धर्मDharmic Data

द्रोणपर्व · Drona Parva

अध्याय 74

  1. [स] परिवर्तमाने तव आदित्ये तत्र सूर्यस्य रश्मिभिः रजसा कीर्यमाणाश च मन्दी भूताश च सैनिकाः ॥ 1 ॥

  2. तिष्ठतां युध्यमानानां पुनरावर्तताम अपि भज्यतां जयतां चैव जगाम तद अहः शनैः ॥ 2 ॥

  3. तथा तेषु विषक्तेषु सैन्येषु जय गृद्धिषु अर्जुनॊ वासुदेवश च सैन्धवायैव जग्मतुः ॥ 3 ॥

  4. रथमार्ग परमाणं तु कौन्तेयॊ निशितैः शरैः चकार तत्र पन्थानं ययौ येन जनार्दनः ॥ 4 ॥

  5. यत्र यत्र रथॊ याति पाण्डवस्य महात्मनः तत्र तत्रैव दीर्यन्ते सेनास तव विशां पते ॥ 5 ॥

  6. रथशिक्षां तु दाशार्हॊ दर्शयाम आस वीर्यवान उत्तमाधममध्यानि मण्डलानि विदर्शयन ॥ 6 ॥

  7. ते तु नामाङ्किताः पीताः कालज्वलन संनिभाः सनायु नद्धाः सुपर्वाणः पृथवॊ दीर्घगामिनः ॥ 7 ॥

  8. वैणवायस्मय शराः सवायता विविधाननाः रुधिरं पतगैः सार्धं पराणिनां पपुर आहवे ॥ 8 ॥

  9. रथस्थिरः करॊशमात्रे यान अस्यत्य अर्जुनः शरान रथे करॊशम अतिक्रान्ते तस्य ते घनन्ति शात्रवान ॥ 9 ॥

  10. तार्क्ष्य मारुत रंहॊभिर वाजिभिः साधु वाहिभिः तथागच्छद धृषीकेशः कृत्स्नं विस्मापयञ जगत ॥ 10 ॥

  11. न तथा गच्छति रथस तपनस्य विशां पते नेन्द्रस्य न च रुद्रस्य नापि वैश्रवणस्य च ॥ 11 ॥

  12. नान्यस्य समरे राजन गतपूर्वस तथा रथः यथा ययाव अर्जुनस्य मनॊ ऽभिप्राय शीघ्रगः ॥ 12 ॥

  13. परविश्य तु रणे राजन केशवः परवीरहा सेना मध्ये हयांस तूर्णं चॊदयाम आस भारत ॥ 13 ॥

  14. ततस तस्य रथौघस्य मध्यं पराप्य हयॊत्तमाः कृच्छ्रेण रथम ऊहुस तं कषुत्पिपासाश्रमान्विताः ॥ 14 ॥

  15. कषताश च बहुभिः शस्त्रैर युद्धशौण्डैर अनेकशः मण्डलानि विचित्राणि विचेरुस ते मुहुर मुहुः ॥ 15 ॥

  16. हतानां वाजिनागानां रथानां च नरैः सह उपरिष्टाद अतिक्रान्ताः शैलाभानां सहस्रशः ॥ 16 ॥

  17. एतस्मिन्न अन्तरे वीराव आवन्त्यौ भरातरौ नृप सहसेनौ समार्छेतां पाण्डवं कलान्तवाहनम ॥ 17 ॥

  18. ताव अर्जुनं चतुःषष्ट्या सप्तत्या च जनार्दनम शराणां च शतेनाश्वान अविध्येतां मुदान्वितौ ॥ 18 ॥

  19. ताव अर्जुनॊ महाराज नवभिर नतपर्वभिः आजघान रणे करुद्धॊ मर्मज्ञॊ मर्मभेदिभिः ॥ 19 ॥

  20. ततस तौ तु शरौघेण बीभत्सुं सह केशवम आच्छादयेतां संरब्धौ सिंहनादं च नेदतुः ॥ 20 ॥

