[स] सलिले जनिते तस्मिन कौन्तेयेन महात्मना निवारिते दविषत सैन्ये कृते च शरवेश्मनि ॥ 1 ॥
वासुदेवॊ रथात तूर्णम अवतीर्य महाद्युतिः मॊचयाम आस तुरगान वितुन्नान कङ्कपत्रिभिः ॥ 2 ॥
अदृष्टपूर्वं तद दृष्ट्वा सिंहनादॊ महान अभूत सिद्धचारणसंघानां सैनिकानां च सर्वशः ॥ 3 ॥
पदातिनं तु कौन्तेयं युध्यमानं नरर्षभाः नाशक्नुवन वारयितुं तद अद्भुतम इवाभवत ॥ 4 ॥
आपतत्सु रथौघेषु परभूतगजवाजिषु नासंभ्रमत तदा पार्थस तद अस्य पुरुषान अति ॥ 5 ॥
वयसृजन्त शरौघांस ते पाण्डवं परति पार्थिवाः न चाव्यथत धर्मात्मा वासविः परवीरहा ॥ 6 ॥
स तानि शरजालानि गदाः परासांश च वीर्यवान आगतान अग्रसत पार्थः सरितः सागतॊ यथा ॥ 7 ॥
अस्त्रवेगेन महता पार्थॊ बाहुबलेन च सर्वेषां पार्थिवेन्द्राणाम अग्रसत ताञ शरॊत्तमान ॥ 8 ॥
तत तु पार्थस्य विक्रान्तं वासुदेवस्य चॊभयॊः अपूजयन महाराज कौरवाः परमाद्भुतम ॥ 9 ॥
किम अद्भुततरं लॊके भविताप्य अथ वाप्य अभूत यद अश्वान पार्थ गॊविन्दौ मॊचयाम आसतू रणे ॥ 10 ॥
भयं विपुलम अस्मासु ताव अधत्तां नरॊत्तमौ तेजॊ विदधतुश चॊग्रं विस्रब्धौ रणमूर्धनि ॥ 11 ॥
अथॊत्स्मयन हृषीकेशः सत्रीमध्य इव भारत अर्जुनेन कृते संख्ये शरगर्भगृहे तदा ॥ 12 ॥
उपावर्तयद अव्यग्रस तान अश्वान पुष्करेक्षणः मिषतां सर्वसैन्यानां तवदीयानां विशां पते ॥ 13 ॥
तेषां शरमं च गलानिं च वेपथुं वमथुं वरणान सर्वं वयपानुदत कृष्णः कुशलॊ हय अश्वकर्मणि ॥ 14 ॥
शल्यान उद्धृत्य पाणिभ्यां परिमृज्य च तान हयान उपावृत्य यथान्यायं पाययाम आस वारि सः ॥ 15 ॥
स ताँल लब्धॊदकान सनाताञ जग्धान्नान विगतक्लमान यॊजयाम आस संहृष्टः पुनर एव रथॊत्तमे ॥ 16 ॥
स तं रथवरं शौरिः सर्वशस्त्रभृतां वरः समास्थाय महातेजाः सार्जुनः परययौ दरुतम ॥ 17 ॥
रथं रथवरस्याजौ युक्तं लब्धॊदकैर हयैः दृष्ट्वा कुरु बलश्रेष्ठाः पुनर विमनसॊ ऽभवन ॥ 18 ॥
विनिःश्वसन्तस ते राजन भग्नदंष्ट्रा इवॊरगाः धिग अहॊ धिग गतः पार्थः कृष्णश चेत्य अब्रुवन पृथक ॥ 19 ॥
सर्वक्षत्रस्य मिषतॊ रथेनैकेन दंशितौ बाल करीडनकेनेव कदर्थी कृत्यनॊ बलम ॥ 20 ॥
करॊशतां यतमानानाम असंसक्तौ परंतपौ दर्शयित्वात्मनॊ वीर्यं परयातौ सर्वराजसु ॥ 21 ॥
तौ परयातौ पुनर दृष्ट्वा तदान्ये सैनिकाब्रुवन तवरध्वं कुरवः सर्वे वधे कृष्ण किरीटिनॊः ॥ 22 ॥
रथं युक्त्वा हि दाशार्हॊ मिषतां सर्वधन्विनाम जयद्रथाय यात्य एष कदर्थी कृत्यनॊ रणे ॥ 23 ॥
तत्र के चिन मिथॊ राजन समभाषन्त भूमिपाः अदृष्टपूर्वं संग्रामे तद दृष्ट्वा महद अद्भुतम ॥ 24 ॥
सर्वसैन्यानि राजा च धृतरष्ट्रॊ ऽतययं गतः दुर्यॊधनापराधेन कषत्रं कृत्स्ना च मेदिनी ॥ 25 ॥
विलयं समनुप्राप्ता तच च राजा न बुध्यते इत्य एवं कषत्रियास तत्र बरुवन्त्य अन्ये च भारत ॥ 26 ॥
सिन्धुराजस्य यत्कृत्यं गतस्य यमसादनम तत करॊतु वृथा दृष्टिर धार्तराष्ट्रॊ ऽनुपायवित ॥ 27 ॥
ततः शीघ्रतरं परायात पाण्डवः सैन्धवं परति निवर्तमाने तिग्मांशौ हृष्टैः पीतॊदकैर हयैः ॥ 28 ॥
तं परयान्तं महाबाहुं सर्वशस्त्रभृतां वरम नाशक्नुवन वारयितुं यॊधाः करुद्धम इवान्तकम ॥ 29 ॥
विद्राव्य तु ततः सैन्यं पाण्डवः शत्रुतापनः यथा मृगगणान सिंहः सैन्धवार्थे वयलॊडयत ॥ 30 ॥
गाहमानस तव अनीकानि तूर्णम अश्वान अचॊदयत बलाक वर्णान दाशार्हः पाचजन्यं वयनादयत ॥ 31 ॥
कौन्तेयेनाग्रतः सृष्टा नयपतन पृष्ठतः शराः तूर्णात तूर्णतरं हय अश्वास ते ऽवहन वातरंहसः ॥ 32 ॥
वातॊद्धूत पताकान्तं रथं जलदनिस्वनम घॊरं कपिध्वजं दृष्ट्वा विषण्णा रथिनॊ ऽभवन ॥ 33 ॥
दिवाकरे ऽथ रजसा सर्वतः संवृते भृशम शरार्ताश च रणे यॊधा न कृष्णौ शेकुर ईक्षितुम ॥ 34 ॥
ततॊ नृपतयः कुर्द्धाः परिवव्रुर धनंजयम कषत्रिया बहवश चान्ये जयद्रथवधैषिणम ॥ 35 ॥
अपनीयत्सु शल्येषु धिष्ठितं पुरुषर्षभम दुर्यॊधनस तव अगात पार्थं तवरमाणॊ महाहवे ॥ 36 ॥
द्रोणपर्व · Drona Parva
अध्याय 75
Reach this point to mark the section finished.
Continue to अध्याय 76