[स] परीतियुक्तं च हृद्यं च मधुराक्षरम एव च कालयुक्तं च चित्रं च सवतया चाभिभाषितम ॥ 1 ॥
धर्मराजस्य तद वाक्यं निशम्य शिनिपुंगवः सात्यकिर भरतश्रेष्ठ परत्युवाच युधिष्ठिरम ॥ 2 ॥
शरुतं ते गदतॊ वाक्यं सर्वम एतन मयाच्युत नयाययुक्तं च चित्रं च फल्गुनार्थे यशः करम ॥ 3 ॥
एवंविधे तथा काले मदृशं परेक्ष्य संमतम वक्तुम अर्हसि राजेन्द्र यथा पार्थं तथैव माम ॥ 4 ॥
न मे धनंजयस्यार्थे पराणा रक्ष्याः कथं चन तवत्प्रयुक्तः पुनर अहं किं न कुर्यां महाहवे ॥ 5 ॥
लॊकत्रयं यॊधयेयं स देवासुरमानुषम तवत्प्रयुक्तॊ नरेन्द्रेह किम उतैतत सुदुर्बलम ॥ 6 ॥
सुयॊधन बलं तव अद्य यॊधयिष्ये समन्ततः विजेष्ये च रणे राजन सत्यम एतद बरवीमि ते ॥ 7 ॥
कुशल्य अहं कुशलिनं समासाद्य धनंजयम हते जयद्रथे राजन पुनर एष्यामि ते ऽनतिकम ॥ 8 ॥
अवश्यं तु मया सर्वं विज्ञाप्यस तवं नराधिप वासुदेवस्य यद वाक्यं फल्गुनस्य च धीमतः ॥ 9 ॥
दृढं तव अभिपरीतॊ ऽहम अर्जुनेन पुनः पुनः मध्ये सर्वस्य सैन्यस्य वासुदेवस्य शृण्वतः ॥ 10 ॥
अद्य माधव राजानम अप्रमत्तॊ ऽनुपालय आर्यां युद्धे मतिं कृत्वा यावद धन्मि जयद्रथम ॥ 11 ॥
तवयि वाहं महाबाहॊ परद्युम्ने वा महारथे नृपं निक्षिप्य गच्छेयं निरपेक्षॊ जयद्रथम ॥ 12 ॥
जानीषे हि रणे दरॊणं रभसं शरेष्ठ संमतम परतिज्ञा चापि ते नित्यं शरुता दरॊणस्य माधव ॥ 13 ॥
गरहणं धर्मराजस्य भारद्वाजॊ ऽनुगृध्यति शक्तश चापि रणे दरॊणॊ निगृहीतुं युधिष्ठिरम ॥ 14 ॥
एवं तवयि समाधाय धर्मराजं नरॊत्तमम अहम अद्य गमिष्यामि सैन्धवस्य वधाय हि ॥ 15 ॥
जयद्रथम अहं हत्वा धरुवम एष्यामि माधव धर्मराजं यथा दरॊणॊ निगृह्णीयाद रणे बलात ॥ 16 ॥
निगृहीते नरश्रेष्ठे भारद्वाजेन माधव सैन्धवस्य वधॊ न सयान मनाप्रीतिस तथा भवेत ॥ 17 ॥
एवंगते नरश्रेष्ठ पाण्डवे सत्यवादिनि अस्माकं गमनं वयक्तं वनं परति भवेत पुनः ॥ 18 ॥
सॊ ऽयं मम जयॊ वयक्तं वयर्थ एव भविष्यति यदि दरॊणॊ रणे करुद्धॊ निगृह्णीयाद युधिष्ठिरम ॥ 19 ॥
स तवम अद्य महाबाहॊ परियार्थं मम माधव जयार्थं च यशॊऽरथं च रक्ष राजानम आहवे ॥ 20 ॥
स भवान मयि निक्षेपॊ निक्षिप्तः सव्यसाचिना भारद्वाजाद भयं नित्यं पश्यमानेन ते परभॊ ॥ 21 ॥
तस्यापि च महाबाहॊ नित्यं पश्यति संयुगे नान्यं हि परतियॊद्धारं रौक्मिणेयाद ऋते परभॊ मां वापि मन्यते युद्धे भारद्वाजस्य धीमतः ॥ 22 ॥
सॊ ऽहं संभावनां चैताम आचार्य वचनं च तत पृष्ठतॊ नॊत्सहे कर्तुं तवां वा तयक्तुं महीपते ॥ 23 ॥
आचार्यॊ लघुहस्तत्वाद अभेद्यकवचावृतः उपलभ्य रणे करीडेद यथा शकुनिना शिशुः ॥ 24 ॥
यदि कार्ष्णिर धनुष्पाणिर इह सयान मकरध्वजः तस्मै तवां विसृजेयं वै स तवां रक्षेद यथार्जुनः ॥ 25 ॥
कुरु तवम आत्मनॊ गुप्तिं कस ते गॊप्ता गते मयि यः परतीयाद रणे दरॊणं यावद गच्छामि पाण्डवम ॥ 26 ॥
