[स] तावकास तु समीक्ष्यैव वृष्ण्यन्धककुरूत्तमौ पराग अत्वरञ जिघांसन्तस तथैव विजयः परान ॥ 1 ॥
सुवर्णचित्रैर वैयाघ्रैः सवनवद्भिर महारथैः दीपयन्तॊ दिशः सर्वा जवलद्भिर इव पावकैः ॥ 2 ॥
रुक्मपृष्ठैश च दुष्प्रेक्ष्यैः कार्मुकैः पृथिवीपते कूजद्भिर अतुलान नादान रॊषितैर उरगैर इव ॥ 3 ॥
भूरिश्रवाः शलः कर्णॊ वृषसेनॊ जयद्रथः कृपश च मद्रराजश च दरौणिश च रथिनां वरः ॥ 4 ॥
ते पिबन्त इवाकाशम अश्वैर अष्टौ महारथाः वयराजयन दश दिशॊ वैयाघ्रैर हेमचन्द्रकैः ॥ 5 ॥
ते दंशिताः सुसंरब्धा रथैर मेघौघनिस्वनैः समावृण्वन दिशः सर्वाः पार्थं च विशिखैः शितैः ॥ 6 ॥
कौलूतका हयाश चित्रा वहन्तस तान महारथान वयशॊभन्त तदा शीघ्रा दीपयन्तॊ दिशॊ दश ॥ 7 ॥
आजानेयैर महावेगैर नानादेशसमुत्थितैः पार्वतीयैर नदीजैश च सैन्धवैश च हयॊत्तमैः ॥ 8 ॥
कुरु यॊधवरा राजंस तव पुत्रं परीप्सवः धनंजयरथं शीघ्रं सर्वतः समुपाद्रवन ॥ 9 ॥
ते परगृह्य महाशङ्खान दध्मुः पुरुषसत्तमाः पूरयन्तॊ दिवं राजन पृथिवीं च स सारगाम ॥ 10 ॥
तथैव दध्मतुः शङ्खौ वासुदेवधनंजयौ परवरौ सर्वभूतानां सर्वशङ्खवरौ भुवि देवदत्तं च कौन्तेयः पाञ्चजन्यं च केशवः ॥ 11 ॥
शब्दस तु देवदत्तस्य धनंजय समीरितः पृथिवीं चान्तरिक्षं च दिशश चैव समावृणॊत ॥ 12 ॥
तथैव पाञ्चजन्यॊ ऽपि वासुदेव समीरितः सर्वशब्दान अतिक्रम्य पूरयाम आस रॊदसी ॥ 13 ॥
तस्मिंस तथा वर्तमाने दारुणे नादसंकुले भीरूणां तरासजनने शूराणां हर्षवर्धने ॥ 14 ॥
परवादितासु भेरीषु झर्झरेष्व आनकेषु च मृदङ्गेषु च राजेन्द्र वाद्यमानेष्व अनेकशः ॥ 15 ॥
महारथसमाख्यात दुर्यॊधनहितैषिणः अमृष्यमाणास तं शब्दं करुद्धाः परमधन्विनः नानादेश्या महीपालाः सवसैन्यपरिरक्षिणः ॥ 16 ॥
अमर्षिता महाशङ्खान दध्मुर वीरा महारथाः कृते परतिकरिष्यन्तः केशवस्यार्जुनस्य च ॥ 17 ॥
बभूव तव तत सैन्यं शङ्खशब्दसमीरितम उद्विग्नरथनागाश्वम अस्वस्थम इव चाभिभॊ ॥ 18 ॥
तत परयुक्तम इवाकाशं शूरैः शङ्खनिनादितम बभूव भृशम उद्विग्नं निर्घातैर इव नादितम ॥ 19 ॥
स शब्दः सुमहान राजन दिशः सर्वा वयनादयत तरासयाम आस तत सैन्यं युगान्त इव संभृतः ॥ 20 ॥
ततॊ दुर्यॊधनॊ ऽषटौ च राजानस ते महारथाः जयद्रथस्य रक्षार्थं पाण्डवं पर्यवारयन ॥ 21 ॥
ततॊ दरौणिस तरिसप्तत्या वासुदेवम अताडयत अर्जुनं च तरिभिर भल्लैर धवजम अश्वांश च पञ्चभिः ॥ 22 ॥
तम अर्जुनः पृषत्कानां शतैः षड्भिर अताडयत अत्यर्थम इव संक्रुद्धः परतिविद्धे जनार्दने ॥ 23 ॥
कर्णं दवादशभिर विद्ध्वा वृषसेनं तरिभिस तथा शल्यस्य स शरं चापं मुष्टौ चिच्छेद वीर्यवान ॥ 24 ॥
गृहीत्वा धनुर अन्यत तु शल्यॊ विव्याध पाण्डवम भूरिश्रवास तरिभिर बाणैर हेमपुङ्खैः शिलाशितैः ॥ 25 ॥
कर्णॊ दवात्रिशता चैव वृषसेनश च पञ्चभिः जयद्रथस तरिसप्तत्या कृपश च दशभिः शरैः मद्रराजश च दशभिर विव्यधुः फल्गुनं रणे ॥ 26 ॥
ततः शराणां षष्ट्या तु दरौणिः पार्थम अवाकिरत वासुदेवं च सप्तत्या पुनः पार्थं च पञ्चभिः ॥ 27 ॥
परहसंस तु नरव्याघ्रः शवेताश्वः कृष्णसारथिः परत्यविध्यत स तान सर्वान दर्शयन पाणिलाघवम ॥ 28 ॥
कर्णं दवादशभिर विद्ध्वा वृषसेनं तरिभिः शरैः शल्यस्य समरे चापं मुष्टिदेशे नयकृन्तत ॥ 29 ॥
सौमदत्तिं तरिभिर विद्ध्वा शल्यं च दशभिः शरैः शितैर अग्निशिखाकारैर दरौणिं विव्याध चाषभिः ॥ 30 ॥
गौतमं पञ्चविंशत्या शैन्धवं च शतेन ह पुनर दरौणिं च सप्तत्या शराणां सॊ ऽभयताडयत ॥ 31 ॥
भूरि शवरास तु संक्रुद्धः परतॊदं चिच्छिदे हरेः अर्जुनं च तरिसप्तत्या बाणानाम आजघान ह ॥ 32 ॥
ततः शरशतैस तीक्ष्णैस तान अरीञ शवेतवाहनः परत्यषेधद दरुतं करुद्धॊ महावातॊ घनान इव ॥ 33 ॥
द्रोणपर्व · Drona Parva
अध्याय 79
Reach this point to mark the section finished.
Continue to अध्याय 80