[धृ] बाणे तस्मिन निकृत्ते तु धृष्टद्युम्ने च मॊक्षिते तेन वृष्णिप्रवीरेण युयुधानेन संजय ॥ 1 ॥
अमर्षितॊ महेष्वासः सर्वशस्त्रभृतां वरः नरव्याघ्रः शिनेः पौत्रे दरॊणः किम अकरॊद युधि ॥ 2 ॥
[स] संप्रद्रुतः करॊधविषॊ वयादितास्य शरासनः तीक्ष्णधारेषु दशनः शितनाराच दंष्ट्रवान ॥ 3 ॥
संरम्भामर्ष ताम्राक्षॊ महाहिर इव निःश्वसन नरवीर परमुदितैः शॊणैर अश्वैर महाजवैः ॥ 4 ॥
उत्पतद्भिर इवाकाशं करमद्भिर इव सर्वतः रुक्मपुङ्खाञ शरान अस्यन युयुधानम उपाद्रवत ॥ 5 ॥
शरपात महावर्षं रथघॊषबलाहकम कार्मुकाकर्ष विक्षिप्तं नाराचबहु विद्युतम ॥ 6 ॥
शक्तिखड्गाशनि धरं करॊधवेगसमुत्थितम दरॊण मेघम अनावार्यं हयमारुत चॊदितम ॥ 7 ॥
दृष्ट्वैवाभिपतन्तं तं शूरः परपुरंजयः उवाच सूतं शैनेयः परहसन युद्धदुर्मदः ॥ 8 ॥
एतं वै बराह्मणं करूरं सवकर्मण्य अनवस्थितम आश्रयं धार्तराष्ट्रस्य राज्ञॊ दुःखभयावहम ॥ 9 ॥
शीघ्रं परजवितैर अश्वैः परत्युद्याहि परहृष्टवत आचार्यं राजपुत्राणां सततं शूरमानिनम ॥ 10 ॥
ततॊ रजतसंकाशा माधवस्य हयॊत्तमाः दरॊणस्याभिमुखाः शीघ्रम अगच्छन वातरंहसः ॥ 11 ॥
इषुजालावृतं घॊरम अन्धकारम अनन्तरम अनाधृष्यम इवान्येषां शूराणाम अभवत तदा ॥ 12 ॥
ततः शीघ्रास्त्र विदुषॊर दरॊण सात्वतयॊस तदा नान्तर्म शरवृष्टीनां दृश्यते नरसिंहयॊः ॥ 13 ॥
इषूणां संनिपातेन शब्दॊ धाराभिघातजः शुश्रुवे शक्रम उक्तानाम अशनीनाम इव सवनः ॥ 14 ॥
नाराचैर अतिविद्धानां शराणां रूपम आबभौ आशीविषविदष्टानां सर्पाणाम इव भारत ॥ 15 ॥
तयॊर जयातलनिर्घॊषॊ वयश्रूयत सुदारुणः अजस्रं शैलशृङ्गाणां वज्रेणाहन्यताम इव ॥ 16 ॥
उभयॊस तौ रथौ राजंस ते चाश्वास्तौ च सारथी रुक्मपुङ्खैः शरैश छन्नाश चित्ररूपा बभुस तदा ॥ 17 ॥
निर्मलानाम अजिह्मानां नाराचानां विशां पते निर्मुक्ताशीविषाभानां संपातॊ ऽभूत सुदारुणः ॥ 18 ॥
उभयॊः पतिते छत्त्रं तथैव पतितौ धवजौ उभौ रुधिरसिक्ताङ्गाव उभौ च विजयैषिणौ ॥ 19 ॥
सरवद्भिः शॊणितं गात्रैः परस्रुताव इव वारणौ अन्यॊन्यम अभिविध्येतां जीवितान्तकरैः शरैः ॥ 20 ॥
गर्जितॊत्क्रुष्ट संनादाः शङ्खदुन्दुभिनिस्वनाः उपारमन महाराज वयाजहार न कश चन ॥ 21 ॥
तूष्णींभूतान्य अनीकानि यॊधा युद्धाद उपारमन ददृशे दवैरथं ताभ्यां जातकौतूहलॊ जनः ॥ 22 ॥
रथिनॊ हस्तियन्तारॊ हयारॊहाः पदातयः अवैक्षन्ताचलैर नेत्रैः परिवार्य रथर्षभौ ॥ 23 ॥
हस्त्यनीकान्य अतिष्ठन्त तहानीकानि वाजिनाम तथैव रथवाहिन्यः परतिव्यूह्य वयवस्थिताः ॥ 24 ॥
मुक्ता विद्रुमचित्रैश च मणिकाञ्चनभूषितैः धवजैर आभरणैश चित्रैः कवचैश च हिरण्मयैः ॥ 25 ॥
वैजयन्ती पताकाभिः परिस्तॊमाङ्गकम्बलैः विमलैर निशितैः शस्त्रैर हयानां च परकीर्णकैः ॥ 26 ॥
जातरूपमयीभिश च राजतीभिश च मूर्धसु गजानां कुम्भमालाभिर दन्तवेष्टैश च भारत ॥ 27 ॥
सबलाकाः स खद्यॊताः सैरावत शतह्रदाः अदृश्यन्तॊष्ण पर्याये मेघानाम इव वागुराः ॥ 28 ॥
