धर्मDharmic Data

द्रोणपर्व · Drona Parva

अध्याय 77

  1. [वासु] सुयॊधनम अतिक्रान्तम एनं पश्य धनंजय आपद गतम इमं मन्ये नास्त्य अस्य सदृशॊ रथः ॥ 1 ॥

  2. दूरपाती महेष्वासः कृतास्त्रॊ युद्धदुर्मदः दृढास्त्रश चित्रयॊधी च धार्तराष्ट्रॊ महाबलः ॥ 2 ॥

  3. अत्यन्तसुखसंवृद्दॊ मानितश च महारथैः कृती च सततं पार्थ नित्यं दवेष्टि च पाण्डवान ॥ 3 ॥

  4. तेन युद्धम अहं मन्ये पराप्तकालं तवानघ अत्र वॊ दयूतम आयातं विजयायेतराय वा ॥ 4 ॥

  5. अत्र करॊधविषं पार्थ विमुञ्च चिरसंभृतम एष मूलम अनर्थानां पाण्डवानां महारथः ॥ 5 ॥

  6. सॊ ऽयं पराप्तस तवाक्षेपं पश्य साफल्यम आत्मनः कथं हि राजा राज्यार्थी तवया गच्छेत संयुगम ॥ 6 ॥

  7. दिष्ट्या तव इदानीं संप्राप्त एष ते बाणगॊचरम स यथा जीवितं जह्यात तथा कुरु धनंजय ॥ 7 ॥

  8. ऐश्वर्यमदसंमूढॊ नैष दुःखम उपेयिवान न च ते संयुगे वीर्यं जानाति पुरुषर्षभ ॥ 8 ॥

  9. तवां हि लॊकास तरयः पार्थ स सुरासुरमानुषाः नॊत्सहन्ते रणे जेतुं किम उतैकः सुयॊधनः ॥ 9 ॥

  10. स दिष्ट्या समनुप्राप्तस तव पार्थरथान्तिकम जह्य एनं वै महाबाहॊ यथा वृत्रं पुरंदरः ॥ 10 ॥

  11. एष हय अनर्थे सततं पराक्रान्तस तवानघ निकृत्या धर्मराजं च दयूते वञ्चितवान अयम ॥ 11 ॥

  12. बहूनि सुनृशंसानि कृतान्य एतेन मानद युष्मासु पापमतिना अपापेष्व एव नित्यदा ॥ 12 ॥

  13. तम अनार्यं सदा कषुद्रं पुरुषं कामचारिणम आर्यां युद्धे मतिं कृत्वा जहि पार्थाविचारयन ॥ 13 ॥

  14. निकृत्या राज्यहरणं वनवासं च पाण्डव परिक्लेशं च कृष्णाया हृदि कृत्वा पराक्रम ॥ 14 ॥

  15. दिष्ट्यैष तव बाणानां गॊचरे परिवर्तते परतिघाताय कार्यस्य दिष्ट्या च यतते ऽगरतः ॥ 15 ॥

  16. दिष्ट्या जानाति संग्रामे यॊद्धव्यं हि तवया सह दिष्ट्या च सफलाः पार्थ सर्वे कामा हि कामिताः ॥ 16 ॥

  17. तस्माज जहि रणे पार्थ धार्तराष्ट्रं कुलाधमम यथेन्द्रेण हतः पूर्वं जम्भॊ देवासुरे मृधे ॥ 17 ॥

  18. अस्मिन हते तवया सैन्यम अनाथं भिद्यताम इदम वैरस्यास्यास तव अवभृथॊ मूलं छिन्धि दुरात्मनाम ॥ 18 ॥

  19. [स] तं तथेत्य अब्रवीत पार्थः कृत्यरूपम इदं मम सर्वम अन्यद अनादृत्य गच्छ यत्र सुयॊधनः ॥ 19 ॥

