धर्मDharmic Data

द्रोणपर्व · Drona Parva

अध्याय 10

  1. [धृ] शृणु दिव्यानि कर्माणि वासुदेवस्य संजय कृतवान यानि गॊविन्दॊ यथा नान्यः पुमान कव चित ॥ 1 ॥

  2. संवर्धता गॊप कुले बालेनैव महात्मना विख्यापितं बलं बाह्वॊस तरिषु लॊकेषु संजय ॥ 2 ॥

  3. उच्छैः शरवस तुल्यबलं वायुवेगसमं जवे जघान हयराजं यॊ यमुनावनवासिनम ॥ 3 ॥

  4. दानवं घॊरकर्माणं गवां मृत्युम इवॊत्थितम वृषरूपधरं बाल्ये भुजाभ्यां निजघान ह ॥ 4 ॥

  5. परलम्बं नरकं जम्भं पीठं चापि महासुरम मुरुं चाचलसंकाशम अवधीत पुष्करेक्षणः ॥ 5 ॥

  6. तथा कंसॊ महातेजा जरासंधेन पालितः विक्रमेणैव कृष्णेन सगणः शातितॊ रणे ॥ 6 ॥

  7. सुनामा नाम विक्रान्तः समग्राक्षौहिणी पतिः भॊजराजस्य मध्यस्थॊ भराता कंसस्य वीर्यवान ॥ 7 ॥

  8. बलदेव दवितीयेन कृष्णेनामित्र घातिना तरस्वी समरे दग्धः स सैन्यः शूरसेनराट ॥ 8 ॥

  9. दुर्वासा नाम विप्रर्षिस तथा परमकॊपनः आराधितः सदारेण स चास्मै परददौ वरान ॥ 9 ॥

  10. तथा गान्धारराजस्य सुतां वीरः सवयंवरे निर्जित्य पृथिवीपालान अवहत पुष्करेक्षणः ॥ 10 ॥

  11. अमृष्यमाणा राजानॊ यस्य जात्या हया इव रथे वैवाहिके युक्ताः परतॊदेन कृतव्रणाः ॥ 11 ॥

  12. जरासंधं महाबाहुम उपायेन जनार्दनः परेण घातयाम आस पृथग अक्षौहिणीपतिम ॥ 12 ॥

  13. चेदिराजं च विक्रान्तं राजसेनापतिं बली अर्घे विवदमानं च जघान पशुवत तदा ॥ 13 ॥

  14. सौभं दैत्य पुरं सवस्थं शाल्व गुप्तं दुरासदम समुद्रकुक्षौ विक्रम्य पातयाम आस माधवः ॥ 14 ॥

  15. अङ्गान वङ्गान कलिङ्गांश च मागधान काशिकॊसलान वत्स गर्ग करूषांश च पुण्ड्रांश चाप्य अजयद रणे ॥ 15 ॥

  16. आवन्त्यान दाक्षिणात्यांश च पार्वतीयान दशेरकान काश्मीरकान औरसकान पिशाचांश च स मन्दरान ॥ 16 ॥

  17. काम्बॊजान वाटधानांश च चॊलान पाण्ड्यांश च संजय तरिगर्तान मालवांश चैव दरदांश च सुदुर्जयान ॥ 17 ॥

  18. नानादिग्भ्यश च संप्राप्तान वरातान अश्वशकान परति जितवान पुण्डरीकाक्षॊ यवनांश च सहानुगान ॥ 18 ॥

  19. परविश्य मकरावासं यादॊभिर अभिसंवृतम जिगाय वरुणं युद्धे सलिलान्तर गतं पुरा ॥ 19 ॥

  20. युधि पञ्चजनं हत्वा पातालतलवासिनम पाञ्चजन्यं हृषीकेशॊ दिव्यं शङ्खम अवाप्तवान ॥ 20 ॥

  21. खाण्डवे पार्थ सहितस तॊषयित्वा हुताशनम आग्नेयम अस्त्रं दुर्धर्षं चक्रं लेभे महाबलः ॥ 21 ॥

  22. वैनतेयं समारुह्य तरासयित्वामरावतीम महेन्द्रभवनाद वीरः पारिजातम उपानयत ॥ 22 ॥

  23. तच च मर्षितवाञ शक्रॊ जानंस तस्य पराक्रमम राज्ञां चाप्य अजितं कं चित कृष्णेनेह न शुश्रुम ॥ 23 ॥

  24. यच च तन महद आश्चर्यं सभायां मम संजय कृतवान पुण्डरीकाक्षः कस तद अन्य इहार्हति ॥ 24 ॥

  25. यच च भक्त्या परपन्नॊ ऽहम अद्राक्षं कृष्णम ईश्वरम तन मे सुविदितं सर्वं परत्यक्षम इव चागमत ॥ 25 ॥

  26. नान्तॊ विक्रमयुक्तस्य बुद्ध्या युक्तस्य वा पुनः कर्मणः शक्यते गन्तुं हृषीकेशस्य संजय ॥ 26 ॥

