धर्मDharmic Data

द्रोणपर्व · Drona Parva

अध्याय 78

  1. [स] एवम उक्त्वार्जुनं राजा तरिभिर मर्मातिगैः शरैः परत्यविध्यन महावेगैश चतुर्भिश अतुरॊ हयान ॥ 1 ॥

  2. वासुदेवं च दशभिः परत्यविध्यत सतनान्तरे पतॊदं चास्य भल्लेन छित्त्वा भूमाव अपातयत ॥ 2 ॥

  3. तं चतुर्दशभिः पार्थश चित्रपुङ्खैः शिलाशितैः अविध्यत तूर्णम अव्यग्रस ते ऽसयाभ्रश्यन्त वर्मणः ॥ 3 ॥

  4. तेषां वैफल्यम आलॊक्य पुनर नव च पञ्च च पराहिणॊन निशितान बाणांस ते चाभ्रश्यन्त वर्मणः ॥ 4 ॥

  5. अष्टाविंशत तु तान बाणान अस्तान विप्रेक्ष्य निष्फलान अब्रवीत परवीरघ्नः कृष्णॊ ऽरजुनम इदं वचः ॥ 5 ॥

  6. अदृष्टपूर्वं पश्यामि शिलानाम इव सर्पणम तवया संप्रेषिताः पार्थ नार्थं कुर्वन्ति पत्रिणः ॥ 6 ॥

  7. कच चिद गाण्डीवतः पराणास तथैव भरतर्षभ मुष्टिश च ते यथापूर्वं भुजयॊश च बलं तव ॥ 7 ॥

  8. न चेद विधेर अयं कालः पराप्तः सयाद अद्य पश्चिमः तव चैवास्य शत्रॊश च तन ममाचक्ष्व पृच्छतः ॥ 8 ॥

  9. विस्मयॊ मे महान पार्थ तव दृष्ट्वा शरान इमान वयर्थान निपततः संख्ये दुर्यॊधन रथं परति ॥ 9 ॥

  10. वज्राशनिसमा घॊराः परकायावभेदिनः शराः कुर्वन्ति ते नार्थं पार्थ काद्य विडन्बना ॥ 10 ॥

  11. [अर्ज] दरॊणेनैषा मतिः कृष्ण धार्तराष्ट्रे निवेशिताः अन्ते विहितम अस्त्राणाम एतत कवचधारणम ॥ 11 ॥

  12. अस्मिन्न अन्तर्हितं कृष्ण तरैलॊक्यम अपि वर्मणि एकॊ दरॊणॊ हि वेदैतद अहं तस्माच च सत्तमात ॥ 12 ॥

  13. न शक्यम एतत कवचं बाणैर भेत्तुं कथं चन अपि वज्रेण गॊविन्द सवयं मघवता युधि ॥ 13 ॥

  14. जानंस तवम अपि वै कृष्ण मां विमॊहयसे कथम यद्वृत्तं तरिषु लॊकेषु यच च केशव वर्तते ॥ 14 ॥

  15. तथा भविष्यद यच चैव तत सर्वं विदितं तव न तव एवं वेद वै कश चिद यथा तवं मधुसूदन ॥ 15 ॥

  16. एष दुर्यॊधनः कृष्ण दरॊणेन विहिताम इमाम तिष्ठत्य अभीतवत संख्ये बिभ्रत कवचधारणाम ॥ 16 ॥

  17. यत तव अत्र विहितं कार्यं नैष तद वेत्ति माधव सत्रीवद एष बिभर्त्य एतां युक्तां कवचधारणाम ॥ 17 ॥

  18. पश्य बाह्वॊश च मे वीर्यं धनुषश च जनार्दन पराजयिष्ये कौरव्यं कवचेनापि रक्षितम ॥ 18 ॥

  19. इदम अङ्गिरसे परादाद देवेशॊ वर्म भास्वरम पुनर ददौ सुरपतिर मह्यं वर्म स संग्रहम ॥ 19 ॥

  20. दैवं यद्य अस्य वर्मैतद बरह्मणा वा सवयं कृतम नैतद गॊप्स्यति दुर्बुद्धिम अद्य बाणहतं मया ॥ 20 ॥

  21. [स] एवम उक्त्वार्जुनॊ बाणान अभिमन्त्र्य वयकर्षयत विकृष्यमाणांस तेनैवं धनुर्मध्य गताञ शरान तान अस्यास्त्रेण चिच्छेद दरौणिः सर्वास्त्रघातिना ॥ 21 ॥

  22. तान निकृत्तान इषून दृष्ट्वा दूरतॊ बरह्मवादिना नयवेदयत केशवाय विस्मितः शवेतवाहनः ॥ 22 ॥

  23. नैतद अस्त्रं मया शक्यं दविः परयॊक्तुं जनार्दन अस्त्रं माम एव हन्याद धि पश्य तव अद्य बलं मम ॥ 23 ॥