  21. तयॊस तु धनुषी चित्रे भल्लाभ्यां शवेतवाहनः चिच्छेद समरे तूर्णं धवजौ च कनकॊज्ज्वलौ ॥ 21 ॥

  22. अथान्ये धनुषी राजन परगृह्य समरे तदा पाण्डवं भृशसंक्रुद्धाव अर्दयाम आसतुः शरैः ॥ 22 ॥

  23. तयॊस तु भृशसंक्रुद्धः शराभ्यां पाण्डुनन्दनः चिच्छेद धनुषी तूर्णं भूय एव धनंजयः ॥ 23 ॥

  24. तथान्यैर विशिखैस तूर्णं हेमपुङ्खैः शिलाशितैः जघानाश्वान सपदातांस तथॊभौ पार्ष्णिसारथी ॥ 24 ॥

  25. जयेष्ठस्य च शिरः कायात कषुरप्रेण नयकृन्तत स पपात हतः पृथ्व्यां वातरुग्ण इव दरुमः ॥ 25 ॥

  26. विन्दं तु निहतं दृष्ट्वा अनुविन्दः परतापवान हताश्वं रथम उत्सृज्य गदां गृह्य महाबलः ॥ 26 ॥

  27. अभ्यद्रवत संग्रामे भरातुर वधम अनुस्मरन गदया गदिनां शरेष्ठॊ नृत्यन्न इव महारथः ॥ 27 ॥

  28. अनुविन्दस तु दगया ललाटे मधुसूदनम सपृष्ट्वा नाकम्पयत करुद्धॊ मैनाकम इव पर्वतम ॥ 28 ॥

  29. तस्यार्जुनः शरिः षड्भिर गरीवां पादौ भुजौ शिरः निचकर्त स संछिन्नः पपाताद्रिचयॊ यथा ॥ 29 ॥

  30. ततस तौ निहतौ दृष्ट्वा तयॊ राजन पदानुगाः अभ्यद्रवन्त संक्रुद्धाः किरन्तः शतशः शरान ॥ 30 ॥

  31. तान अर्जुनः शरैस तूर्णं निहत्य भरतर्षभ वयरॊचत यथा वह्निर दावं दग्ध्वा हिमात्यये ॥ 31 ॥

  32. तयॊः सेनाम अतिक्रम्य कृच्छ्रान निर्याद धनंजयः विबभौ जलदान भित्त्वा दिवाकर इवॊदितः ॥ 32 ॥

  33. तं दृष्ट्वा कुरवस तरस्ताः परहृष्टाश चाभवन पुनः अभ्यवर्षंस तदा पार्थं समन्ताद भरतर्षभ ॥ 33 ॥

  34. शरान्तं चैनं समालक्ष्य जञात्वा दूरे च सैन्धवम सिंहनादेन महता सर्वतः पर्यवारयन ॥ 34 ॥

  35. तांस तु दृष्ट्वा सुसंरब्धान उत्स्मयन पुरुषर्षभः शनकैर इव दाशार्हम अर्जुनॊ वाक्यम अब्रवीत ॥ 35 ॥

  36. शरार्दिताश च गलानाश च हया दूरे च सैन्धवः किम इहानन्तरं कार्यं जयायिष्ठं तव रॊचते ॥ 36 ॥

  37. बरूहि कृष्ण यथातत्त्वं तवं हि पराज्ञतमः सदा भवन नेत्रा रणे शत्रून विजेष्यन्तीह पाण्डवाः ॥ 37 ॥

  38. मम तव अनन्तर्म कृत्यं यद वै तत संनिबॊध मे हयान विमुच्य हि सुखं विशल्यान कुरु माघव ॥ 38 ॥

  39. एवम उक्तस तु पार्थेन केशवः परत्युवाच तम ममाप्य एतन मतं पाथ यद इदं ते परभाषितम ॥ 39 ॥

