[स] अलम्बुसं तथा युद्धे विचरन्तम अभीतवत हैडिम्बः परययौ तूर्णं विव्याध च शितैः शरैः ॥ 1 ॥
तयॊः परतिभयं युद्धम आसीद राक्षससिंहयॊः कुर्वतॊर विविधा मायाः शक्रशम्बरयॊर इव ॥ 2 ॥
अलम्बुसॊ भृशं करुद्धॊ घटॊत्कचम अताडयत घटॊत्कचस तु विंशत्या नाराचानां सतनान्तरे अलम्बुसम अथॊ विद्ध्वा सिंहा वद वयनदन मुहुः ॥ 3 ॥
तथैवालम्बुसॊ राजन हैडिम्बं युद्धदुर्मदम विद्ध्वा विद्ध्वानदद धृष्टः पूरयन खं समन्ततः ॥ 4 ॥
तथा तौ भृशसंक्रुद्धौ राक्षसेन्द्रौ महाबलौ निर्विशेषम अयुध्येतां मायाभिर इतरेतरम ॥ 5 ॥
माया शतसृजौ दृप्तौ मॊहयन्तौ परस्परम मायायुद्धे सुकुशलौ मायायुद्धम अयुध्यताम ॥ 6 ॥
यां यां घटॊत्कचॊ युद्धे मायां दर्शयते नृप तां ताम अलम्बुसॊ राजन माययैव निजघ्निवान ॥ 7 ॥
तं तथा युध्यमानं तु मायायुद्धविशारदम अलम्बुसं राक्षसेन्द्रं दृष्ट्वाक्रुध्यन्त पाण्डवाः ॥ 8 ॥
त एनं भृशसंक्रुद्धाः सर्वतः परवरा रथैः अभ्यद्रवन्त संक्रुद्धा भीमसेनादयॊ नृप ॥ 9 ॥
त एनं कॊष्ठकी कृत्यरथवंशेन मारिष सर्वतॊ वयकिरन बाणैर उल्काभिर इव कुञ्जरम ॥ 10 ॥
स तेषाम अस्त्रवेगं तं परतिहत्यास्त्र मायया तस्माद रथव्रजान मुक्तॊ वनदाहाद इव दविपः ॥ 11 ॥
स विस्फार्य धनुर घॊरम इन्द्राशनिसमस्वनम मारुतिं पञ्चविंशत्या भैमसेनिं च पञ्चभिः युधिष्ठिरं तरिभिर विद्ध्वा सहदेवं च सप्तभिः ॥ 12 ॥
नकुलं च तरिसप्तत्या दरुपदेयांश च मारिष पञ्चभिः पञ्चभिर विद्ध्वा घॊरं नादं ननाद ह ॥ 13 ॥
तं भीमसेनॊ नवभिः सहदेवश च पञ्चभिः युधिष्ठिरः शतेनैव राक्षसं परत्यविध्यत नकुलश च चतुःषष्ट्या दरौपदेयास तरिभिस तरिभिः ॥ 14 ॥
हैडिम्बॊ राक्षसं विद्ध्वा युद्धे पञ्चाशता शरैः पुनर विव्याध सप्तत्या ननाद च महाबलः ॥ 15 ॥
सॊऽअतिविद्धॊ महेष्वासः सर्वतस तैर महारथैः परतिविव्याध तान सर्वान पञ्चभिः पञ्चभिः शरैः ॥ 16 ॥
तं करुद्धं राक्षसं युद्धे परतिक्रुद्धस तु राक्षसः हैडिम्बॊ भरतश्रेष्ठ शरैर विव्याध सप्तभिः ॥ 17 ॥
सॊ तिविद्धॊ बलवता राक्षसेन्द्रॊ महाबलः वयसृजत सायकांस तूर्णं सवर्णपुङ्खाञ शिलाशितान ॥ 18 ॥
ते शरा नतपर्वाणॊ विविशू राक्षसं तदा रुषिताः पन्नगा यद्वद गिरिम उग्रा महाबलाः ॥ 19 ॥
ततस ते पाण्डवा राजन समन्तान निशिताञ शरान परेषयाम आसुर उद्विग्ना हैडिम्बश च घटॊत्कचः ॥ 20 ॥
स वध्यमानः समरे पाडवैर जितकाशिभिः दग्धाद्रिकूटशृङ्गाभं भिन्नाञ्जनचयॊपमम ॥ 21 ॥
समुत्क्षिप्य च बाहुभ्याम आविध्य च पुनः पुनः निष्पिपेष कषितौ कषिप्रं पूर्णकुम्भम इवाश्मनि ॥ 22 ॥
बललाघव संपन्नः संपन्नॊ विरमेण च भैमसेनी रणे करुद्ध सर्वसैन्यान्य अभीषयत ॥ 23 ॥
स विस्फुटित सर्वाङ्गश चूर्णितास्थि विभूषणः घटॊत्कचेन वीरेण हतः सालकटङ्कटह ॥ 24 ॥
ततः सुमनसः पार्था हते तस्मिन निशाचरे चुक्रुशुः सिंहनादांश च वासांस्य आदुधुवुश च ह ॥ 25 ॥
तावकाश च हतं दृष्ट्वा राक्षसेन्द्रं महाबलम अलम्बुसं भीमरूपं विशीर्णम इव पर्वतम हाहाकारम अकुर्वन्त सैन्यानि भरतर्षभ ॥ 26 ॥
जनाश च तद ददृशिरे रक्षः कौतूहलान्विताः यदृच्छया निपतितं भूमाव अङ्गारकं यथा ॥ 27 ॥
घटॊत्कचस तु तद धत्वा रक्षॊबलवतां वरम मुमॊच बलवन नादं बलं हत्वेव वासवः ॥ 28 ॥
स पूज्यमानः पितृभिः स बान्हवैर; घटॊत्कचः कर्णमि दुष्करे कृते रिपुं निहत्याभिननन्द वै तदा; अलम्बुसं पक्वम अलम्बुसं यथा ॥ 29 ॥
ततॊ निनादः सुमहान समुत्थितः; स शङ्खनानाविध बाणघॊषवान निशम्य तं परत्यनदंस तु कौरवास; ततॊ धवनिर भुवनम अथास्पृशद भृशम ॥ 30 ॥
द्रोणपर्व · Drona Parva
अध्याय 84
Reach this point to mark the section finished.
Continue to अध्याय 85