धर्मDharmic Data

द्रोणपर्व · Drona Parva

अध्याय 85

  1. [धृ] भारद्वाजं कथें युद्धे युयुधानॊ ऽभयवारयत संजयाचक्ष्व तत्त्वेन परं कौतूहलं हि मे ॥ 1 ॥

  2. [स] शृणु राजन महाप्राज्ञ संग्रामं लॊमहर्षणम दरॊणस्य पाण्डवैः सार्धं युयुधान पुरॊगमैः ॥ 2 ॥

  3. वध्यमानं बलं दृष्ट्वा युयुधानेन मारिष अभ्यद्रवत सवयं दरॊणः सात्यकिं सत्यविक्रमम ॥ 3 ॥

  4. तम आपतन्तं सहसा भारद्वाजं महारथम सात्यकिः पञ्चविंशत्या कषुद्रकाणां समार्पयत ॥ 4 ॥

  5. दरॊणॊ ऽपि युधि विक्रान्तॊ युयुधानं समाहितः अविध्यत पञ्चभिस तूर्णंहेम पुङ्खैः शिलाशितैः ॥ 5 ॥

  6. ते वर्म भित्त्वा सुदृढं दविषत पिशित भॊजनाः अभ्यगुर धरणीं राजञ शवसन्त इव पन्नगाः ॥ 6 ॥

  7. दीर्घबाहुर अभिक्रुद्धस तॊत्त्रार्दित इव दविपः दरॊणं पञ्चाशताविध्यन नाराचैर अग्निसंनिभैः ॥ 7 ॥

  8. भारद्वाजॊ रणे विद्धॊ युयुधानेन स तवरम सात्यकिं बहुभिर बाणैर यतमानम अविध्यत ॥ 8 ॥

  9. ततः करुद्धॊ महेष्वासॊ भूय एव महाबलः सात्वतं पीडयाम आस शतेन नतपर्वणा ॥ 9 ॥

  10. स वध्यमानः समरे भारद्वाजेन सात्यकिः नाभ्यपद्यत कर्तव्यं किं चिद एव विशां पते ॥ 10 ॥

  11. विषण्णवदनश चापि युयुधानॊ ऽभवन नृप भारद्वाजं रणे दृष्ट्वा विसृजन्तं शिताञ शरान ॥ 11 ॥

  12. तं तु संप्रेक्ष्य ते पुत्राः सैनिकाश च विशां पते परहृष्टमनसॊ भूत्वा सिंहवद वयनदन मुहुः ॥ 12 ॥

  13. तं शरुत्वा निनदं घॊरं पीड्यमानं च माधवम युधिष्टिरॊ ऽबरवीद राजन सर्वसैन्यानि भारत ॥ 13 ॥

  14. एष वृष्णिवरॊ वीरः सात्यकिः सत्यकर्मकृत गरस्यते युधि वीरेण भानुमान इव राहुणा अभिद्रवत गच्छध्वं सात्यकिर यत्र युध्यते ॥ 14 ॥

  15. धृष्टद्युम्नं च पाञ्चाल्यम इदम आह जनाधिप अभिद्रव दरुतं दरॊणं किं नु तिष्ठसि पार्षत न पश्यसि भयं घॊरं दरॊणान नः समुपस्थितम ॥ 15 ॥

  16. असौ दरॊणॊ महेष्वासॊ युयुधानेन संयुगे करीडते सूत्रबद्धेन पक्षिणा बालकॊ यथा ॥ 16 ॥

  17. तत्रैव सर्वे गच्छन्तु भीमसेनमुखा रथाः तवयैव सहिता यत्ता युयुधान रथं परति ॥ 17 ॥

  18. पृष्ठतॊ ऽनुगमिष्यामि तवाम अहं सह सैनिकः सात्यकिं मॊक्षयस्वाद्य यम दंष्ट्रान्तरं गतम ॥ 18 ॥

  19. एवम उक्त्वा ततॊ राजा सर्वसैन्येन पाण्डवः अभ्यद्रवद रणे दरॊणं युयुधानस्य कारणात ॥ 19 ॥