  40. [अर्ज] अहम आवारयिष्यामि सर्वसैन्यानि केशव तवम अप्य अत्र यथान्यायं कुरु कायम अनन्तरम ॥ 40 ॥

  41. [स] सॊ ऽवतीर्य रथॊपस्थाद असंभ्रान्तॊ धनंजयः गाण्डीवं धनुर आदाय तस्थौ गिरिर इवाचलः ॥ 41 ॥

  42. तम अभ्यधावन करॊशन्तः कषत्रिया जयकाङ्क्षिणः इदं छिद्रम इति जञात्वा धरणीस्थं धनंजयम ॥ 42 ॥

  43. तम एकं रथवंशेन महता पर्यवारयन विकर्षन्तश च चापानि विसृजन्तश च सायकान ॥ 43 ॥

  44. अस्त्राणि च विचित्राणि करुद्धास तत्र वयदर्शयन छादयन्तः शरैः पार्थं मेघा इव दिवाकरम ॥ 44 ॥

  45. अभ्यद्रवन्त वेगेन कषत्रियाः कषत्रियर्षभम रथसिंहं रथॊदाराः सिंहं मत्ता इव दविपाः ॥ 45 ॥

  46. तत्र पार्थस्य भुजयॊर महद बलम अदृश्यत यत करुद्धॊ बहुलाः सेनाः सर्वतः समवारयत ॥ 46 ॥

  47. अस्त्रैर अस्त्राणि संवार्य दविषतां सर्वतॊ विभुः इषुभिर बहुभिस तूर्णं सर्वान एव समावृणॊत ॥ 47 ॥

  48. तत्रान्तरिक्षे बाणानां परगाढानां विशां पते संघर्षेण महार्चिष्मान पावकः समजायत ॥ 48 ॥

  49. तत्र तत्र महेष्वासैः शवसद्भिः शॊणिद उक्षितैः हयैर नागैश च संभिन्नैर नदद्भिश चारि कर्शनैः ॥ 49 ॥

  50. संरब्धैश चारिभिर वीरैः परार्थयद्भिर जयं मृधे एकस्थैर बहुभिः करुद्धैर ऊष्मा व समजायत ॥ 50 ॥

  51. शरॊर्मिणं धवजावर्तं नागनक्रं दुरत्ययम पदातिमत्स्य कलिलं शङ्खदुन्दुभिनिस्वनम ॥ 51 ॥

  52. असंख्येयम अपारं च रजॊ ऽऽभीलम अतीव च उष्णीष कमठच छन्नं पताकाफेन मालिनम ॥ 52 ॥

  53. रथसागरम अक्षॊभ्यं मातङ्गाङ्गशिला चितम वेला भूतास तदा पार्थः पत्रिभिः समवारयत ॥ 53 ॥

  54. ततॊ जनार्दनः संख्ये परियं पुरुषसत्तमम असंभ्रान्तॊ महाबाहुर अर्जुनं वाक्यम अब्रवीत ॥ 54 ॥

  55. उदपानम इहाश्वानां नालम अस्ति रणे ऽरजुने परीप्सन्ते जलं चेमे पेयं च तव अवगाहनम ॥ 55 ॥

  56. इदम अस्तीत्य असंभ्रान्तॊ बरुवन्न अस्त्रेण मेदिनीम अभिहत्यार्जुनश चक्रे वाजिपानं सरः शुभम ॥ 56 ॥

  57. शरवंशं शरस्थूणं शराच्छादनम अद्भुतम शरवेश्माकरॊत पार्थस तवष्टेवाद्भुत कर्मकृत ॥ 57 ॥

  58. ततः परहस्य गॊविन्दः साधु साध्व इत्य अथाब्रवीत शरवेश्मनि पार्थेन कृते तस्मिन महारणे ॥ 58 ॥

Reach this point to mark the section finished.

Continue to अध्याय 75

Previous: अध्याय 73