  24. ततॊ दुर्यॊधनः कृष्णौ नवभिर नतपर्वभिः अविध्यत रणे राजञ शरैर आशीविषॊपमैः भूय एवाभ्यवर्षच च समरे कृष्ण पाण्डवौ ॥ 24 ॥

  25. शरवर्षेण महता ततॊ ऽहृष्यन्त तावकाः चक्रुर वादित्रनिनदान सिंहनाद रवांस तथा ॥ 25 ॥

  26. तथ करुद्धॊ रणे पार्थः सृक्कणी परिसंहिहन नापश्यत ततॊ ऽसयाङ्गं यन न सयाद वर्म रक्षितम ॥ 26 ॥

  27. ततॊ ऽसय निशितैर बाणैः सुमुक्तैर अन्तकॊपमैः हयांश चकार निर्देहान उभौ च पार्ष्णिसारथी ॥ 27 ॥

  28. धनुर अस्याच्छिनच चित्रं हस्तावापं च वीर्यवान रथं च शकलीकर्तुं सव्यसाची परचक्रमे ॥ 28 ॥

  29. दुर्यॊधनं च बाणाभ्यां तिक्ष्णाभ्यां विरथी कृतम अविध्यद धस्त तलयॊर उभयॊर अर्जुनस तदा ॥ 29 ॥

  30. तं कृच्छ्राम आपदं पराप्तं दृष्ट्वा परमधन्विनः समापेतुः परीप्सन्तॊ धनंजय शरार्दितम ॥ 30 ॥

  31. ते रथैर बहुसाहस्रैः कल्पितैः कुञ्जरैर हयैः पदात्यॊघैश च संरब्धैः परिवव्रुर धनंजयम ॥ 31 ॥

  32. अथ नार्जुन गॊविन्दौ रथौ वापि वयदृश्यत अस्त्रवर्षेण महता जनौघैश चापि संवृतौ ॥ 32 ॥

  33. ततॊ ऽरजुनॊ ऽसत्रवीर्येण निजघ्ने तां वरूथिनीम तत्र वयङ्गी कृताः पेतुः शतशॊ ऽथ रथद्विपाः ॥ 33 ॥

  34. ते हता हन्यमानाश च नयगृह्णंस तं रथॊत्तमम स रथस्तम्भितस तस्थौ करॊशमात्रं समन्ततः ॥ 34 ॥

  35. ततॊ ऽरजुनं वृष्णिवीरस तवरितॊ वाक्यम अब्रवीत धनुर विस्फारयात्यर्थम अहं धमास्यामि चाम्बुजम ॥ 35 ॥

  36. ततॊ विस्फार्य बलवद गाण्डीवं जघ्निवान रिपून महता शरवर्षेण तलशब्देन चार्जुनः ॥ 36 ॥

  37. पाञ्चजन्यं च बलवद दध्मौ तारेण केशवः रजसा धवस्तपक्ष्मान्तः परस्विन्नवदनॊ भृशम ॥ 37 ॥

  38. तस्य शङ्खस्य नादेन धनुषॊ निस्वनेन च निःसत्त्वाश च स सत्ताश च कषितौ पेतुर तदा जनाः ॥ 38 ॥

  39. तैर विमुक्तॊ रथॊ रेजे वाय्वीरित इवाम्बुदः जयद्रथस्य गॊप्तारस ततः कषुब्धाः सहानुगाः ॥ 39 ॥

  40. ते दृष्ट्वा सहसा पार्थं गॊप्तारः सैन्धवस्य तु चक्रुर नादान बहुविधान कम्पयन्तॊ वसुंधराम ॥ 40 ॥

  41. बाणशब्दरवांश चॊग्रान विमिश्राञ शङ्खनिस्वनैः परादुश्चक्रुर महात्मानः सिंहनाद रवान अपि ॥ 41 ॥

  42. तं शरुत्वा निनदं घॊरं तावकानां समुत्थितम परदध्मतुस तदा शङ्खौ वासुदेवधनंजयौ ॥ 42 ॥

  43. तेन शब्देन महता पूरितेयं वसुंधरा स शैला सार्णव दवीपा स पाताला विशां पते ॥ 43 ॥

  44. स शब्दॊ भरतश्रेष्ठ वयाप्य सर्वा दिशॊ दश परतिसस्वान तत्रैव कुरुपाण्डवयॊर बले ॥ 44 ॥

  45. तावका रथिनस तत्र दृष्ट्वा कृष्ण धनंजयौ संरम्भं परमं पराप्तास तवरमाणा महारथाः ॥ 45 ॥

  46. अथ कृष्णौ महाभागौ तावका दृश्यदंशितौ अभ्यद्रवन्त संक्रुद्धास तद अद्भुतम इवाभवत ॥ 46 ॥

Reach this point to mark the section finished.

Continue to अध्याय 79

Previous: अध्याय 77