  20. तत्रारावॊ महान आसीद दरॊणम एकं युयुत्सताम पाण्डवानां च भद्रं ते सृञ्जयानां च सर्वशः ॥ 20 ॥

  21. ते समेत्य नरव्याघ्रा भारद्वाजं महारथम अभ्यवर्षञ शरैस तीक्ष्णैः कङ्कबर्हिण वाजितः ॥ 21 ॥

  22. समयन्न एव तु तान वीरान दरॊणः परत्यग्रहीत सवयम अतिथीन आगतान यद्वत सलिलेनासनेन च ॥ 22 ॥

  23. तर्पितास ते शरैस तस्य भारद्वाजस्य धन्विनः आतिथेय गृहं पराप्य नृपते ऽतिथयॊ यथा ॥ 23 ॥

  24. भारद्वाजं च ते सर्वे न शेकुः परतिवीक्षितुम मध्यं दिनम अनुप्राप्तं सहस्रांशुम इव परभॊ ॥ 24 ॥

  25. तांस तु सर्वान महेष्वासान दरॊणः शस्त्रभृतां वरः अतापयच छरव्रातैर गभस्तिभिर इवांशुमान ॥ 25 ॥

  26. वध्यमाना रणे राजन पाण्डवाः सृञ्जयास तथा तरातारं नाध्यगच्छन्त पङ्कमग्ना इव दविपाः ॥ 26 ॥

  27. दरॊणस्य च वयदृश्यन्त विसर्पन्तॊ महाशराः घभस्तय इवार्कस्य परतपन्तः समन्ततः ॥ 27 ॥

  28. तस्मिन दरॊणेन निहताः पाञ्चालाः पञ्चविंशतिः महारथसमाख्याता धृष्टद्युम्नस्य संमताः ॥ 28 ॥

  29. पाण्डूनां सर्वसैन्येषु पाञ्चालानां तथैव च दरॊणं सम ददृशुः शूरं विनिघ्नन्तं वरान वरान ॥ 29 ॥

  30. केकयानां शतं हत्वा विद्राव्य च समन्ततः दरॊणस तस्थौ महाराज वयादितास्य इवान्तकः ॥ 30 ॥

  31. पाञ्चालान सृञ्जयान मत्स्यान केकयान पाण्डवान अपि दरॊणॊ ऽजयन महाबाहुः शतशॊ ऽथ सहस्रशः ॥ 31 ॥

  32. तेषां समभवच छब्दॊ वध्यतां दरॊण सायकैः वनौकसाम इवारण्ये दह्यतां धूमकेतुना ॥ 32 ॥

  33. तत्र देवाः स गन्धर्वाः पितरश चाब्रुवन नृप एते दरवन्ति पाञ्चालाः पाण्डवाश च स सैनिकाः ॥ 33 ॥

  34. तं तथा समरे दरॊणं निघ्नन्तं सॊमकान रणे न चाप्य अभिययुः के चिद अपरे नैव विव्यधुः ॥ 34 ॥

  35. वर्तमाने तथा रौद्रे तस्मिन वीरवरक्षये अशृणॊत सहसा पार्थः पाञ्चजन्यस्य निस्वनम ॥ 35 ॥

  36. पूरितॊ वासुदेवेन शङ्खराट सवनते भृशम युध्यमानेषु वीरेषु सैन्धवस्याभिरक्षिषु नदत्सु धार्तराष्ट्रेषु विजयस्य रथं परति ॥ 36 ॥

  37. गाण्डीवस्य च निर्घॊषे विप्रनष्टे समन्ततः कश्मलाभिहतॊ राजा चिन्तयाम आस पाण्डवः ॥ 37 ॥

  38. न नूनं सवस्ति पार्थस्य यथा नदति शङ्खराट कौरवाश च यथा हृष्टा विनदन्ति मुहुर मुहुः ॥ 38 ॥

  39. एवं संचिन्तयित्वा तु वयाकुलेनान्तर आत्मना अजातशत्रुः कौन्तेयः सात्वतं परत्यभाषत ॥ 39 ॥