मा च ते भयम अद्यास्तु राजन्न अर्जुन संभवम न स जातु महाबाहुर भारम उद्यम्य सीदति ॥ 27 ॥
ये च सौवीरका यॊधास तथा सैन्धव पौरवाः उदीच्या दाक्षिणात्याश च ये चान्ये ऽपि महारथाः ॥ 28 ॥
ये च कर्ण मुखा राजन रथॊदाराः परकीर्तिताः एते ऽरजुनस्य करुद्धस्य कलां नार्हन्ति षॊडशीम ॥ 29 ॥
उद्युक्ता पृथिवी सर्वा स सुरासुरमानुषा स राक्षसगणा राजन स किंनरमहॊरगा ॥ 30 ॥
जङ्गमाः सथावरैः सार्धं नालं पार्थस्य संयुगे एवं जञात्वा महाराज वयेतु ते भीर धनंजये ॥ 31 ॥
यत्र वीरौ महेष्वासौ कृष्णौ सत्यपराक्रमौ न तत्र कर्मणॊ वयापत कथं चिद अपि विद्यते ॥ 32 ॥
दैवं कृतास्त्रतां यॊगम अमर्षम अपि चाहवे कृतज्ञतां दयां चैव भरातुस तवम अनुचिन्तय ॥ 33 ॥
यमि चाप्य अपयाते वै गच्छमाने ऽरजुनं परति दरॊणे चित्रास्त्रतां संख्ये राजंस तवम अनुचिन्तय ॥ 34 ॥
आचार्यॊ हि भृशं राजन निग्रहे तव गृध्यति परतिज्ञाम आत्मनॊ रक्षन सत्यां कर्तुं च भारत ॥ 35 ॥
कुरुष्वाद्यात्मनॊ गुप्तिं कस ते गॊप्ता गते मयि यस्याहं पर्ययात पार्थ गच्छेयं फल्गुनं परति ॥ 36 ॥
न हय अहं तवा महाराज अनिक्षिप्य महाहवे कव चिद यास्यामि कौरव्य सत्यम एतद बरवीमि ते ॥ 37 ॥
एतद विचार्य बहुशॊ बुद्ध्या बुद्धिमतां वर दृष्ट्वा शरेयः परं बुद्ध्या ततॊ राजन परशाधि माम ॥ 38 ॥
[य] एवम एतन महाबाहॊ यथा वदसि माधव न तु मे शुध्यते भावः शवेताश्वं परति मारिष ॥ 39 ॥
करिष्ये परमं यत्नम आत्मनॊ रक्षणं परति गच्छ तवं समनुज्ञातॊ यत्र यातॊ धनंजयः ॥ 40 ॥
आत्मसंरक्षणं संख्ये गमनं चार्जुनं परति विचार्यैतद दवयं बुद्ध्या गमनं तत्र रॊचये ॥ 41 ॥
स वम आतिष्ठ यानाय यत्र यातॊ धनंजयः ममापि रक्षणं भीमः करिष्यति महाबलः ॥ 42 ॥
पार्षतश च ससॊदर्यः पार्थिवाश च महाबलाः दरौपदेयाश च मां तात रक्षिष्यन्ति न संशयः ॥ 43 ॥
केकया भरातरः पञ्च राक्षसश च घटॊत्कचः विराटॊ दरुपदश चैव शिखण्डी च महारथः ॥ 44 ॥
धृष्टकेतुश च बलवान कुन्तिभॊजश च मारिष नकुलः सहदेवश च पाञ्चालाः सृञ्जयास तथा एते समाहितास तात रक्षिष्यन्ति न संशयः ॥ 45 ॥
न दरॊणः सह सैन्येन कृतवर्मा च संयुगे समासादयितुं शक्तॊ न च मां धर्षयिष्यति ॥ 46 ॥
धृष्टद्युम्नश च समरे दरॊणं करुद्धं परंतपः वारयिष्यति विक्रम्य वेलेव मकरालयम ॥ 47 ॥
यत्र सथास्यति संग्रामे पार्षतः परवीरहा न दरॊण सैन्यं बलवत करामेत तत्र कथं चन ॥ 48 ॥
एष दरॊण विनाशाय समुत्पन्नॊ हुताशनात कवची स शरी खड्गी धन्वी च वरभूषणः ॥ 49 ॥
विश्रब्धॊ गच्छ शैनेय मा कार्षीर मयि संभ्रमम धृष्टद्युम्नॊ रणे करुद्धॊ दरॊणम आवारयिष्यति ॥ 50 ॥
द्रोणपर्व · Drona Parva
अध्याय 86
Reach this point to mark the section finished.
Continue to अध्याय 87