[धृ] धवजान बहुविधाकारान भराजमानान अतिश्रिया पार्थानां मामकानां च तान ममाचक्ष्व संजय ॥ 1 ॥
[स] धवजान बहुविधाकाराञ शृणु तेषां महात्मनाम रूपतॊ वर्णतश चैव नामतश च निबॊध मे ॥ 2 ॥
तेषां तु रथमुह्यानां रथेषु विविधा धवजाः परत्यदृश्यन्त राजेन्द्र जवलिता इव पावलाः ॥ 3 ॥
काञ्चनाः काञ्चनापीडाः काञ्चनस्रग अलंकृताः काञ्चनानीव शृङ्गाणि काञ्चनस्य महागिरेः ॥ 4 ॥
ते धवजाः संवृतास तेषां पताकाभिः समन्ततः नानावर्णविरागाभिर विबभुः सर्वतॊवृताः ॥ 5 ॥
पताकाश च ततस तास तु शवसनेन समीरिताः नृत्यमाना वयदृश्यन्त रङ्गमध्ये विलासिकाः ॥ 6 ॥
इन्द्रायुधसवर्णाभाः पताका भरतर्षभ दॊधूयमाना रथिनां शॊभयन्ति महारथान ॥ 7 ॥
सिन्ह लाङ्गूलम उग्रास्यं धजं वानरलक्षणम धनंजयस्य संग्रामे परत्यपश्यम भैरवम ॥ 8 ॥
स वानरवरॊ राजन पताकाभिर अलंकृतः तरासयाम आस तत सैन्यम धवजॊ गाण्डीवधन्वनः ॥ 9 ॥
तथैव सिंहलाङ्गूलं दरॊणपुत्रस्य भारत धवजाग्रं समपश्याम बालसूर्यसमप्रभम ॥ 10 ॥
काञ्चनं पवनॊद्धूतं शक्रध्वजसमप्रभम नन्दनं कौरवेन्द्राणां दरौणेर लक्षणम उच्छ्रितम ॥ 11 ॥
हस्तिकक्ष्या पुनर हैमी बभूवाधिरथेर धवजे आहवे खं महाराज ददृशे पूरयन्न इव ॥ 12 ॥
पताकी काञ्चनस्रग्वी धवजः कर्णस्य संयुगे नृत्यतीव रथॊपस्थे शवसनेन समीरितः ॥ 13 ॥
आचार्यस्य च पाण्डूनां बराह्मणस्य यशस्विनः गॊवृषॊ गौतमस्यासीत कृपस्य सुपरिष्कृतः ॥ 14 ॥
स तेन भराजते राजन गॊवृषेण महारथः तरिपुरघ्न रथॊ यद्वद गॊवृषेण विराजते ॥ 15 ॥
मयूरॊ वृषसेनस्य काञ्चनॊ मणिरत्नवान वयाहरिष्यन्न इवातिष्ठत सेनाग्रम अपि शॊभयन ॥ 16 ॥
तेन तस्य रथॊ भाति मयूरेण महात्मनः यथा सथन्दस्य राजेन्द्र मयूरेण विराजता ॥ 17 ॥
मद्रराजस्य शल्यस्य धवजाग्रे ऽगनिशिखाम इव सौवर्णीं परतिपश्याम सीताम अप्रतिमां शुभाम ॥ 18 ॥
सा सीता भराजते तस्य रथम आस्थाय मारिष सर्वबीजविरूढेव यथा सीता शरिया वृता ॥ 19 ॥
वराहः सिन्धुराजस्य राजतॊ ऽभिविराजते धवजाग्रे ऽलॊहितार्काभॊ हेमजालपरिष्कृतः ॥ 20 ॥
शुशुभे केतुना तेन राजतेन जयद्रथः यथा देवासुरे युद्धे पुरा पूषा सम शॊभते ॥ 21 ॥
सौमदत्तेः पुनर यूपॊ यज्ञशीलस्य धीमतः धवजः सूर्य इवाभाति सॊमश चात्र परदृश्यते ॥ 22 ॥
स यूपः काञ्चनॊ राजन सौमदत्तेर विराजते राजसूये मखश्रेष्ठे यथा यूपः समुच्छ्रितः ॥ 23 ॥
शलस्य तु महाराज राजतॊ दविरदॊ महान केतुः काञ्चनचित्राङ्गैर मयूरैर उपशॊभितः ॥ 24 ॥
स केतुः शॊभयाम आस सैन्यं ते भरतर्षभ यथा शवेतॊ महानागॊ देवराजचमूं तथा ॥ 25 ॥
नागॊ मणिमयॊ राज्ञॊ धवजः कनकसंवृतः किङ्किणीशतसंह्रादॊ भराजंश चित्रे रथॊत्तमे ॥ 26 ॥
वयभ्राजत भृशं राजन पुत्रस तव विशां पते धवजेन महता संख्ये कुरूणाम ऋषभस तदा ॥ 27 ॥
नवैते तव वाहिन्याम उच्छ्रिताः परमध्वजाः वयदीपयंस ते पृतनां युगान्तादित्यसंनिभाः ॥ 28 ॥
दशमस तव अर्जुनस्यासीद एक एव महाकपिः अदीप्यतार्जुनॊ येन हिमवान इव वह्निना ॥ 29 ॥
ततश चित्राणि शुभ्राणि सुमहान्ति महारथाः कार्मुकाण्य आददुस तूर्णम अर्जुनार्थे परंतपाः ॥ 30 ॥
तथैव धनुर आयच्छत पार्थः शत्रुविनाशनः गाण्डीवं दिव्यकर्मा तद राजन दुर्मन्त्रिते तव ॥ 31 ॥
तवापराधाद धि नरा निहता बहुधा युधि नानादिग्भ्यः समाहूताः सहयाः स रथद्विपाः ॥ 32 ॥
तेषाम आसीद वयतिक्षेपॊ गर्जताम इतरेतरम दुर्यॊधनमुखानां च पाण्डूनाम ऋषभस्य च ॥ 33 ॥
तत्राद्भुतं परं चक्र्जे कौन्तेयः कृष्णसारथिः यद एकॊ बहुभिः सार्धं समागच्छद अभीतवत ॥ 34 ॥
अशॊभत महाबाहुर गाण्डीवं विक्षिपन धनुः जिगीषुस तान नरव्याघ्राञ जिघांसुश च जयद्रथम ॥ 35 ॥
तत्रार्जुनॊ महाराज शरैर मुक्तैः सहस्रशः अदृश्यान अकरॊद यॊधांस तावकाञ शत्रुतापनः ॥ 36 ॥
ततस ते ऽपि नरव्याघ्राः पार्थं सर्वे महारथाः अदृश्यं समरे चक्रुः सायकौघैः समन्ततः ॥ 37 ॥
संवृते नरसिंहैस तैः कुरूणाम ऋषभे ऽरजुने महान आसीत समुद्धूतस तस्य सैन्यस्य निस्वनः ॥ 38 ॥
द्रोणपर्व · Drona Parva
अध्याय 80
Reach this point to mark the section finished.
Continue to अध्याय 81