  40. बाष्पगद्गदया वाचा मुह्यमानॊ मुहुर मुहुः कृत्यस्यानन्तरापेक्षी शैनेयं शिनिपुंगवम ॥ 40 ॥

  41. यः स धर्मः पुरा दृष्टः सद्भिः शैनेय शाश्वतः साम्पराये सुहृत कृत्ये तस्य कालॊ ऽयम आगतः ॥ 41 ॥

  42. सर्वेष्व अपि च यॊधेषु चिन्तयञ शिनिपुंगव तवत्तः सुहृत्तमं कं चिन नाभिजानामि सात्यके ॥ 42 ॥

  43. यॊ हि परीतमना नित्यं यश च नित्यम अनुव्रतः स कार्ये साम्पराये तु नियॊज्य इति मे मतिः ॥ 43 ॥

  44. यथा च केशवॊ नित्यं पाण्डवानां परायणम तथा तवम अपि वार्ष्णेय कृष्ण तुल्यपराक्रमः ॥ 44 ॥

  45. सॊ ऽहं भारं समाधास्ये तवयि तं वॊढुम अर्हसि अभिप्रायं च मे नित्यं न वृथा कर्तुम अर्हसि ॥ 45 ॥

  46. स तवं भरातुर वयस्यस्य गुरॊर अपि च संयुगे कुरु कृच्छ्रसहायार्थम अर्जुनस्य नरर्षभ ॥ 46 ॥

  47. तवं हि सत्यव्रतः शूरॊ मित्राणाम अभयंकरः लॊके विख्यायसे वीरकर्मभिः सत्यवाग इति ॥ 47 ॥

  48. यॊ हि शैनेय मित्रार्थे युध्यमानस तयजेत तनुम पृथिवीं वा दविजातिभ्यॊ यॊ दद्यात समम एव तत ॥ 48 ॥

  49. शरुताश च बहवॊ ऽसमाभी राजानॊ ये दिवं गताः दत्त्वेमां पृथिवीं कृत्स्नां बराह्मणेभ्यॊ यथाविधि ॥ 49 ॥

  50. एवं तवाम अपि धर्मात्मन परयाचे ऽहं कृताञ्जलिः पृथिवी दानतुल्यं सयाद अधिकं वा फलं विभॊ ॥ 50 ॥

  51. एक एव सदा कृष्णॊ मित्राणाम अभयंकरः रणे संत्यजति पराणान दवितीयस तवं च सात्यके ॥ 51 ॥

  52. विक्रान्तस्य च वीरस्य युद्धे परार्थयते यशः शूर एव सहायः सयान नेतरः पराकृतॊ जनः ॥ 52 ॥

  53. ईदृशे तु परामर्दे वर्तमानस्य माधव तवदन्यॊ हि रणे गॊप्ता विजयस्य न विद्यते ॥ 53 ॥

  54. शलाघन्न एव हि कर्माणि शतशस तव पाण्डवः मम संजनयन हर्षं पुनः पुनर अकीर्तयत ॥ 54 ॥

  55. लघ्व अस्त्रश चित्रयॊधी च तथा लघुपराक्रमः पराज्ञः सर्वास्त्रविच छूरॊ मुह्यते न च संयुगे ॥ 55 ॥

  56. महास्कन्धॊ महॊरस्कॊ महाबाहुर महाधनुः महाबलॊ महावीर्यः स महात्मा महारथः ॥ 56 ॥

  57. शिष्यॊ मम सखा चैव परियॊ ऽसयाहं परियश च मे युयुधानः सहायॊ मे परमथिष्यति कौरवान ॥ 57 ॥

  58. अस्मदर्थं च राजेन्द्र संनह्येद यदि केशवः रामॊ वाप्य अनिरुद्धॊ वा परद्युम्नॊ वा महारथः ॥ 58 ॥

  59. गदॊ वा सारणॊ वापि साम्बॊ वा सह वृष्णिभिः सहायार्थं महाराज संग्रामॊत्तम मूर्धनि ॥ 59 ॥

  60. तथाप्य अहं नरव्याघ्रं शैनेयं सत्यविक्रमम साहाय्ये विनियॊक्ष्यामि नासिन मे ऽनयॊ हि तत समः ॥ 60 ॥

