धर्मDharmic Data

द्रोणपर्व · Drona Parva

अध्याय 8

  1. [धृ] किं कुर्वाणं रणे दरॊणं जघ्नुः पाण्डव सृञ्जयाः तथा निपुणम अस्त्रेषु सर्वशस्त्रभृताम अपि ॥ 1 ॥

  2. रथभङ्गॊ बभूवास्य धनुर वाशीर्यतास्यतः परमत्तॊ वाभवद दरॊणस ततॊ मृत्युम उपेयिवान ॥ 2 ॥

  3. कथं नु पार्षतस तात शत्रुभिर दुष्प्रधर्षणम किरन्तम इषुसंघातान रुक्मपुङ्खान अनेकशः ॥ 3 ॥

  4. कषिप्रहस्तं दविजश्रेष्ठं कृतिनं चित्रयॊधिनम दूरेषु पातिनं दान्तम अस्त्रयुद्धे च पारगम ॥ 4 ॥

  5. पाञ्चाल पुत्रॊ नयवधीद दिष्ट्या स वरम अच्युतम कुर्वाणं दारुणं कर्म रणे यत्तं महारथम ॥ 5 ॥

  6. वयक्तं दिष्टं हि बलवत पौरुषाद इति मे मतिः यद दरुणॊ निहतः शूरः पार्षतेन महात्मना ॥ 6 ॥

  7. अस्त्रं चतुर्विधं वीरे यस्मिन्न आसीत परतिष्ठितम तम इष्वस्त्रवराचार्यं दरॊणं शंससि मे हत ॥ 7 ॥

  8. शरुत्वा हतं रुक्मरथं वैयाघ्रपरिवारणम जातरूपपरिष्कारं नाद्य शॊकम अपानुदे ॥ 8 ॥

  9. न नूनं परदुःखेन कश चिन मरियति संजय यत्र दरॊणम अहं शरुत्वा हतं जीवामि न मरिये ॥ 9 ॥

  10. अश्मसारमयं नूनं हृदयं सुदृढं मम यच छरुत्वा निहतं दरॊणं शतधा न विदीर्यते ॥ 10 ॥

  11. बराह्मे वेदे तथेष्व अस्त्रे यम उपासन गुणार्थिनः बराह्मणा राजपुत्राश च स कथं मृत्युना हतः ॥ 11 ॥

  12. शॊषणं सागरस्येव मेरॊर इव विसर्पणम पतनं भास्करस्येव न मृष्ये दरॊण पातनम ॥ 12 ॥

  13. दृप्तानां परतिषेद्धासीद धार्मिकानां च रक्षिता यॊ ऽतयाक्षीत कृपणस्यार्थे पराणान अपि परंतपः ॥ 13 ॥

  14. मन्दानां मम पुत्राणां जयाशा यस्य विक्रमे बृहस्पत्युशनस तुल्यॊ बुद्ध्या स निहतः कथम ॥ 14 ॥

  15. ते च शॊणा बृहन्तॊ ऽशवाः सैन्धवा हेममालिनः रथे वातजया युक्ताः सर्वशब्दातिगा रणे ॥ 15 ॥

  16. बलिनॊ घॊषिणॊ दान्ताः सैन्धवाः साधु वाहिनः दृढाः संग्राममध्येषु कच चिद आसन न विह्वलाः ॥ 16 ॥

  17. करिणां बृंहतां युद्धे शङ्खदुन्दुभिनिस्वनम जया कषेप शरवर्षाणां शस्त्राणां च सहिष्णवः ॥ 17 ॥

  18. आशंसन्तः पराञ जेतुं जितश्वासा जितव्यथाः हयाः परजविताः शीघ्रा भारद्वाज रथॊद्वहाः ॥ 18 ॥

  19. ते सम रुक्मरथे युक्ता नरवीर समाहिताः कथं नाभ्यतरंस तात पाण्डवानाम अनीकिनीम ॥ 19 ॥

  20. जातरूपपरिष्कारम आस्थाय रथम उत्तमम भारद्वाजः किम अकरॊच छूरः संक्रन्दनॊ युधि ॥ 20 ॥

