धर्मDharmic Data

द्रोणपर्व · Drona Parva

अध्याय 88

  1. [स] परयाते तव सैन्यं तु युयुधाने युयुत्सया धर्मराजॊ महाराज सवेनानीकेन संवृतः परायाद दरॊण रथप्रेप्सुर युयुधानस्य पृष्ठतः ॥ 1 ॥

  2. ततः पाञ्चालराजस्य पुत्रः समरदुर्मदः पराक्रॊशत पाण्डवानीके वसु दानश च पार्थिवः ॥ 2 ॥

  3. आगच्छत परहरत दरुतं विपरिधावत यथासुखेन गच्छेत सात्यकिर युद्धदुर्मदः ॥ 3 ॥

  4. महारथा हि बहवॊ यतिष्यन्त्य अस्य निर्जये इति बरुवन्तॊ वेगेन समापेतुर बलं तव ॥ 4 ॥

  5. वयं परतिजिगीषन्तस तत्र तान समभिद्रुताः ततः शब्दॊ महान आसीद युयुधान रथं परति ॥ 5 ॥

  6. परकम्प्यमाना महती तव पुत्रस्य वाहिनी सात्वतेन महाराज शतधाभिव्यदीर्यत ॥ 6 ॥

  7. तस्यां विदीर्यमाणायां शिनेः पौत्रॊ महारथः सप्त वीरान महेष्वासान अग्रानीके वयपॊथयत ॥ 7 ॥

  8. ते भीता मृद्यमानाश च परमृष्टा दीर्घबाहुना आयॊधनं जहुर वीरा दृष्ट्वा तम अतिमानुषम ॥ 8 ॥

  9. रथैर विमथिताक्षैश च भग्ननीडैश च मारिष चक्रैर विमथितैश छिन्नैर धवजैश च विनिपातितैः ॥ 9 ॥

  10. अनुकर्षैः पताकाभिः शिरस तराणैः स काञ्चनैः बाहुभिश चन्दनादिग्धैः साङ्गदैश च विशां पते ॥ 10 ॥

  11. हस्तिहस्तॊपमैश चापि भुजगाभॊग संनिभैः ऊरुभिः पृथिवी छन्ना मनुजानां नरॊत्तम ॥ 11 ॥

  12. शशाङ्कसंनिकाशैश च वदनैश चारुकुण्डलैः पतितैर वृषभाक्षाणां बभौ भारत मेदिनी ॥ 12 ॥

  13. गजैश च बहुधा छिन्नैः शयानैः पर्वतॊपमैः रराजातिभृशं भूमिर विकीर्णैर इव पर्वतैः ॥ 13 ॥

  14. तपनीयमयैर यॊक्त्रैर्मुक्ता जालविभूषितैः उरश छदैर विचित्रैश च वयशॊभन्त तुरंगमाः गतसत्त्वा महीं पराप्य परमृष्टा दीर्घबाहुना ॥ 14 ॥

  15. नानाविधानि सैन्यानि तव हत्वा तु सात्वतः परविष्टस तावकं सैन्यं दरावयित्वा चमूं भृशम ॥ 15 ॥

  16. ततस तेनैव मार्गेण येन यातॊ धनंजयः इयेष सात्यकिर गन्तुं ततॊ दरॊणेन वारितः ॥ 16 ॥

  17. भरद्वाजं समासाद्य युयुधानस तु मारिष नाभ्यवर्तत संक्रुद्धॊ वेलाम इव जला शयः ॥ 17 ॥

  18. निवार्य तु रणे दरॊणॊ युयुधानं महारथम विव्याध निशितैर बाणैः पञ्चभिर मर्मभेदिभिः ॥ 18 ॥

  19. सात्यकिस तु रणे दरॊणं राजन विव्याध सप्तभिः हेमपुङ्खैः शिला धौतैः कङ्कबर्हिण वाजितैः ॥ 19 ॥

  20. तं षड्भिः सायकैर दरॊणः साश्वयन्तारम आर्दयत स तं न ममृषे दरॊणं युयुधानॊ महारथः ॥ 20 ॥