  20. येनैतद दीर्घकालं नॊ भुक्तं राज्यम अकण्टकम अप्य अस्य युधि विक्रम्य छिन्द्यां मूर्धानम आहवे ॥ 20 ॥

  21. अपि तस्या अनर्हायाः परिक्लेशस्य माधव कृष्णायाः शक्नुयां गन्तुं पदं केशप्रधर्षणे ॥ 21 ॥

  22. इत्य एवं वादिनौ हृष्टौ हृष्णौ शवेतान हयॊत्तमान परेषयाम आसतुः संख्ये परेप्सन्तौ तं नराधिपम ॥ 22 ॥

  23. तयॊः समीपं संप्राप्य पुत्रस ते भरतर्षभ न चकार भयं पराप्ते भये महति मारिष ॥ 23 ॥

  24. तद अस्य कषत्रियास तत्र सर्व एवाभ्यपूजयन यद अर्जुन हृषीकेशौ परत्युद्यातॊ ऽविचारयन ॥ 24 ॥

  25. ततः सर्वस्य सैन्यस्य तावकस्य विशां पते महान नादॊ हय अभूत तत्र दृष्ट्वा राजानम आहवे ॥ 25 ॥

  26. तस्मिञ जनसमुन्नादे परवृत्ते भैरवे सति कदर्थी कृत्यते पुत्रः परत्यमित्रम अवारयत ॥ 26 ॥

  27. आवारितस तु कौन्तेयस तव पुत्रेण धन्विना संरम्भम अगमद भूयः स च तस्मिन परंतपः ॥ 27 ॥

  28. तौ दृष्ट्वा परतिसंरब्धौ दुर्यॊधन धनंजयौ अभ्यवैक्षन्त राजानॊ भीमरूपाः समन्ततः ॥ 28 ॥

  29. दृष्ट्वा तु पार्थं संरब्धं वासुदेवं च मारिष परहसन्न इव पुत्रस ते यॊद्धुकामः समाह्वयत ॥ 29 ॥

  30. ततः परहृष्टॊ दाशार्हः पाण्डवश च धनंजयः वयाक्रॊशेतां महानादं दध्मतुश चाम्बुजॊत्तमौ ॥ 30 ॥

  31. तौ हृष्टरूपौ संप्रेक्ष्य कौरवेयाश च सर्वशः निराशाः समपद्यन्त पुत्रस्य तव जीविते ॥ 31 ॥

  32. शॊकम ईयुः परं चैव कुरवः सर्व एव ते अमन्यन्त च पुत्रं ते वैश्वानर मुखे हुतम ॥ 32 ॥

  33. तथा तु दृष्ट्वा यॊधास ते परहृष्टौ कृष्ण पाण्डवौ हतॊ राजा हतॊ राजेत्य ऊचुर एवं भयार्दिताः ॥ 33 ॥

  34. जनस्य संनिनादं तु शरुत्वा दुर्यॊधनॊ ऽबरवीत वयेतु वॊ भीर अहं कृष्णौ परेषयिष्यामि मृत्यवे ॥ 34 ॥

  35. इत्य उक्त्वा सैनिकान सर्वाञ जयापेक्षी नराधिपः पार्थम आभाष्य संरम्भाद इदं वचनम अब्रवीत ॥ 35 ॥

  36. पार्थ यच छिक्षितं ते ऽसत्रं दिव्यं मानुषम एव च तद दर्शय मयि कषिप्रं यदि जातॊ ऽसि पाण्डुना ॥ 36 ॥

  37. यद बलं तव वीर्यं च केशवस्य तथैव च तत कुरुष्व मयि कषिप्रं पश्यामस तव पौरुषम ॥ 37 ॥

  38. अस्मत परॊक्षं कर्माणि परवदन्ति कृतानि ते सवामिसत्कारयुक्तानि यानि तानीह दर्शय ॥ 38 ॥

Reach this point to mark the section finished.

Continue to अध्याय 78

Previous: अध्याय 76