धर्मDharmic Data

द्रोणपर्व · Drona Parva

अध्याय 83

  1. [स] दरौपदेयान महेष्वासान सौमदत्तिर महायशाः एकैकं पञ्चभिर विद्ध्वा पुनर विव्याध सप्तभिः ॥ 1 ॥

  2. ते पीडिता भृशं तेन रौद्रेण सहसा विभॊ परमूढा नैव विविदुर मृधे कृत्यं सम किं चन ॥ 2 ॥

  3. नाकुलिस तु शतानीकः सौमदत्तिं नरर्षभम दवाभ्यां विद्ध्वानदद धृष्टः शराभ्यां शत्रुतापनः ॥ 3 ॥

  4. तथेतरे रणे यत्तस तरिभिस तरिभिर अजिह्मगैः विव्यधुः समरे तूर्णं सौमदत्तिम अमर्षणम ॥ 4 ॥

  5. स तान परति महाराज चिक्षिपे पञ्च सायकान एकैकं हृदि चाजघ्ने एकैकेन महायशाः ॥ 5 ॥

  6. ततस ते भरातरः पञ्च शरैर विद्धा महात्मना परिवार्य रथैर वीरैं विव्यधुः सायकैर भृशम ॥ 6 ॥

  7. आर्जुनिस तु हयांस तस्य चतुर्भिर निशितैः शरैः परेषयाम आस संक्रुद्धॊ यमस्य सदनं परति ॥ 7 ॥

  8. भैमसेनिर धनुश छित्त्वा सौमदत्तेर महात्मनः ननाद बलवन नादं विव्याध च शितैः शरैः ॥ 8 ॥

  9. यौधिष्ठिरॊ धवजं तस्य छित्त्वा भूमाव अपातयत नाकुलिश चाश्वयन्तारमं रथनीडाद अपाहरत ॥ 9 ॥

  10. साहदेविस तु तं जञात्वा भरातृभिर विमुखीकृतम कषुरप्रेण शिरॊ राजन निचकर्त महामनाः ॥ 10 ॥

  11. तच्छिरॊ नयपतद भूमौ तपनीयविभूषितम भराजयन्तं रणॊद्देशं बालसूर्यसमप्रभम ॥ 11 ॥

  12. सौमदत्तेः शिरॊ दृष्ट्वा निपतत तन महात्मनः वित्रस्तास तावका राजन परदुद्रुवुर अनेकधा ॥ 12 ॥

  13. अलम्बुसस तु समरे भीमसेनं महाबलम यॊधयाम आस संक्रुद्धॊ लक्ष्मणं रावणिर यथा ॥ 13 ॥

  14. संप्रयुद्धौ रणे दृष्ट्वा ताव उभौ नरराक्षसौ विस्मयः सर्वभूतानां परहर्षश चाभवत तदा ॥ 14 ॥

  15. आर्ष्यशृङ्गिं ततॊ भीमॊ नवभिर निशितैः शरैः विव्याध परहसन राजन राक्षसेन्द्रम अमर्षणम ॥ 15 ॥

  16. तद रक्षः समरे विद्धं कृत्वा नादं भयावहम अभ्यद्रवत ततॊ भीमं ये च तस्य पदानुगाः ॥ 16 ॥

  17. स भीमं पञ्चभिर विद्ध्वा शरैः संनतपर्वभिः भीमानुगाञ जघानाशु रथांस तरिंशद अरिंदमः पुनश चतुःशतान हत्वा भीमं विव्याध पत्रिणा ॥ 17 ॥

  18. सॊ ऽतिविद्धस तदा भीमॊ राक्षसेन महाबलः निषसाद रथॊपस्थे मूर्छयाभिपरिप्लुतः ॥ 18 ॥

  19. परतिलभ्य ततः संज्ञां मारुतिः करॊधमूर्छितः विकृष्य कार्मुकं घॊरं भारसाधनम उत्तमम अलम्बुसं शरैस तीक्ष्णैर अर्दयाम आस सर्वतः ॥ 19 ॥