  61. इति दवैतवने तात माम उवाच धनंजयः परॊक्षं तवद गुणांस तथ्यान कथयन्न आर्य संसदि ॥ 61 ॥

  62. तस्य तवम एवं संकल्पं न वृथा कर्तुम अर्हसि धनंजयस्य वार्ष्णेय मम भीमस्य चॊभयॊः ॥ 62 ॥

  63. यच चापि तीर्थानि चरन्न अगच्छं दवारकां परति तत्राहम अपि ते भक्तिम अर्जुनं परति दृष्टवान ॥ 63 ॥

  64. न तत सौहृदम अन्येषु मया शैनेय लक्षितम यथा तम अस्मान भजसे वर्तमानान उपप्लवे ॥ 64 ॥

  65. सॊ ऽभिजात्या च भक्त्या च सख्यस्याचार्यकस्य च सौहृदस्य च वीर्यस्य कुलीनत्वस्य माधव ॥ 65 ॥

  66. सत्यस्य च महाबाहॊ अनुकम्पार्थम एव च अनुरूपं महेष्वास कर्म तवं कर्तुम अर्हसि ॥ 66 ॥

  67. सॊयॊधनॊ हि सहसा गतॊ दरॊणेन दंशितः पूर्वम एव तु यातास ते कौरवाणां महारथाः ॥ 67 ॥

  68. सुमहान निनदंश चैव शरूयते विजयं परति स शैनेय जवेनात्र गन्तुम अर्हसि माधव ॥ 68 ॥

  69. भीमसेनॊ वयं चैव संयत्ताः सह सैनिकाः दरॊणम आवारयिष्यामॊ यदि तवां परति यास्यति ॥ 69 ॥

  70. पश्य शैनेय सैन्यानि दरवमाणानि संयुगे महान्तं च रणे शब्दं दीर्यमाणां च भारतीम ॥ 70 ॥

  71. महामारुत वेगेन समुद्रम इव पर्वसु धार्तराष्ट्र बलं तात विक्षिप्तं सव्यसाचिना ॥ 71 ॥

  72. रथैर विपरिधावद्भिर मनुष्यैश च हयैश च ह सैन्यं रजः समुद्धूतम एत संपरिवर्तते ॥ 72 ॥

  73. संवृतः सिन्धुसौवीरैर नखरप्रासयॊधिभि अत्यन्तापचितैः शूरैः फल्गुनः परवीरहा ॥ 73 ॥

  74. नैतद बलम असंवार्य शक्यॊ हन्तुं जयद्रथः एते हि सैन्धवस्यार्थे सर्वे संत्यक्तजीविताः ॥ 74 ॥

  75. शरशक्तिध्वजवनं हयनागसमाकुलम पश्यैतद धार्तराष्ट्राणाम अनीकं सुदुरासदम ॥ 75 ॥

  76. शृणु दुन्दुभिनिर्घॊषं शङ्खशब्दांश च पुष्कलान सिंहनाद रवांश चैव रथनेमि सवनांस तथा ॥ 76 ॥

  77. नागानां शृणु शब्दं च पत्तीनां च सहस्रशः सादिनां दरवतां चैव शृणु कम्पयतां महीम ॥ 77 ॥

  78. पुरस्तात सौन्धवानीकं दरॊणानीकस्य पृष्ठतः बहुत्वाद धि नरव्याघ्र देवेन्द्रम अपि पीडयेत ॥ 78 ॥

  79. अपर्यन्ते बले मग्नॊ जह्याद अपि च जीवितम तस्मिंश च निहते युद्धे कथं जीवेत मादृशः सर्वथाहम अनुप्राप्तः सुकृच्छ्रं बलजीवितम ॥ 79 ॥

  80. शयामॊ युवा गुडाकेशॊ दर्शनीयश च पाण्डवः लघ्व अस्त्रश चित्रयॊधी च परविष्टस तात भारतीम ॥ 80 ॥