  21. विद्यां यस्यॊपजीवन्ति सर्वलॊकधनुर्भृतः स सत्यसंधॊ बलवान दरॊणः किम अकरॊद युधि ॥ 21 ॥

  22. दिवि शक्रम इव शरेष्ठं महामात्रं धनुर्भृताम के नु तं रौद्रकर्माणं युद्धे परत्युद्ययू रथाः ॥ 22 ॥

  23. ननु रुक्मरथं दृष्ट्वा परद्रवन्ति सम पाण्डवाः दिव्यम अस्त्रं विकुर्वाणं सेनां कषिण्वन्तम अव्ययम ॥ 23 ॥

  24. उताहॊ सर्वसैन्येन धर्मराजः सहानुजः पाञ्चाल्य परग्रहॊ दरॊणं सर्वतः समवारयत ॥ 24 ॥

  25. नूनम आवरयत पार्थॊ रथिनॊ ऽनयान अजिह्मगैः ततॊ दरॊणं समारॊहत पार्षतः पापकर्मकृत ॥ 25 ॥

  26. न हय अन्यं परिपश्यामि वधे कं चन शुष्मिणः धृष्टद्युम्नाद ऋते रौद्रात पाल्यमानात किरीटिना ॥ 26 ॥

  27. तैर वृतः सर्वतः शूरैः पाञ्चाल्यापसदस ततः केकयैर्श चेदिकारूषैर मत्स्यैर अन्यैश च भूमिपैः ॥ 27 ॥

  28. वयाकुलीकृतम आचार्यं पिपीलैर उरगं यथा कर्मण्य सुकरे सक्तं जघानेति मतिर मम ॥ 28 ॥

  29. यॊ ऽधीत्य चतुरॊ वेदान सर्वान आख्यान पञ्चमान बराह्मणानां परतिष्ठासीत सरॊतसाम इव सागरः स कथं बराह्मणॊ वृद्धः शस्त्रेण वधम आप्तवान ॥ 29 ॥

  30. अमर्षणॊ मर्षितवान कलिश्यमानः सदा मया अनर्हमाणः कौन्तेयः कर्मणस तस्य तत फलम ॥ 30 ॥

  31. यस्य कर्मानुजीवन्ति लॊके सर्वधनुर्भृतः स सत्यसंधः सुकृती शरीकामैर निहतः कथम ॥ 31 ॥

  32. दिवि शक्र इव शरेष्ठॊ महासत्त्वॊ महाबलः स कथं निहतः पार्थैः कषुद्रमत्स्यैर यथा तिमिः ॥ 32 ॥

  33. कषिप्रहस्तश च बलवान दृढधन्वारि मर्दनः न यस्य जीविताकाङ्क्षी विषयं पराप्य जीवति ॥ 33 ॥

  34. यं दवौ न जहतः शब्दौ जीवमानं कदा चन बराह्मश च वेद कामानां जयाघॊषश च धनुर्भृताम ॥ 34 ॥

  35. नाहं मृष्ये हतं दरॊणं सिंहद्विरदविक्रमम कथं संजय दुर्धर्षम अनाधृष्य यशॊबलम ॥ 35 ॥

  36. के ऽरक्षन दक्षिणं चक्रं सव्यं के च महात्मनः पुरस्तात के च वीरस्य युध्यमानस्य संयुगे ॥ 36 ॥

  37. के च तत्र तनुं तयक्त्वा परतीपं मृत्युम आव्रजन दरॊणस्य समरे वीराः के ऽकुर्वन्त परां धृतिम ॥ 37 ॥

  38. एतद आर्येण कर्तव्यं कृच्छ्रास्व आपत्सु संजय पराक्रमेद यथाशक्थ्या तच च तस्मिन परतिष्ठितम ॥ 38 ॥

  39. मुह्यते मे मनस तात कथा तावन निवर्त्यताम भूयस तु लब्धसंज्ञस तवा परिप्रक्ष्यामि संजय ॥ 39 ॥

Reach this point to mark the section finished.

Continue to अध्याय 9

Previous: अध्याय 7