  27. तथा गदश च साम्बश च परद्युम्नॊ ऽथ विदूरथः आगावहॊ ऽनिरुद्धश च चारुदेष्णश च सारणः ॥ 27 ॥

  28. उल्मुकॊ निशठश चैव झल्ली बभ्रुश च वीर्यवान पृथुश च विपृथुश चैव समीकॊ ऽथारिमेजयः ॥ 28 ॥

  29. एते वै बलवन्तश च वृणि वीराः परहारिणः कथं चित पाण्डवानीकं शरयेयुः समरे सथिताः ॥ 29 ॥

  30. आहूता वृष्णिवीरेण केशवेन महात्मना ततः संशयितं सर्वं भवेद इति मतिर मम ॥ 30 ॥

  31. नागायुत बलॊ वीरः कैलासशिखरॊपमः वनमाली हली रामस तत्र यत्र जनार्दनः ॥ 31 ॥

  32. यम आहुः सर्वपितरं वासुदेवं दविजातयः अपि वा हय एष पाण्डूनां यॊत्स्यते ऽरथाय संजय ॥ 32 ॥

  33. स यदा तात संनह्येत पाण्डवार्थाय केशवः न तदा परत्यनीकेषु भविता तस्य कश चन ॥ 33 ॥

  34. यदि सम कुरवः सर्वे जयेयुः सर्वपाण्डवान वार्ष्णेयॊ ऽरथाय तेषां वै गृह्णीयाच छस्त्रम उत्तमम ॥ 34 ॥

  35. ततः सर्वान नरव्याघ्रॊ हत्वा नरपतीन रणे कौरवांश च महाबाहुः कुन्त्यै दद्यात स मेदिनीम ॥ 35 ॥

  36. यस्य यन्ता हृषीकेशॊ यॊद्धा यस्य धनंजयः रथस्य तस्य कः संख्ये परत्यनीकॊ भवेद रथः ॥ 36 ॥

  37. न केन चिद उपायेन कुरूणां दृश्यते जयः तस्मान मे सर्वम आचक्ष्व यथा युद्धम अवर्तत ॥ 37 ॥

  38. अर्जुनः केशवस्यात्मा कृष्णॊ ऽपय आत्मा किरीटिनः अर्जुने विजयॊ नित्यं कृष्णे कीर्तिश च शाश्वती ॥ 38 ॥

  39. पराधान्येन हि भूयिष्ठम अमेयाः केशवे गुणाः मॊहाद दुर्यॊधनः कृष्णं यन न वेत्तीह माधवम ॥ 39 ॥

  40. मॊहितॊ दैवयॊगेन मृत्युपाशपुरस्कृतः न वेद कृष्णं दाशार्हम अर्जुनं चैव पाण्डवम ॥ 40 ॥

  41. पूर्वदेवौ महात्मानौ नरनारायणाव उभौ एकात्मानौ दविधा भूतौ दृश्येते मानवैर भुवि ॥ 41 ॥

  42. मनसापि हि दुर्धर्षौ सेनाम एतां यशस्विनौ नाशयेताम इहेच्छन्तौ मानुषत्वात तु नेच्छतः ॥ 42 ॥

  43. युगस्येव विपर्यासॊ लॊकानाम इव मॊहनम भीष्मस्य च वधस तात दरॊणस्य च महात्मनः ॥ 43 ॥

  44. न हय एव बरह्मचर्येण न वेदाध्ययनेन च न करियाभिर न शस्त्रेण मृत्यॊः कश चिद विमुच्यते ॥ 44 ॥

  45. लॊकसंभावितौ वीरौ कृतास्त्रौ युद्धदुर्मदौ भीष्मद्रॊणौ हतौ शरुत्वा किं नु जीवामि संजय ॥ 45 ॥

  46. यां तां शरियम असूयामः पुरा यातां युधिष्ठिरे अद्य ताम अनुजानीमॊ भीष्मद्रॊणवधेन च ॥ 46 ॥

  47. तथा च मत्कृते पराप्तः कुरूणाम एष संक्षयः पक्वानां हि वधे सूत वज्रायन्ते तृणान्य अपि ॥ 47 ॥

  48. अनन्यम इदम ऐश्वर्यं लॊके पराप्तॊ युधिष्ठिरः यस्य कॊपान महेष्वासौ भीष्मद्रॊणौ निपातितौ ॥ 48 ॥

  49. पराप्तः परकृतितॊ धर्मॊ नाधर्मॊ मानवान परति करूरः सर्वविनाशाय कालः समतिवर्तते ॥ 49 ॥

  50. अन्यथा चिन्तिता हय अर्था नरैस तात मनस्विभिः अन्यथैव हि गच्छन्ति दैवाद इति मतिर मम ॥ 50 ॥

  51. तस्माद अपरिहार्ये ऽरथे संप्राप्ते कृच्छ्र उत्तमे अपारणीये दुश्चिन्त्ये यथा भूतं परचक्ष्व मे ॥ 51 ॥

Reach this point to mark the section finished.

Continue to अध्याय 11

Previous: अध्याय 9