  20. स विद्धॊ बहुभिर बाणैर नीलाञ्जनचयॊपमः शुशुभे सर्वतॊ राजन परदीप्त इव किंशुकः ॥ 20 ॥

  21. स वध्यमानः समरे भीमचापच्युतैः शरैः समरन भरातृवधं चैव पाण्डवेन महात्मना ॥ 21 ॥

  22. घॊरं रूपम अथॊ कृत्वा भीमसेनम अभाषत तिष्ठेदानीं रणे पार्थ पश्य मे ऽदय पराक्रमम ॥ 22 ॥

  23. बकॊ नाम सुदुर्बुद्धे राक्षस परवरॊ बली परॊक्षं मम तद्वृत्तं यद भराता मे हतस तवया ॥ 23 ॥

  24. एवम उक्त्वा ततॊ भीमम अन्तर्धानगतस तदा महाता शरवर्षेण भृशं तं समवाकिरत ॥ 24 ॥

  25. भीमस तु समरे राजन्न अदृश्ये राक्षसे तदा आकाशं पूरयाम आस शरैः संनतपर्वभिः ॥ 25 ॥

  26. स वध्यमानॊ भीमेन निमेषाद रथम आस्थितः जगाम धरणीं कषुद्रः खं चैव सहसागमत ॥ 26 ॥

  27. उच्चावचानि रूपाणि चकार सुबहूनि च उच्चावचास तथा वाचॊ वयाजहार समन्ततः ॥ 27 ॥

  28. तेन पाण्डवसैन्यानां मृदिता युधि वारणाः हयाश च बहवॊ राजन पत्तयश च तथा पुनः रथेभ्यॊ रथिनः पेतुस तस्य नुन्नाः सम सायकैः ॥ 28 ॥

  29. शॊणितॊदां रथावर्तां हस्तिग्राहसमाकुलाम छत्रहंसां कर्दमिनीं बाहुपन्नग संकुलाम ॥ 29 ॥

  30. नदीं परवर्तयाम आस रक्षॊगणसमाकुलाम वहन्तीं बहुधा राजंश चेदिपाञ्चालसृञ्जयान ॥ 30 ॥

  31. तं तथा समरे राजन विचरन्तम अभीतवत पाण्डवा भृशसंविग्नाः परापश्यंस तत्स्य विक्रमम ॥ 31 ॥

  32. तावकानां तु सैन्यानां परहर्षः समजायत वादित्रनिनदश चॊग्रः सुमहाँल लॊमहर्षणः ॥ 32 ॥

  33. तं शरुत्वा निनदंघॊरं तव सैन्यस्य पाण्डवः नामृष्यत यथा नागस तलशब्दं समीरितम ॥ 33 ॥

  34. ततः करॊधाभिताम्राक्षॊ निर्दहन्न इव पावकः संदधे तवाष्ट्रम अस्त्रं स सवयं तवष्टेव मारिष ॥ 34 ॥

  35. ततः शरसहस्राणि परादुरासन समन्ततः तैः शरैस तव सैन्यस्य विद्रावः सुमहान अभूत ॥ 35 ॥

  36. तद अस्त्रं परेषितं तेन भीमसेनेन संयुगे राक्षसस्य महामायां हत्वा राक्षसम आर्दयत ॥ 36 ॥

  37. स वध्यमानॊ बहुधा भीमसेनेन राक्षसः संत्यज्य संयुगे भीमं दरॊणानीकम उपाद्रवत ॥ 37 ॥

  38. तस्मिंस तु निर्जिते राजन राक्षसेन्द्रे महात्मना अनादयन सिंहनादैः पाण्डवाः सर्वतॊदिशम ॥ 38 ॥

  39. अपूजयन मारुतिंच संहृष्टास ते महाबलम परह्रादं समरे जित्वा यथा शक्रं मरुद्गणाः ॥ 39 ॥

Reach this point to mark the section finished.

Continue to अध्याय 84

Previous: अध्याय 82