य रथानीकं मत्स्यस्यामित्र धातिनः परेप्सन्तं समरे दरॊणं के वीराः पर्यवारयन ॥ 67 ॥
सद्यॊ वृकॊदराज जातॊ महाबलपराक्रमः मायावी राक्षसॊ घॊरॊ यस्मान मम महद भयम ॥ 68 ॥
पार्थानां जय कामं तं पुत्राणां मम कण्टकम घटॊत्कचं महाबाहुं कस तं दरॊणाद अवारयत ॥ 69 ॥
एते चान्ये च बहवॊ येषाम अर्थाय संजय तयक्तारः संयुगे पराणान किं तेषाम अजितं युधि ॥ 70 ॥
येषां च पुरुषव्याघ्रः शार्ङ्गधन्वा वयपाश्रयः हितार्थी चापि पार्थानां कथं तेषां पराजयः ॥ 71 ॥
लॊकानां गुरुर अत्यन्तं लॊकनाथः सनातनः नारायणॊ रणे नाथॊ दिव्यॊ दिव्यात्मवान परभुः ॥ 72 ॥
यस्य दिव्यानि कर्माणि परवदन्ति मनीषिणः तान्य अहं कीर्तयिष्यामि भक्त्या सथैर्यार्थम आत्मनः ॥ 73 ॥
द्रोणपर्व · Drona Parva
अध्याय 9
Reach this point to mark the section finished.
Continue to अध्याय 10