अपश्यन्न अस्मदीयाश च ते च यौधिष्ठिराः सथिताः तद युद्धं युयुधानस्य दरॊणस्य च महात्मनः ॥ 29 ॥
विमानाग्रगता देवा बरह्म शक्रपुरॊगमाः सिद्धचारणसंघाश च विद्याधरमहॊरगाः ॥ 30 ॥
गतप्रत्यागताक्षेपैश चित्रैः शस्त्रविघातिभिः विविधैर विस्मयं जग्मुस तयॊः पुरुषसिंहयॊः ॥ 31 ॥
हस्तलाघवम अस्त्रेषु दर्शयन्तौ महाबलौ अन्यॊन्यं समविध्येतां शरैस तौ दरॊण सात्यकी ॥ 32 ॥
ततॊ दरॊणस्य दाशार्हः शरांश चिच्छेद संयुगे पत्रिभिः सुदृढैर आशु धनुश चैव महाद्युते ॥ 33 ॥
निमेषान्तरमात्रेण भारद्वाजॊ ऽपरं धनुः सज्यं चकार तच चाशु चिच्छेदास्य स सात्यकिः ॥ 34 ॥
ततस तवरन पुनर दरॊणॊ धनुर हस्तॊ वयतिष्ठत सज्यं सज्यं पुनश चास्य चिच्छेद निशितैः शरैः ॥ 35 ॥
ततॊ ऽसय संयुगे दरॊणॊ दृष्ट्वा कर्मातिमानुषम युयुधानस्य राजेन्द्र मनसेदम अचिन्तयत ॥ 36 ॥
एतद अस्त्रबलं रामे कार्तवीर्ये धनंजये भीष्मे च पुरुषव्याघ्रे यद इदं सात्वतां वरे ॥ 37 ॥
तं चास्य मनसा दरॊणः पूजयाम आस विक्रमम लाघवं वासवस्येव संप्रेक्ष्य दविजसत्तमः ॥ 38 ॥
तुतॊषास्त्रविदां शरेष्ठस तथा देवाः स वासवाः न ताम आलक्षयाम आसुर लघुतां शीघ्रकारिणः ॥ 39 ॥
देवाश च युयुधानस्य गन्धर्वाश च विशां पते सिद्धचारणसंघाश च विदुर दरॊणस्य कर्म तत ॥ 40 ॥
ततॊ ऽनयद धनुर आदाय दरॊणः कषत्रिय मर्दनः अस्त्रैर अस्त्रविदां शरेष्ठॊ यॊधयाम आस भारत ॥ 41 ॥
तस्यास्त्राण्य अस्त्रमायाभिः परतिहन्य स सात्यकिः जघान निशितैर बाणैस तद अद्भुतम इवाभवत ॥ 42 ॥
तस्यातिमानुषं कर्म दृष्ट्वान्यैर असमं रणे युक्तं यॊगेन यॊगज्ञास तावकाः समपूजयन ॥ 43 ॥
यद अस्त्रम अस्यति दरॊणस तद एवास्यति सात्यकिः तम आचार्यॊ ऽपय असंभ्रान्तॊ ऽयॊधयत्ल्शत्रु तापनः ॥ 44 ॥
ततः करुद्धॊ महाराज धनुर्वेदस्य पारगः वधाय युयुधानस्य दिव्यम अस्त्रम उदैरयत ॥ 45 ॥
तद आग्नेयं महाघॊरं विपुघ्नम उपलक्ष्य सः अस्त्रं दिव्यं महेष्वासॊ वारुणं समुदैरयत ॥ 46 ॥
हाहाकारॊ महान आसीद दृष्ट्वा दिव्यास्त्रधारिणौ न विचेरुस तदाकाशे भूतान्य आकाशगान्य अपि ॥ 47 ॥
अस्त्रे ते वारुणाग्नेये ताभ्यां बाणसमाहिते न तावद अभिषज्येते वयावर्तद अथ भास्करः ॥ 48 ॥
ततॊ युधिष्ठिरॊ राजा भीमसेनश च पाण्डवः नकुलः सहदेवश च पर्यरक्षन्त सात्यकिम ॥ 49 ॥
धृष्ट्वद्युम्न मुखैः सार्धं विराटश च स केकयः मत्स्याः शाल्वेय सेनाश च दरॊणम आजग्मुर अञ्जसा ॥ 50 ॥
दुःशासनं पुरस्कृत्य राजपुत्रः सहस्रशः दरॊणम अभ्युपपद्यन्त सपत्नैः परिवारितम ॥ 51 ॥
ततॊ युद्धम अभूद राजंस तव तेषां च धन्विनाम रजसा संवृते लॊके शरजालसमावृते ॥ 52 ॥
सर्वम आविग्नम अभवन न पराज्ञायत किं चन सैन्येन रजसा धवस्ते निर्मर्यादम अवर्तत ॥ 53 ॥
द्रोणपर्व · Drona Parva
अध्याय 73
Reach this point to mark the section finished.
Continue to अध्याय 74