  21. सिंहनादं ततः कृत्वा दरॊणं विव्याध सात्यकिः दशभिः सायकैश चान्यैः षड्भिर अष्टाभिर एव च ॥ 21 ॥

  22. युयुधानः पुनर दरॊणं विव्याध दशभिः शरैः एकेन सारथिं चास्य चतुर्भिश चतुरॊ हयान धवजम एकेन बाणेन विव्याध युधि मारिष ॥ 22 ॥

  23. तं दरॊणः साश्वयन्तारं स रथध्वजम आशुगैः तवरन पराच्छादयद बाणैः शलभानाम इव वरजैः ॥ 23 ॥

  24. तथैव युयुधानॊ ऽपि दरॊणं बहुभिर आशुगैः पराच्छादयद असंभ्रान्तस ततॊ दरॊण उवाच ह ॥ 24 ॥

  25. तवाचार्यॊ रणं हित्वा गतः कापुरुषॊ यथा युध्यमानं हि मां हित्वा परदक्षिणम अवर्तत ॥ 25 ॥

  26. तवं हि मे युध्यतॊ नाद्य जीवन मॊक्ष्यसि माधव यदि मां तवं रणे हित्वा न यास्य आचार्यवद दरुतम ॥ 26 ॥

  27. [सात्यकि] धनंजयस्य पदवीं धर्मराजस्य शासनात गच्छामि सवस्ति ते बरह्मन न मे कालात्ययॊ भवेत ॥ 27 ॥

  28. [स] एतावद उक्त्वा शैनेय आचार्यं परिवर्जयन परयातः सहसा राजन सारथिं चेदम अब्रवीत ॥ 28 ॥

  29. दरॊणः करिष्यते यत्नं सर्वथा मम वारणे यत्तॊ याहि रणे सूत शृणु चेदं वचः परम ॥ 29 ॥

  30. एतद आलॊक्यते सैन्यम आवन्त्यानां महाप्रभम अस्यानन्तरतस तव एतद दाक्षिणात्यं महाबलम ॥ 30 ॥

  31. तदनन्तरम एतच च बाह्लिकानां बलं महत बाह्लिकाभ्याशतॊ युक्तं कर्णस्यापि महद बलम ॥ 31 ॥

  32. अन्यॊन्येन हि सैन्यानि भिन्नान्य एतानि सारथे अन्यॊन्यं समुपाश्रित्य न तयक्ष्यन्ति रणाजिरम ॥ 32 ॥

  33. एतद अन्तरम आसाद्य चॊदयाश्वान परहृष्टवत मध्यमं जवम आस्थाय वह माम अत्र सारथे ॥ 33 ॥

  34. बाह्लिका यत्र दृश्यन्ते नानाप्रहरणॊद्यताः दाक्षिणात्याश च बहवः सूतपुत्र पुरॊगमाः ॥ 34 ॥

  35. हस्त्यश्वरथसंबाधं यच चानीकं विलॊक्यते नानादेशसमुत्थैश च पदातिभिर अधिष्ठितम ॥ 35 ॥

  36. एतावद उक्त्वा यन्तारं बरह्माणं परिवर्जयन स वयतीयाय यत्रॊग्रं कर्णस्य सुमहद बलम ॥ 36 ॥

  37. तं दरॊणॊ ऽनुययौ करुद्धॊ विकिरन विशिखान बहून युयुधानं महाबाहुं गच्छन्तम अनिवर्तिनम ॥ 37 ॥

  38. कर्णस्य सैन्यं सुमहद अभिहत्य शितैः शरैः पराविशद भारतीं सेनाम अपर्यन्तां स सात्यकिः ॥ 38 ॥

  39. परविष्टे युयुधाने तु सैनिकेषु दरुतेषु च अमर्षी कृतवर्मा तु सात्यकिं पर्यवारयत ॥ 39 ॥

  40. तम आपतन्तं विशिखैः षड्भिर आहत्य सात्यकिः चतुर्भिश चतुरॊ ऽसयाश्वान आजघानाशु वीर्यवान ॥ 40 ॥