  81. सूर्यॊदये महाबाहुर दिवसश चातिवर्तते तन्न जानामि वार्ष्णेय यदि जीवति वा न वा कुरूणां चापि तत सैन्यं सागरप्रतिमं महत ॥ 81 ॥

  82. एक एव च बीभत्सुः परविष्टस तात भारतीम अविषह्यां महाबाहुः सुरैर अपि महामृधे ॥ 82 ॥

  83. न च मे वर्तते बुद्धिर अद्य युद्धे कथं चन दरॊणॊ ऽपि रभसॊ युद्धे मम पीडयते बलम परत्यक्षं ते महाबाहॊ यथासौ चरति दविजः ॥ 83 ॥

  84. युगपच च समेतानां कार्याणां तवं विचक्षणः महार्थं लघु संयुक्तं कर्तुम अर्हसि माधव ॥ 84 ॥

  85. तस्य मे सर्वकार्येषु कार्यम एतन मतं सदा अर्जुनस्य परित्राणं कर्तव्यम इति संयुगे ॥ 85 ॥

  86. नाहं शॊचामि दाशार्हं गॊप्तारं जगतः परभुम स हि शक्तॊ रणे तात तरीँल लॊकान अपि संगतान ॥ 86 ॥

  87. विजेतुं पुरुषव्याघ्र सत्यम एतद बरवीमि ते किं पुनर धार्तराष्ट्रस्य बलम एतत सुदुर्बलम ॥ 87 ॥

  88. अर्जुनस तव एव बार्ष्णेय पीडितॊ बहुभिर युधि परजह्यात समरे पराणांस तस्माद विन्दामि कश्मलम ॥ 88 ॥

  89. तस्य तवं पदवीं गच्छ गच्छेयुस तवादृशा यथा तवादृशस्येदृशे काले मादृशेनाभिचॊदितः ॥ 89 ॥

  90. रणे वृष्णिप्रवीराणां दवाव एवातिरथौ समृतौ परद्युम्नश च महाबाहुस तवं च सात्वत विश्रुतः ॥ 90 ॥

  91. अस्त्रे नारायण समः संकर्षण समॊ बले वीरतायां नरव्याघ्र धनंजय समॊ हय असि ॥ 91 ॥

  92. भीष्मद्रॊणाव अतिक्रम्य सर्वयुद्धविशारदम तवाम अद्य पुरुषव्याघ्रं लॊके सन्तः परचक्षते ॥ 92 ॥

  93. नासाध्यं विद्यते लॊके सात्यकेर इति माधव तत तवां यद अभिवक्ष्यामि तत कुरुष्व महाबल ॥ 93 ॥

  94. संभावना हि लॊकस्य तव पार्थस्य चॊभयॊः नान्यथा तां महाबाहॊ संप्रकर्तुम इहार्हसि ॥ 94 ॥

  95. परित्यज्य परियान पराणान रणे विचर वीरवत न हि शैनेय दाशार्हा रणे रक्षन्ति जीवितम ॥ 95 ॥

  96. अयुद्धम अनवस्थानं संग्रामे च पलायनम भीरूणाम असतां मार्गॊ नैष दाशार्ह सेवितः ॥ 96 ॥

  97. तवार्जुनॊ गुरुस तात धर्मात्मा शिनिपुंगव वासुदेवॊ गुरुश चापि तव पार्थस्य धीमतः ॥ 97 ॥

  98. कारणद्वयम एतद धि जानानस तवाहम अब्रुवम मावमंस्था वचॊ मह्यं गुरुस तव गुरॊर हय अहम ॥ 98 ॥

  99. वासुदेव मतं चैतन मम चैवार्जुनस्य च सत्यम एतन मयॊक्तं ते याहि यत्र धनंजयः ॥ 99 ॥

  100. एतद वचनम आज्ञाय मम सत्यपराक्रम परविशैतद बलं तात धार्तराष्ट्रस्य दुर्मतेः ॥ 100 ॥

  101. परविश्य च यथान्यायं संगम्य च महारथैः यथार्हम आत्मनः कर्म रणे सात्वत दर्शय ॥ 101 ॥

Reach this point to mark the section finished.

Continue to अध्याय 86

Previous: अध्याय 84