धर्मDharmic Data

द्रोणपर्व · Drona Parva

अध्याय 7

  1. [स] तथा दरॊणम अभिघ्नन्तं स शवसूत रथद्विपान वयथिताः पाण्डवा दृष्ट्वा न चैनं पर्यवारयन ॥ 1 ॥

  2. ततॊ युधिष्ठिरॊ राजा धृष्टद्युम्न धनंजयौ अब्रवीत सर्वतॊ यत्तैः कुम्भयॊनिर निवार्यताम ॥ 2 ॥

  3. तत्रैनम अर्जुनश चैव पार्षतश च सहानुगः पर्यगृह्णंस ततः सर्वे समायान्तं महारथाः ॥ 3 ॥

  4. केकया भिमसेनश च सौभद्रॊ ऽथ घटॊत्कचः युधिष्ठिरॊ यमौ मत्स्या दरुपदस्यात्मजास तथा ॥ 4 ॥

  5. दरौपदेयाश च संहृष्टा धृष्टकेतुः स सात्यकिः चेकितानश च संक्रुद्धॊ युयुत्सुश च महारथः ॥ 5 ॥

  6. ये चान्ये पार्थिवा राजन पाण्डवस्यानुयायिनः कुलवीर्यानुरूपाणि चक्रुः कर्माण्य अनेकशः ॥ 6 ॥

  7. संगृह्यमाणां तां दृष्ट्वा पाण्डवैर वाहिनीं रणे वयावृत्य चक्षुषी कॊपाद भारद्वाजॊ ऽनववैक्षत ॥ 7 ॥

  8. स तीव्रं कॊपम आस्थाय रथे समरदुर्मदः वयधमत पाण्डवानीकम अभ्राणीव सदागतिः ॥ 8 ॥

  9. रथान अश्वान नरान नागान अभिधावंस ततस ततः चचारॊन्मत्तवद दरॊणॊ वृद्धॊ ऽपि तरुणॊ यथा ॥ 9 ॥

  10. तस्य शॊणितदिग्धाङ्गाः शॊणास ते वातरंहसः आजानेया हया राजन्न अविभ्रान्ताः शरियं दधुः ॥ 10 ॥

  11. तम अन्तकम इव करुद्धम आपतन्तं यतव्रतम दृष्ट्वा संप्राद्रवन यॊधाः पाण्डवस्य ततस ततः ॥ 11 ॥

  12. तेषां परद्रवतां भीमः पुनरावर्तताम अपि वीक्षतां तिष्ठतां चासीच छब्दः परमदारुणः ॥ 12 ॥

  13. शूराणां हर्षजननॊ भीरूणां भयवर्धनः दयावापृथिव्यॊर विवरं पूरयाम आस सर्वतः ॥ 13 ॥

  14. ततः पुनर अपि दरॊणॊ नाम विश्रावयन युधि अकरॊद रौद्रम आत्मानं किरञ शरशतैः परान ॥ 14 ॥

  15. स तथा तान्य अनीकानि पाण्डवेयस्य धीमतः कालवन नयवधीद दरॊणॊ युवेव सथविरॊ बली ॥ 15 ॥

  16. उत्कृत्य च शिरांस्य उग्रॊ बाहून अपि सुभूषणान कृत्वा शून्यान रथॊपस्थान उदक्रॊशन महारथः ॥ 16 ॥

  17. तस्य हर्षप्रणादेन बाणवेगेन चाभिभॊ पराकम्पन्त रणे यॊधा गावः शीतार्दिता इव ॥ 17 ॥

  18. दरॊणस्य रथघॊषेण मौर्वी निष्पेषणेन च धनुः शब्देन चाकाशे शब्दः समभवन महान ॥ 18 ॥

  19. अथास्य बहुशॊ बाणा निश्चरन्तः सहस्रशः वयाप्य सर्वा दिशः पेतुर गजाश्वरथपत्तिषु ॥ 19 ॥

  20. तं कार्मुकमहावेगम अस्त्रज्वलित पावकम दरॊणम आदासयां चक्रुः पाञ्चालाः पाण्डवैः सह ॥ 20 ॥

  21. तान वै स रथहस्त्यश्वान पराहिणॊद यमसादनम दरॊणॊ ऽचिरेणाकरॊच च महीं शॊणितकर्दमाम ॥ 21 ॥

  22. तन्वता परमास्त्राणि शरान सततम अस्यता दरॊणेन विहितं दिक्षु बाणजालम अदृश्यत ॥ 22 ॥

  23. पदातिषु रथाश्वेषु वारणेषु च सर्वशः तस्य विद्युद इवाभ्रेषु चरन केतुर अदृश्यत ॥ 23 ॥

  24. स केकयानां परवरांश च पञ्च; पाञ्चालराजं च शरैः परमृद्य युधिष्ठिरानीकम अदीनयॊधी; दरॊणॊ ऽभययात कार्मुकबाणपाणिः ॥ 24 ॥

  25. तं भीमसेनश च धनंजयश च; शिनेश च नप्ता दरुपदात्मजश च शैब्यात्मजः काशिपतिः शिबिश च; हृष्टा नदन्तॊ वयकिरञ शरौघैः ॥ 25 ॥

  26. तेषाम अथॊ दरॊण धनुर विमुक्ताः; पतत्रिणः काञ्चनचित्रपुङ्खाः भित्त्वा शरीराणि गजाश्वयूनां; जग्मुर महीं शॊणितदिग्ध वाजाः ॥ 26 ॥

  27. सा यॊधसंघैश च रथैश च भूमिः; शरैर विभिन्नैर गजवाजिभिश च परच्छाद्यमाना पतितैर बभूव; समन्ततॊ दयौर इव कालमेघैः ॥ 27 ॥

  28. शैनेय भीमार्जुनवाहिनीपाञ; शैब्याभिमन्यू सह काशिराज्ञा अन्यांश च वीरान समरे परमृद्नाद; दरॊणः सुतानां तव भूतिकामः ॥ 28 ॥

  29. एतानि चान्यानि च कौरवेन्द्र; कर्माणि कृत्वा समरे महात्मा परताप्य लॊकान इव कालसूर्यॊ; दरॊणॊ गतः सवर्गम इतॊ हि राजन ॥ 29 ॥

  30. एवं रुक्मरथः शूरॊ हत्वा शतसहस्रशः पाण्डवानां रणे यॊधान पार्षतेन निपातितः ॥ 30 ॥

  31. अक्षौहिणीम अभ्यधिकां शूराणाम अनिवर्तिनाम निहत्य पश्चाद धृतिमान अगच्छत परमं गतिम ॥ 31 ॥

  32. पाण्डवैः सह पाञ्चालैर अशिवैः करूरकर्मभिः हतॊ रुक्मरथॊ राजन कृत्वा कर्म सुदुष्करम ॥ 32 ॥

  33. ततॊ निनादॊ भूतानाम आकाशे समजायत सैन्यानां च ततॊ राजन्न आचार्ये निहते युधि ॥ 33 ॥

  34. दयां धरां खं दिशॊ वारि परदिशश चानुनादयन अहॊ धिग इति भूतानां शब्दः समभवन महान ॥ 34 ॥

  35. देवताः पितरश चैव पूर्वे ये चास्य बान्धवाः ददृशुर निहतं तत्र भारद्वाजं महारथम ॥ 35 ॥

  36. पाण्डवास तु जयं लब्ध्वा सिंहनादान परचक्रिरे तेन नादेन महता समकम्पत मेदिनी ॥ 36 ॥

Reach this point to mark the section finished.

Continue to अध्याय 8

Previous: अध्याय 6