  41. ततः पुनः षॊडशभिर नतपर्वभिर आशुगैः सात्यकिः कृतवर्माणं परत्यविध्यत सतनान्तरे ॥ 41 ॥

  42. स तुद्यमानॊ विशिखैर बहुभिस तिग्मतेजनैः सात्वतेन महाराज कृतवर्मा न चक्षमे ॥ 42 ॥

  43. स वत्सदन्तं संधाय जिह्मगानल संनिभम आकृष्य राजन्न आकर्णाद विव्याधॊरसि सात्यकिम ॥ 43 ॥

  44. स तस्य देवावरणं भित्त्वा देहं च सायकः स पत्रपुङ्खः पृथिवीं विवेश रुधिरॊक्षितः ॥ 44 ॥

  45. अथास्य बहुभिर बाणैर अच्छिनत परमास्त्रवित समार्गण गुणं राजन कृतवर्मा शरासनम ॥ 45 ॥

  46. विव्याध च रणे राजन सात्यकिं सत्यविक्रमम दशभिर विशिखैस तीक्ष्णैर अभिक्रुद्धः सतनान्तरे ॥ 46 ॥

  47. ततः परशीर्णे धनुषि शक्त्या शक्तिमतां वरः अभ्यहन दक्षिणं बाहुं सात्यकिः कृतवर्मणः ॥ 47 ॥

  48. ततॊ ऽनयत सुदृढं वीरॊ धनुर आदाय सात्यकिः वयसृजद विशिखांस तूर्णं शतशॊ ऽथ सहस्रशः ॥ 48 ॥

  49. स रथं कृतवर्माणं समन्तात पर्यवाकिरत छादयित्वा रणे ऽतयर्थं हार्दिक्यं तु स सात्यकिः ॥ 49 ॥

  50. अथास्य भल्लेन शिरः सारथेः समकृन्तत स पपात हतः सूतॊ हार्दिक्यस्य महारथात ततस ते यन्तरि हते पराद्रवंस तुरगा भृशम ॥ 50 ॥

  51. अथ भॊजस तव असंभ्रान्तॊ निगृह्य तुरगान सवयम तस्थौ शरधनुष्पाणिस तत सैन्यान्य अभ्यपूजयन ॥ 51 ॥

  52. स मुहूर्तम इवाश्वस्य सदश्वान समचॊदयत वयपेतभीर अमित्राणाम आवहत सुमहद भयम सात्यकिश चाभ्यगात तस्मात स तु भीमम उपाद्रवत ॥ 52 ॥

  53. युयुधानॊ ऽपि राजेन्द्र दरॊणानीकाद विनिःसृतः परययौ तवरितस तूर्णं काम्बॊजानां महाचमूम ॥ 53 ॥

  54. स तत्र बहुभिः शूरैः संनिरुद्धॊ महारथैः न चचाल तदा राजन सात्यकिः सत्यविक्रमः ॥ 54 ॥

  55. संधाय च चमूं दरॊणॊ भॊजे भारं निवेश्य च अन्वधावद रणे यत्तॊ युयुधानं युयुत्सया ॥ 55 ॥

  56. तथा तम अनुधावन्तं युयुधानस्य पृष्ठतः नयवारयन्त संक्रुद्धाः पाण्डुसैन्ये बृहत्तमाः ॥ 56 ॥

  57. समासाद्य तु हार्दिक्यं रथानां पर्वरं रथम पाञ्चाला विगतॊत्साहा भीमसेनपुरॊगमाः विक्रम्य वारिता राजन वीरेण कृतवर्मणा ॥ 57 ॥

  58. यतमानांस तु तान सर्वान ईषद विगतचेतसः अभितस्ताञ शरौघेण कलान्तवाहान अवारयत ॥ 58 ॥

  59. निगृहीतास तु भॊजेन भॊजानीकेप्सवॊ रणे अतिष्ठन्न आर्यवद वीराः परार्थयन्तॊ महद यशः ॥ 59 ॥

Reach this point to mark the section finished.

Continue to अध्याय 89

Previous: अध्याय 87